सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः ॥ समदा मदनेनैव मोहिताः []काश्चिदागताः ॥ ७० ॥

न तत्र काश्चित्प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः ॥
न चान्यकामापि न चान्यपूर्वा विना वरार्हा []जनकात्मजां ताम् ॥ ७१ ॥
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता ॥
भार्याऽभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ ७२ ॥
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी ॥
इमा []यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः ॥ ७३ ॥


राजर्षीत्यादिना श्लोकत्रयेण ॥ तस्य कामवशं गताः तं प्रति यः कामः तस्य वशंगता । तं कामयित्वा स्वयमेवागतास्ताः न तु तेन कामयित्वा हृता इत्यर्थः ॥ ६९ ॥ हृताश्च काश्चन श्रूयन्ते तत्र कथमित्यत्राह ---युद्धेति ॥ तासु हृतासु तासां संबन्धिभिस्सह युद्धं भविष्यतीति युद्धं कामयित्वानेन हृता: नतु ताः कामयित्वा हृता ॥ ७० ॥ अमुमेवार्थं विवृणोति---न तत्रेति ॥ तत्र तासु काश्चिदपि प्रमदाः प्रसह्य वीर्येण न लब्धाः । किंतु स्वसंवादेनैवेत्यर्थः । वीर्योपपन्नेन रावणेन न लब्धाः अपि तु गुणेन लब्धाः । अन्यकामा च काचित्तत्र नास्ति । अन्यपूर्वा च न ।

अन्यत्रासक्ता च न काचिदित्यर्थः ॥ ७१-७२ ॥ राघवधर्मपत्नी ईदृशी यदि स्वयंवरात्पूर्वमेवास्य धर्मपत्नी चेत् । अस्य सुजातं सुकृतं । इयमसाध्वी बुद्धिः कापेयत्वप्रमादकृता न तु स्वयं तस्य बुद्धिरिति द्योतयितुं साधुबुद्धेरित्युक्तं । एवं प्रमादोपस्थितबुद्ध्या पश्चात्तापोभूदित्याह---पुनश्चेति । यद्वा इमाःराक्षसराजभार्याःयथा स्वभर्त्रा विशिष्टास्सकलभोगयुक्ताश्च तथा राघवधर्मपत्नी ईदृशी यदि स्वभर्त्रा सहिता भोगयुक्ता च यदि तदाऽस्य रावणस्य सुजातं शोभनं जन्मेति साधुबुद्धेः परसमृद्धिपरस्य हरीश्वरस्य स्वयमाधिपत्यार्हस्य बुद्धिर्बभूव । अयं रावणः राघवधर्मपत्नीं यदि प्रत्यर्पयेत्तदास्य


} अस्यब्रह्मराक्षसत्वादस्तिविप्रकन्याविवाहेऽधिकारः । कामवशंगतास्सत्यस्तस्ययोषितोऽभवन् । अनेनतासामप्यनुरागःसूचितः ॥ ६९ ॥ तनि० रावणःस्त्रीभिःसहयथासंततसंश्लेषणतिष्ठति । एवंरामःसीतयासंश्लेषणतिष्ठतिचेद्रावणस्यैश्वर्यमविच्छिन्नं... साधुबुद्धेः शत्रूणामपिहितमन्वेषयतः ॥ स० साधुबुद्धेःदेवावतारादिषुसम्यग्बुद्धिमतःहरीश्वरस्यहनुमतःइतिवक्ष्यमाणाबुद्धिर्बभूव... तदेवव्यनक्ति---यदीति । इमाःपुरतस्सुप्ताःराक्षसराजभार्याःलङ्कायांयथावर्तन्ते तथाराघवधर्मपत्नीसीतापि यदीदृशी एतत्पुरगत... तूतर्ह्यस्यअत्रसुप्तस्यरावणस्य सुजातंराक्षसत्वनिर्गमेनशोभनजन्म शिशुपालत्वावस्थायांभगवदङ्गप्रवेशकारणंजन्म हि प्रसिद्धं भव... त्यर्थः । युद्धेरामेणहतस्सन्शिशुपालत्वंप्राप्यजयोभवतीतिभावः। विस्तरस्तुतीर्थव्याख्यानेद्रष्टव्यः ॥ ती० यद्वा राघवधर्मपत्नी ... रावणेनबलादानीताइमाराक्षसराजभार्याः तथायदि सुग्रीवेणबलाद्धृतायदि तदा हरीश्वरस्यसुग्रीवस्य सुजातहीतिसाधुबुद्धेः सः... न्त्रिबुद्धेः अस्यहनुमत: ईदृशीबुद्धिर्बभूवेत्यन्वयः । यद्वा इमाराक्षसराजभार्यायथारावणेनाहृताइत्यर्थः । राघवधर्मपत्नी ईदृशी... अनेनाहृतायदि तदा अस्य रावणस्य सुजातंकिं सम्यग्भविष्यतिकिं । नभविष्यत्येवेति हरीश्वरस्यबुद्धिर्बभूव । "मम दयिततं... हृतावनान्ताद्रजनिचरेण तदा विमथ्य सा । कथय मम रिपुं तमद्य वै प्लवगपते यमसादनं नयामि" इति रामवाक्याद्रावणस्य... सम्यग्भविष्यतीत्यर्थः । यद्वा इमाराक्षसराजभार्यायथामयादृष्टाइतिशेषः । राघवधर्मपत्नी ईदृशीयदि मयादृष्टायदीत्यर्थः । ... अस्यमम सुजातंजन्मसफलमितिहरीश्वरस्यबुद्धिर्बभूव । "यश्चमासान्निवृत्तोग्रे दृष्टासीतेतिवक्ष्यति । मत्तुल्यविभवोभोगैः सुखंस... ष्यति । ततःप्रियतरोनास्ति ममप्राणाद्विशेषतः" इतिसुग्रीववचनात् प्रभोःसुग्रीवस्य प्रियसंवादकत्वेन ममजन्म सफलमितिभाव... यद्वा इमाराक्षसराजभार्याः यथामयादृष्टाः राघवधर्मपत्नी ईदृशीयदि दृष्टायदि अस्यसीतायाअदर्शनहेतुना सुग्रीवरामादिभया... योपवेशनायोद्युक्ताङ्गदादिवानरसमानस्येत्यर्थः । सुजातमितिबुद्धिर्बभूव । "अप्रवृत्तौचसीतायाः पापमेवकरिष्यति । तस्मात्क्षमा... हाद्यैव प्रायोपविशनंहिनः । त्यक्त्वापुत्रांश्चदारांश्च धनानिचगृहाणिच" इतिसीताऽदर्शनव्यथिताङ्गदादीनां पुनर्जीवितलाभा... जातमितिभावः । यद्वा इमाराक्षसराजभार्या यथाजीवन्तीत्यर्थः । राघवधर्मपत्नी ईदृशी जीवतियदि तदा अस्य रामस्य सुजा... मितिबुद्धिर्बभूव । "ज्ञायतांसौम्यवैदेही यदिजीवतिवानवा । नह्यहंजीवितुंशक्तस्तामृतेजनकात्मजां" इतिसीताजीवितसंशयव्यं... थितस्यरामस्य सीताजीवितनिश्चयेसति स्वजीवितलाभात्सुजातमितिभावः । यद्वा हेराक्षसराज इमाःस्त्रियो यथाभार्याः एवं राघ... वधर्मपत्नी ईदृशीयदि अस्यतव सर्वसंपत्समृद्धियुक्तपुत्रपौत्रादिसहितस्यास्यतवेत्यर्थः । सुजातंहिकिंसम्यग्भविष्यतीति रावणस्यहि...

  1. क. ग. दङ्गनाः.
  2. ग. घ. च.---ट. जनकात्मजांतु.
  3. ङ. झ. ट. महाराक्षसराज.