पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ८]
३९
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

अष्टमः सर्गः ॥ ८ ॥

ग्रन्थकृताविस्तारेणपुनः पुष्पकविमानवर्णनं ॥ १ ॥

स तस्य मध्ये भवनस्य [१]संस्थितं महद्विमानं [२]मणिवज्रचित्रितम् ॥
प्रतप्तजाम्बूनद[३]जालकृत्रिमं ददर्श [४]वीरः पवनात्मजः कपिः ॥ १ ॥
[५]तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा ॥
दिवं [६]गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य [७]लक्ष्मवत् ॥ २ ॥
न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न [८]महार्हरत्नवत् ॥
न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत् ॥ ३ ॥
तपःसमाधानपराक्रमार्जितं मनःसमाधान[९]विचारचारिणम् ॥
अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ॥ ४ ॥
मनस्समाधाय तु शीघ्रगामिनं [१०]दुरावरं मारुततुल्यगामिनम् ॥
महात्मनां पुण्यकृतां [११]महर्द्धिनां यशस्विनामग्र्यमुदामिवालयम् ॥ ५ ॥


 पूर्वोक्तविमानवर्णनं विस्तृणीते---स तस्येत्यादि ॥ प्रतप्तजाम्बूनदजालकृत्रिमं निष्टप्तस्वर्णविशेषकृतकृत्रिमपक्ष्यादिकं ॥ १ ॥ अप्रतिमेयाप्रतिकारकृत्रिमं अपरिच्छेद्याप्रतिक्रियकृत्रिमं । तत्र हेतुमाह---कृतमिति ॥ ...यं निर्मात्रा विश्वकर्मणा इदं साधु सुन्दरमिति ...घापूर्वंकृतं । सर्वत्राप्रतिहतसंचारं चैतदित्याह---दिवं ...तं आकाशगतं । वायुपथप्रतिष्ठितं वायुमार्गभूता...तरिक्षस्थितं । मध्ये भवनस्य संस्थितमिति पूर्वमुक्त...त् भूतलप्रत्यासन्नान्तरिक्षस्थितमित्यर्थः । आदित्य...थस्य लक्ष्मवत् । लक्ष्म लक्षणं व्यावर्तकं व्यराजत ...चकाश इत्यर्थः ॥ २ ॥ ते विशेषाः तद्विमानस्थि...विशेषाः । सुरेष्वपि सुरालयेष्वपि ॥ ३ ॥ तपस्स-

माधानेत्यादि पञ्चश्लोकी कुलकं ॥ सर्वत्र ददर्शेति संबन्धः । तपस्समाधानपराक्रमार्जितं तपस्समाधानेन तपोनुष्ठानेन पराक्रमेण च अर्जितं । मनस्समाधानविचारचारिणं समाधानमभिसंधानं । कर्मणि चैतत् । विचारो विविधा गतिः । मनोभिसंहितविविधगतिचारिणं । अनेकसंस्थानविशेषनिर्मितं अनेकैस्संस्थानविशेषैः विमानगोपुरादिसन्निवेशैः निर्मितं । ततस्ततस्तुल्यविशेषदर्शनं तत्र तत्र तुल्यं विशेषदर्शनं यस्मिन् ॥ ४ ॥ मनस्समाधाय मन एकाग्रीकृत्य । स्वयं मनस्वीति यावत् । दुरावरं दुर्वारं महर्द्धिनां महर्द्धीनां । "अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्" इत्युक्तरीत्या वृत्तभङ्गभिया ह्रस्वोच्चारणं । अग्र्यमुदां इन्द्रादीनां


 ति० मणिरत्नैः मणिश्रेष्ठ:चित्रितं । प्रतप्तजांबूनदजालानां तन्मयगवाक्षाणांकृत्रिमंकृतिःयस्मिंस्तत् ॥ १ ॥ ति० अप्रमेयप्र...कारकृत्रिमं अप्रमेयैः अपरिच्छेद्यसौन्दर्यादिभिः प्रतिकारैःप्रतिमादिभिःकृत्रिमंनिर्वृत्तचित्रशोभं । पाठान्तरंत्वसांप्रदायिकमिति ...तकः ॥ २ ॥ ती० तुल्यविशेषदर्शनं तुल्यानांरमणीयत्वेनसदृशानांविशेषाणांदर्शनंयस्मिंस्तत् । सर्वतोरमणीयमित्यर्थः । स० ...नस्समाधानविचारचारिणं । अन्तरुपविष्टानांमनस्समाधानंयथाभवतितथा विचारवत् पक्षिसंचारवत्चरतीतितथातं ॥ शि० ...पस्समाधानाभ्यांकृच्छ्रचान्द्रायणादिदेवविशेषध्यानाभ्यांजातेनपराक्रमेणअर्जितं रावणेनप्राप्तं ॥ ४ ॥ ति० मनस्समाधाय स्वा...नोनुरुध्य तु शीघ्रगामित्वादिधर्मकं । दुरासदंपापिभिरितिशेषः । दुरावरमितिपाठे शत्रुभिर्दूर्निवारमित्यर्थः । महर्द्धिनां दीर्घा...वश्छान्दसः । एवंतुल्यगामिनमित्यत्रपुंस्त्वं । विमानशब्दोर्धर्चादिर्वा । अग्र्यमुदांमहासुखानांपुण्यकृतामेवआलयंआस्पदं ।

  1. क. ग. घ. ङ. झ. ञ. ट. संस्थितो.
  2. क. घ.---ट. मणिरत्नचित्रितं.
  3. क. जालसन्ततं.
  4. ङ. झ. ज. ट. ...मान्पवनात्मजः.
  5. ग. ङ. झ. ञ. ट. तदप्रमेयप्रतिकार.
  6. ङ. झ. ज. ट. गतेवायुपथे.
  7. ङ. झ. ट. लक्ष्मतत्.
  8. ङ. ञ. महार्घरन्नवत्.
  9. क. विशेषचारिणं. ङ. झ. ञ. ट. विशेषनिर्मितं.
  10. ङ. झ.---ञ. ट. दुरासदं.
  11. च.---छ. महर्षिणामुदारमग्र्यंमरुतामिवालयं घ. मनखिनां. ज. महर्षिणां.