पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १० ]
४९
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

अथारोहणमासाद्य वेदि[१]कान्तरमाश्रितः ॥ [२]सुप्तं [३]राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ १३ ॥
शुशुभे राक्षसेन्द्रस्य स्वपतः [४]शयनोत्तमम् ॥ [५]गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ १४ ॥
काञ्चनाङ्गदनद्धौ च ददर्श [६]स महात्मनः ॥ विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ १५ ॥
ऐरावतविषाणाग्रै[७]रापीडनकृतव्रणौ ॥ वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ १६ ॥
पीनौ समसुजातांसौ [८]सङ्गतौ बलसंयुतौ ॥[९]सुलक्षणनखा[१०]ङ्गुष्ठौ स्वङ्गुलीतललक्षितौ ॥ १७ ॥
[११]संहतौ परिघाकारौ वृत्तौ करिकरोपमौ ॥ विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥ १८ ॥
शशक्षतजकल्पेन सुशीतेन सुगन्धिना ॥ चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ ॥ १९ ॥
[१२]उत्तमस्त्रीविमृदितौ गन्धोत्तम[१३]निषेवितौ ॥ यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥ २० ॥
ददर्श स [१४]कपिस्तस्य बाहू शयनसंस्थितौ ॥ मन्दरस्यान्तरे सुप्तौ महाही [१५]रूषिताविव ॥ २१ ॥
ताभ्यां स [१६]परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ॥ शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः ॥ २२ ॥
चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः ॥ मृष्टान्नरससंयुक्तः पानगन्धपुरस्सरः ॥ २३ ॥
तस्य [१७]राक्षससिंहस्य निश्चक्राम महामुखात् ॥ शयानस्य विनिश्श्वासः [१८]पूरयन्निव तद्गृहम् ॥ २४ ॥
मुक्तामणिविचित्रेण काञ्चनेन [१९]विराजितम् ॥ मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥ २५ ॥
रक्तचन्दनदिग्धेन तथा हारेण शोभिना ॥ पीनायतविशालेन वक्षसाभि[२०]विराजितम् ॥ २६ ॥


अथ अपसर्पणानन्तरं । आरोहणं सोपानं । आसाद्य अधिरुह्य । वेदिकान्तरं सोपानपर्वमध्यं ॥ १३ ॥ यस्यगन्धेनान्ये हस्तिनोभीता भवन्ति स गन्धहस्ती । प्रस्रवणं निर्झरं ॥ १४ ॥ निक्षिप्तौ प्रसारितौ ॥ १५ ॥ विष्णुचक्रपरिक्षतौ । विष्णुः उपेन्द्रः ॥ १६ ॥ सङ्गतौ देहानुरूपौ सं...१७ ॥ संहतौ दृढसंधिबन्धौ । विक्षिप्तौ शयने निहि...ञ्चाङ्गुलिमत्तया पञ्चशीर्षावित्युक्तं । एतदन्तस्य ...त्यनेनान्वयः । अत्र द्विभुजत्वैकमुखत्वोक्तिः स्त्रीणां

कामनीयत्वाय ॥ १८-१९ ॥ यक्षादीन् रावयितुं शीलमनयोरस्तीति तथा ॥ २० ॥ ददर्शेति पुनरभिधानं विशेषणान्तरविवक्षया ॥ २१ ॥ परिपूर्णाभ्यां दीर्घवृत्ताभ्यामित्यर्थः ॥ २२ ॥ निश्वासस्य चूतादिसुरभित्वं तदधिवासितरसावल्यादिमधुसेवनात् । मृष्टान्नरससंयुक्तः षड्रसपदार्थगन्धयुक्तः । पानगन्धपुरस्सरः पीयत इति पानं मधु तद्गन्धयुक्तः ॥ २३-२४॥ अपवृत्तेन स्थानात्किंचिच्चलितेन ॥ २५-२६ ॥


...वर्यध्वंसहेतुकोद्वेगविशिष्टःसन्नपासर्पत् । एतेनहनुमतोदयालुत्वातिशयःसूचितः ॥ १२ ॥ रामानु० आरोहणमासाद्यवे...न्तरमाश्रितः सोपानमार्गेणान्यवेदिकामारूढइत्यर्थ ॥ १३ ॥ स० गन्धहस्तिनिसंविष्टं गन्धहस्तिनामत्तगजेननित...ष्टंअध्यारूढं प्रस्रवणंगिरिमिवस्थितं ॥ १४ ॥ कृतव्रणौ कृतव्रणकिणौ । वज्रचक्रयोरप्यसाध्यमृत्युरितिभावः ॥ स० ...चक्रपरिक्षतौ विष्णोरुपेन्द्रस्ययञ्चक्रंसैन्ंयदेवगणस्तेनपरिक्षतौ विविधायुधजालेनपरिक्षतौ । तेनसुदर्शनस्यामोघत्वमक्षुण्णं । ...सैन्यरथाङ्गयोः' इति विश्वः । भगवच्चक्रादन्यदिदंवा ॥ १६ ॥ शि० रुषितौ कुद्धौ । ति० ददर्श अत्यादरेणददर्श । ...पुनरुक्तिः । महाही महासर्पौ ॥ अत्रद्विभुजत्वकथनाद्युद्धादिकालएवविंशतिभुजत्वंदशशीर्षत्वंचेतिबोध्यं ॥ २१ ॥ ती० भु...यामितिद्विभुजत्वं महामुखादितिवक्ष्यमाणमेकमुखत्वंचरावणस्यकामरूपत्वात्संगच्छते ॥ २२ ॥ ति० बकुलोत्तमसंयुतः ...बकुलगन्धयुतः । अयंपुरुषविशेषश्वासघर्मइतिकतकः । पानंमधु । राक्षसत्वादेववामाचारेणपूजाकरणान्मधुपानं ॥ २३ ॥ ... विराजतामुकुटेन । उपलक्षितमितिशेषः । शोभिनाहारेण शोभनहारवता वक्षसा उपलक्षितमितिशेषः ॥ २५-२६ ॥

वा. रा. १५५

  1. च. वेदिकांपरमांश्रितः.
  2. ङ. झ. ञ. ट. क्षीबं.
  3. ख. च. छ. ज. राक्षसराजानं.
  4. ङ. झ. ञ. ट. ...नंशुभं.
  5. ङ. झ. ञ. ट. हस्तिनिसंविष्टं.
  6. च. छ. ज. सुमहात्मनः. क. घ. समहाकपिः.
  7. क. ग. घ. रापीडित. च. ... ज. रुत्पीडन.
  8. क. ग. घ. संहतौ.
  9. ग. सलक्षण.
  10. क. ङ.---ट. स्वङ्गुलीयकलक्षितौ.
  11. ङ. झ. ट. संवृतौ.
  12. घ. संहतौपरिघाकारौ उत्तमस्त्रीविमर्दितौ । समौचविपुलौशुद्धौ गन्धोत्तमनिषेवितौ.
  13. ग. विभूषितौ.
  14. ग. च. ... ज. स्तत्र.
  15. ट. रुषिताविव.
  16. ङ. झ. ट. पूर्णाभ्यामुभाभ्यां.
  17. ङ.---ट. राक्षसराजस्य.
  18. क. पूरयामास.
  19. क. ख. घ. ङ. झ. ञ. ट. विराजता.
  20. ङ. झ. ञ. ट. विराजता.