सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् ॥
मनोभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ॥ ६ ॥
वहन्ति []यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः ॥
विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः ॥ ७ ॥
[]वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि []कान्तदर्शनम् ॥
[]स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः ॥ ८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः ॥ ८ ॥



नवमः सर्गः ॥ ९ ॥

सीतान्वेषणाय रावणगृहस्थात्यद्भुतपुष्पकविमानमारूढवताहनुमता तत्रप्रसुप्तनानावस्थापन्ननानाजातीयनारीनिकरावलोकनं ॥ १ ॥

तस्यालयवरिष्ठस्य मध्ये []विपुलमायतम् ॥ ददर्श []भवनश्रेष्ठं हनुमान्मारुतात्मजः ॥ १ ॥
अर्धयोजनविस्तीर्णमायतं []योजनं हि तत् ॥ भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् ॥ २ ॥
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् ॥ सर्वतः परिचक्राम हनुमानरिसूदनः ॥ ३ ॥


॥ ५ ॥ विशेषमालम्ब्य विशेषसंस्थितं विशेषं गृहीत्वा विशेषेण संस्थितं । सविशेषविशेषणसंस्थितमिति यावत् । सविशेषसंस्थानविशेषविशिष्टमित्यर्थः । कूटानां विचित्रत्वबहुत्वे विशेषणद्वयेन दर्शयति---विचित्रेत्यादिना । विचित्रकूटं शिखरं गिरेर्यथा । कूटं अवान्तरश्रृङ्गं । शिखरं महाश्रृङ्गमिति प्रयोगादवधार्यते ॥ ६ ॥ यं यत् । आर्षो व्यत्ययः । महाशनाः । महाकाया इत्यर्थः । व्योमचाराः व्योमचरसदृशसंस्थानाः । विवृत्तविध्वस्तविशाललोचनाः विवृत्तानि वर्तुलानि विध्वस्तानि भुग्नानि विशालानि लोचनानि येषां ते तथा । महाजवा: महाजवा इव स्थिताः । भूतगणाः गोपुरवाहका इव प्रतिमारूपेण स्थिताः ।

अन्यथा रावणान्तःपुरे पुरुषसञ्चारायोगात् कामगस्य विमानस्य वहनासंभवाच्च । यद्वा शिबिकावाहका इव भूतगणा अधोभागे वहन्ति । ताद्द्वारेणैव कामगत्वमपि । चेतनप्रेरणं विना अचेतनसंचारस्यात्यन्तमनुचितत्वच्च ॥ ७ ॥ उत्करः समूहः ॥ ८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्या...द्वा सुन्दरकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥


 तस्येत्यादि ॥ आलयवरिष्ठस्य पुष्पकस्य ॥ १ ॥ तद्भवनं कियत्प्रमाणमित्यत्राह---अर्धयोजनेति ॥ २ ॥ सर्वतः पुंष्पकादन्यत्र सर्वत्र । पुष्पकारोहणस्य पश्चाद्व...


इवशब्दएवार्थे । अत्रतस्याचेतनत्वेपितदभिमानिदेवतायाश्चित्तज्ञत्वादितिबोध्यं ॥ ५ ॥ रामानु० वहन्तीत्यनेनश्लोकेनविमास्यराक्षसवाह्यत्वंप्रतीयते । कामगस्यदिव्यस्यतन्नोपपद्यते । एतद्विरोधपरिहारार्थंवहतेर्धातोःरक्षणार्थत्वस्वीकारोपिनोपपद्यते । अन्तः पुरमध्येविमानरक्षणार्थंराक्षसावस्थानायोगात् । अतोत्रसमाधानंविद्वद्भिश्चिन्त्यं ॥ ती० वहन्ति वहन्तीव इवशब्दोत्राध्याहार्यः तथाचविमानेनिर्मिताःनिशाचराकाराःप्रतिमाःवहन्तीवेत्यर्थः । अन्यथाकामगमस्यान्तःपुरेविद्यमानस्यराक्षसवहनरक्षणयोरयोगात् । स० विवृत्तविध्वस्तविशाललोचनाः वि विरुद्धं स्वामिविरुद्धं वृत्तं चरित्रं विध्वस्तं येषां ते तथा । तेचतेविशाललोचनाश्चेतित... ॥ ७ ॥ इत्यष्टमःसर्गः ॥ ८

 रामानु० 'तस्यालयवरिष्ठस्य' 'सतस्यमध्येभवनस्यसंस्थितं' इतिपुष्पकाधारत्वेनप्रकृतस्वगृहश्रेष्ठस्य । भवनश्रेष्ठ पुष्प... काख्यं ॥ १ ॥ रामानु० सर्वतःपरिचक्राम रावणभवनपर्यन्तवर्तितद्भ्रातृकुमारामात्यादिभवनेषुपरितश्चचारेत्यर्थः । उत्तरश्लोके...

  1. च. झ. ञ. यत्कुण्डल.
  2. च. छ. ज. प्रतप्तचामीकरचारु. क. वसन्तपुष्पोद्भम.
  3. ङ. झ. ञ. ट. चारुदर्शनं.
  4. च. छ. ज. सुपुष्पकं.
  5. च. छ. ज. ञ. विपुलमास्थितं. ङ. झ. ट. विमलमायतं.
  6. च. ज. भवनं.
  7. क. ग. ङ.---ट. योजनंमहत्.