पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ९ ]
४५
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

ववल्गुश्[१]चात्र कासांचित्कुण्डलानि शुभार्चिषाम् ॥ मुख[२]मारुतसंसर्गान्मन्दं [३]मन्दं सुयोषिताम् ॥ ५६ ॥
शर्करासव[४]गन्धैश्च प्रकृत्या सुरभिः सुखः ॥ तासां वदननिःश्वासः सिषेवे रावणं तदा ॥ ५७ ॥
रावणाननशङ्काश्च काश्चिद्रावणयोषितः ॥ [५]मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः ॥ ५८ ॥
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः ॥ अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥ ५९ ॥
बाहूनुपनिधायान्याः पारिहार्यविभूषितान् ॥ [६]अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥ ६० ॥
अन्या वक्षसि चान्यस्यास्तस्याः काश्चित्पुनर्भुजम् ॥ अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा [७]भुजौ ॥ ६१ ॥
ऊरुपार्श्वकटीपृष्टमन्योन्यस्य समाश्रिताः ॥ परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः ॥ ६२ ॥
[[८]अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः ॥ एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः ॥ ६३ ॥]
अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा ॥ मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ ६४ ॥
लतानां माधवे मासि फुल्लुानां वायुसेवनात् ॥ अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥ ६५ ॥
[९]व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् ॥ आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥ ६६ ॥
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा ॥ विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ॥ ६७ ॥
रावणे [१०]सुखसंविष्टे ताः स्त्रियो विविधप्रभाः ॥ ज्वलन्तः काञ्चना दीपाः [११]प्रैक्षन्तानिमिषा इव ॥ ६८ ॥
[१२]राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः ॥ [१३]राक्षसानां च याः कन्यास्[१४]तस्य कामवशं गताः ॥ ६९ ॥


ववल्गुरिति ॥ उपधानपरिसरे घनमणिखचिततया लम्बमानानि कुण्डलानि मन्दं मन्दं चेलुरित्यर्थः ॥ ५६-५८ ॥ रावणे अत्यर्थं सक्तमनसः । अस्वतन्त्राः पाननिद्रापरवशा: ताः सपत्नीभिराघ्रातमुखाः । वरस्त्रियः तदा मुखाघ्राणसमये सपत्नीनां प्रियमेवाचरन् ...वणोऽजिघ्रदिति बुद्ध्या स्वयमप्यजिघ्रन्नित्यर्थः । ...थवा कथं सपत्न्योपि सह स्वपन्तीत्याशङ्क्याह--- ...त्यर्थमिति ॥ ५९ ॥ पारिहार्यो वलयः । अंशुकानि उपनिधायेत्यनुषज्यते ॥ ६० ॥ अन्या वक्षसि ...न्यस्या इत्यादिश्लोकद्वये शिशियर इत्येतद्वचनवि...रेणामेन यथायोगं संबध्यते उपनिधायेति च ॥ ६१-६३ ॥ मालेव पुष्पमालेव । मत्तषट्पदस्था...याः केशाः ॥ ६४ ॥ लतानामित्यादिश्लोकद्वयमे...वयं । तद्रावणस्य स्त्रीवनं लतानां वनमेिवासी... संबन्धः । विशेषणान्युभयत्र योज्यानि । वायुसे....द्धेतोः अन्योन्यमालाग्रथितं अन्योन्यमालारूपेण

ग्रथितं सुखमुखमारुतसेवनादन्योन्यमालाप्रथितमिति स्त्रीपक्षे । संसक्तकुसुमोञ्चयं । अन्योन्यसंसक्तनीवीकं संसक्तकुसुमसमूहं चेत्यर्थः । व्यतिवेष्टितसुस्कन्धं अन्योन्यपरिवेष्टितांसं अन्योन्यपरिवेष्टितप्रकाण्डं च । अन्योन्यं भ्रमरैश्चिकुरैराकुलं भ्रमरैः भृङ्गेराकुलं च । "भ्रमरश्चिकुरे भृङ्गे" इति विश्वः ॥ ६५-६६ ॥ उचितेषु स्थानेषु स्थितानामपि भूषणाङ्गाम्बरस्रजां साधारण्यादेकतामापन्नानामिति भावः । विवेकः सुव्यक्तमाधातुं न शक्यः । अन्योन्यसंग्रथितत्वेन सुप्तत्वात् । इमा अस्या भूषणाङ्गाम्बरस्रजः इमा अपरस्या इति विवेकः कर्तुं न शक्य इत्यर्थः ॥ ६७ ॥ सुखसंविष्टे सुखसुप्ते । काञ्चनाः काञ्चनदीपस्तम्भस्था दीपाः अनिमिषास्सन्तः प्रैक्षन्तेव । अनेन रावणस्य जाग्रद्दशायां दीपैरपि ताः स्त्रियो निश्चलं द्रधुमशक्या इति गम्यते ॥ ६८ ॥ अथ सीतयैकया अकाम्यत्वं वक्तुं सर्वस्त्रीकाम्यत्वमाह---


...इवबभुः ॥ ५२ ॥ ति० शर्करासवः आसवविशेषः । तद्योगात्तद्गन्धः । प्रकृत्याचसुरभिः । यद्वाप्रकृत्याअसुरभिरपि वायुरिति ....। तासांवदननिश्वासःतद्युक्तः । अर्शआद्यजन्तं । अतएवशर्करासवगन्धःरावणंसिषेवे ॥ ५७ ॥ ति० राजर्षयोविप्रदैत्याश्च ।

  1. ग. श्चारु. क. स्तत्र.
  2. च. छ. ज. मारुतसंक्षोभात्. ग. घ. मारुतसंसर्गैर्मन्दं. क. ङ. झ. ञ. ट. मारुतसं...मन्दं.
  3. झ. ञ. ट. मन्दंच. क. च. छ. ज. मन्दंस्म.
  4. क. घ.---ट. गन्धस्स. ग. गन्धाढ्यः.
  5. ग. च.---झ. ट. ...मुखानिच.
  6. क. अंशुकानीव.
  7. ग. ङ.--ट. कुचौ.
  8. अयंश्लोकः क.---ट. पाठेषुदृश्यते.
  9. ङ.---ट. प्रतिवेष्ठित.
  10. ङ. च. छ. ज. सुखसंसुप्ते.
  11. ख. ङ. झ. ट. प्रेक्षन्तोऽनिमिषाइव. क. च. छ. ज. ञ. प्रेक्षन्तेऽनिमिषाइव.
  12. ङ...झ. ट. राजर्षिविप्र.
  13. क.---ट. रक्षसांचाभवन्कन्याः.
  14. क. स्तथा.