पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

[१]व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः ॥ पानव्यायामकालेषु [२]निद्रापहृतचेतसः ॥ ४५ ॥
व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः ॥ पार्श्वे गलितहाराश्च काश्चित्परमयोषितः ॥ ४६ ॥
[३]मुक्ताहारावृताश्चान्याः [४]काश्चिद्विस्रस्तवाससः ॥ [५]व्याविद्धरशनादामाः किशोर्य इव वाहिताः ॥ ४७ ॥
[६]सुकुण्डलधराश्चान्या [७]विच्छिन्नमृदितस्रजः ॥ गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥ ४८ ॥
चन्द्रांशुकिरणाभाश्च हाराः कासांचि[८]दुत्कटाः ॥ हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥ ४९ ॥
अपरासां च वैडूर्याः कादम्बा इव पक्षिणः ॥ हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ ५० ॥
हंस[९]कारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ॥ आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥ ५१ ॥
किङ्किणी[१०]जालसंकोशास्ता [११]हैमविपुलाम्बुजाः ॥ भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥ ५२ ॥
[१२]मृदुष्वङ्गेषु कासांचित्कुचाग्रेषु च संस्थिताः ॥ बभूवुर्भूषणानीव शुभा भूषण[१३]राजयः ॥ ५३ ॥
अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः ॥ उपर्युपरि वक्त्राणां व्याधूयन्ते पुनःपुनः ॥ ५४ ॥
ताः पताका इवोद्ध्रूताः पत्नीनां रुचिरप्रभाः ॥ नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ ५५ ॥


वर्णः रूपं । प्रसादः प्रसन्नता ॥ ४४ ॥ पानव्यायामकालेषु पानानन्तरं भाविरतिव्यापारसमयेषु । व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः विपर्यस्तगुरुपीनस्रजः प्रकीर्णवरभूषणाश्च सत्यः निद्रापहृतचेतसः विरेजुः ॥ ४५ ॥ व्यावृत्ततिलकाः उन्मृष्टतिलकाः । उद्भ्रान्तनूपुराः स्वस्थानानवस्थितनूपुराः ॥ ४६ ॥ मुक्ताहारावृताः मुक्ताहारैरावृताः । छिन्नमुक्ताहारा इत्यर्थः । व्याविद्धरशनादामाः छिन्नकाञ्चीगुणाः । केिशोर्यः प्रथमवयस्काबडबाः । वाहिताः मार्गेश्रमनिवृत्त्यर्थं भूमौ प्रवेष्टनं कारिताः । सर्वत्र रेजुरित्यन्वयः ॥ ४७-४८ ॥ चन्द्रांशुकेिरणाभाः अंशुः सूर्यः । "अथांशुः स्यान्मयूखे सवितर्यपि" इति दर्पणः । चन्द्रसूर्ययोः किरणानामाभेवाभा येषां ते तथा । उत्कटाः स्थूलाः ॥ ४९-५१ ॥ अथासां नदीसमाधिं दर्शयति---किङ्किणीति ॥ किङ्किणीजालसंकोशाः किङ्किणीजालान्येव संकोशा मुकुलानि यासां ताः । एतत्स्थाने सत्कोशा इति पाठान्तरदर्शनात्संकोशशब्दो

मुकुलवाचीत्यवगम्यते । भावाः शृङ्गारचेष्टा: त एव ग्राहाः नक्रा यासां ताः । सुप्तिदशायामपि वासनावशाद्भावाभिव्यञ्जकसंस्थानवत्त्वाद्भावग्राहा इत्युक्तं । यशस्तीराः यशश्शब्देन यशोहेतुभूता पर्यन्तप्रसृतप्रभोच्यते । सैव तीरं यासां ताः ॥ ५२ ॥ संस्थिता: लग्नाः भूषणराजयः । भ्रमराणीव भ्रमरा इव । व्यत्यय आर्षः । कामुका इव । बभूवुः । "भ्रमरः कामुके भृङ्गे" इति दर्पणः । केचित्तु भूषणानीति पाठं कल्पयित्वा भूषणराजयः भूषणविमर्दकृतरेखाः । ... स्तभूषणानामपि कासांचिद्भूषणानीव बभूवुः ... इत्याहुः ॥ ५३ ॥ मुखमारुतकम्पिताः अंशुकान्... सूक्ष्मवस्त्रदशाः । उपर्युपरि वक्त्राणां वक्त्राण्युपर्युपरि... "धिगुपयोदिषु त्रिषु । द्वितीयाम्रेडितान्तेषु" इति ... तीयाभाव आर्षः । व्याधूयन्त इति श्यन्नार्षः । धून... क्यादित्वात् ॥ ५४ ॥ ता इति विधेयत्वात्स्त्रीलिङ्ग... नानावर्णसुवर्णानां नानाविधशोभनवर्णानां ॥ ५५ ...


स० पद्मगन्धीनि 'उपमानाच्च' इतीत्वं ॥ ३७ ॥ ति० व्यावृत्ताःकचाःपीनस्रजश्चयासांताश्च ॥ ४५ ॥ ति० अकुण्डल... कुण्डलधरणरहिताः गलितकुण्डलाइतियावत् । विच्छिन्नाःआमृदिताश्वस्रजोयासांताः ॥ ४८ ॥ ति० अंशवःप्रभाः किरण... धाराः । अंशवःसूक्ष्मरश्मयः । किरणाःस्थूलरश्मयइत्यन्ये । शि० सुप्ताहंसाइवबभुः ॥ ४९ ॥ ति० किङ्किणीजालसंका... न्मुकुलितनयनाः तत्स्थानेचनद्यांमुकुलितकुमुदानि । हेमविपुलांबुजत्वेनवक्त्रनिगरणं । उपमानेतुननिगरणं । किङ्किणीजालसंबं... इतिपाठेकिङ्किणीजालसंबाधत्वमुभयत्रापिस्पष्टमेव । शब्दवत्वसाधर्म्यात्किङ्किणीशब्देनलहरीणामप्युक्तेः । भावाविलासाएव... प्रिकसुरतभावोवाग्राहोयासांताः । यशःअतिगुणवत्त्वकृतयशएवतीरंयासांताः । यशश्शब्देनलक्षणयाकान्तिरित्यन्ये । सुप्तान...

  1. ङ. च. ञ. ट. व्यावृत्तकुचपीन. झ. व्यावृत्तकचपीन.
  2. ङ.---ट. निद्रोपहृत.
  3. ख. घ. ङ. झ. ञ. मुक्ताहारवृताः.
  4. क. ख. ग. ङ.---ट. काश्चित्प्रस्रस्त. घ. काचित्प्रहृत.
  5. क. ग. व्यावृत्तरशना.
  6. ङ. झ. ञ. ... अकुण्डलधराः.
  7. ङ.---ज. ञ. ट. विच्छिन्नामृदित.
  8. ङ. झ. ञ. दुद्गताः.
  9. ङ. झ. ञ. ट. कारण्डवोपेताः.
  10. ... छ. ज. जालसंबाधाः. ग. ङ. झ. ञ. ट. जालसंकाशाः.
  11. क. वक्त्रकनकांबुजाः.
  12. क. मृदुष्वंशेषु.
  13. ङ. राशयः ...