पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ९]
४१
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

उत्तमं [१]राक्षसावासं हनुमानवलोकयन् ॥ आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥ ४ ॥
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च ॥ परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ॥ ५ ॥
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् ॥ आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥ ६ ॥
तन्नक्रमकराकीर्णंं [२]तिमिङ्गिलझषाकुलम् ॥ वायुवेग[३]समाधूतं पन्नगैरिव सागरम् ॥ ७ ॥
[४]या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने ॥ सा रावणगृहे [५]सर्वा नित्यमेवानपायिनी ॥ ८ ॥
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ॥ तादृशी तद्विशिष्टा वा [६]ऋद्धी रक्षोगृहेष्विह ॥ ९ ॥
तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् ॥ बहुनियूह[७]संकीर्णं ददर्श पवनात्मजः ॥ १० ॥
ब्रह्मणोर्थे कृतं दिव्यं [८]दिवि यद्विश्वकर्मणा ॥ विमानं पुष्पकं नाम [९]सर्वरत्नविभूषितम् ॥
[१०]परेण तपसा लेभे यत्कुबेरः पितामहात् ॥ ११ ॥
कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ॥ १२ ॥
ईहामृगसमायुक्तैः कार्तस्वर[११]हिरण्मयैः ॥ [१२]सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥ १३ ॥


क्ष्यमाणत्वात् ॥ ३ ॥ राक्षसेन्द्रनिवेशनं पुष्पकमध्यस्थालयादन्यन्मूलस्थानं । राक्षसीभिरित्यादिश्लोकद्वये आससादेति संबध्यते । रावणस्य निवेशनमिति पुनरुपादानमपूर्वविशेषणविवक्षया । नक्रः कुम्भीरः । तिमिङ्गिलः महामत्स्यः । झषः केवलमत्स्यः ॥ ४-९ ॥ तस्य हर्म्यस्येत्यादि ॥ पूर्वमुक्तार्थस्यापि पुनरुपन्यासः पुष्पकस्य मध्ये रावणस्य निवासभवनमन्यदस्तीत्यस्यार्थस्य स्पष्टीभावार्थम् । निर्यूहः मत्तवारणः ॥ १० ॥ ...णोर्थे कृतं यत्कुबेरस्तपसा लेभे तद्वेश्म ददशेति ... संबन्धः ॥ ११ ॥ कुबेरमित्यादि ॥ ईहामृग-

समायुक्तैः वृकप्रतिकृतियुक्तैः कार्तस्वरहिरण्मयैः कार्तस्वरं सुवर्णं । हिरण्यं रजतं । "कृताकृतं हेम रूप्यं हिरण्यमभिधीयते" इति रजतस्यापि हिरण्यत्वाभिधानात् । जालवातायनैः जालानि तिर्यगूर्ध्वविन्यस्तफलकघटितानि । वातायनानि केवलानि रन्ध्राणि । अर्थवैशद्यार्थमेकार्थे शब्दद्वयप्रयोगो वा । महानीलाः सिंहलद्वीपोद्भवनीलरत्नानि । महाधनैः महामूल्यैः । निस्तुलाभिः सुवृत्ताभिः । तलेन निर्मितेनेति शेषः । आदित्यतरुणोपमं तरुणादित्योपमं । एतदन्ते लेभे तद्राक्षसेश्वर इति संबध्यते । अन्यथा कूटागारै-


...णगृहप्राप्तेरभिधानात् ॥ ३ ॥ ती० रावणस्यनिवेशनं निवेश्यन्तेपरिगृह्यन्तेपत्न्योत्रेतिनिवेशनं । रावणस्थानमित्यर्थः ॥ ६ ॥ रामानु० हनुमताप्राप्तरावणभवनस्यराक्षसभवनानांचसर्वोत्तरतांदर्शयितुंतत्समृद्धिमनुसंधत्ते---याहिवैश्रवणइत्यादिश्लोकद्वयेन । ...वणेन्द्रयोर्ग्रहणमितरदिक्पालानामप्युपलक्षणं । 'रावणस्यगृहेसर्वा नित्यमेवानपायिनी' इत्यभिधानात् सर्वदिक्पालानामैश्वर्यमे...न्रावणभवनेसर्वदावर्ततइत्यवगम्यते ॥ स० हरिवाहने 'त्वक्केशवालरोमाणिसुवर्णाभानियस्यतु । हरिःसवर्णतोश्वस्तुपीत...यसप्रभ'इतिशालिहोत्रोक्तलक्षणोपेतोयोश्वःसहरिरित्युच्यते । सवाहनंयस्यतस्मिन् । यद्वाहरिवाहनेसूर्ये । 'हरिवाहनइत्युक्तिः ...पतिविवस्वतोः' इतिविश्वः । अनपायिनी अविश्लेषा ॥ ८ ॥ रामानु० तद्विशिष्टा ततोप्यधिका । रक्षोगृहेषुरावणभ्रातृपु...सात्यादिराक्षसगृहेषु । अत्रऋद्धेःसर्वशब्देनाविशेषितत्वात्कुबेराद्येकैकदिक्पालैश्वर्यंरक्षसांगृहेषुप्रत्येकंवर्ततइत्यर्थः ॥ ९ ॥ ति० ... सस्त्रीकशयनगृहमितिकतकः । वेश्म पुष्पकाख्यमितितीर्थः । अत्रतीर्थव्याख्याज्यायसी ॥ १० ॥ रामानु० कुबेरमित्यार...र्वतस्समलङ्कृतमित्यन्तमेकंवाक्यं । अतोवक्ष्यमाणेनकूटागारशब्देननपौनरुक्तयं । ईहामृगसमायुक्तैः कृत्रिमवृकयुक्तैः । कार्त...हिरण्मयैः सुवर्णरजतमयैः । 'कृताकृतंहेमरूप्यंहिरण्यमभिधीयते' इतिरजतस्यापिहिरण्यत्वाभिधानात् । ज्वलनार्कप्रती....मित्यारभ्य आरुरोहमहाकपिरित्यन्तमेकंवाक्यं । जालवातायनैर्युक्तं कुड्योपरिभागेऽलङ्कारार्थंस्वस्तिकसर्वतोभद्राद्याकारेणय...तयाकृतंजालं । वायुसंचारार्थंंकृतोगवाक्षोवातायनं । इन्द्रनीलमहानीलेति । "क्षीरमध्येक्षिपेन्नीलंक्षीरंचेन्नीलतांत्रजेत् । इन्द्र...मितिख्यातमितिचागस्यभाषितम्' इतिरत्नशास्त्रोक्तलक्षणमिन्द्रनीलं । 'सिंहलाकारसंभूतामहानीलाइतिस्मृताः' इत्युक्ता ...नीलाइतियोर्भेदः । विद्रुमेणमहाधनैर्मणिभिःनिस्तुलाभिर्मुक्ताभिश्चकरणैःविचित्रेणतलेनाभिविराजितमितिसंबन्धः । आदि-

  1. च. छ. ज. राक्षसेन्द्रस्यह्यावासमवलोकयन्.
  2. ग. तिमिमीनसमाकुलं.
  3. ङ. ञ. समाधूतैः.
  4. क. याच.
  5. ङ.---ट. रम्यानित्यं. क. लक्ष्मीर्नित्यं.
  6. ग. लक्ष्मीरक्षोगृहेष्विह. ट. लक्ष्मीरक्षोगृहेष्वपि.
  7. ङ. झ. ञ. ट. संयुक्तं.
  8. ङ. च. छ. ज. विधिवद्विश्व.
  9. घ. श्रेष्ठंरत्न.
  10. क. वरेण.
  11. क. ख. स्वरविभूषितैः.
  12. ट. सुकृतंराजतस्तंभैः. क. घ. व. ञ. सुकृतैराजतस्तंभैः.