पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
[सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

इतीव तद्गृह[१]मभिगम्य शोभनं सविस्मयो नगमिव [२]चारुशोभनम् ॥
पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम् ॥ १५ ॥
[३]ततः स तां कपिरभिपत्य [४]पूजितां चरन्पुरीं दशमुख[५]बाहुपालिताम् ॥
अदृश्य तां जनकसुतां सुपूजितां [६]सुदुःखितः पतिगुणवेगनिर्जिताम् ॥ १६ ॥
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः ॥
अपश्यतोऽभवदतिदुःखितं मनः [७]सुचक्षुषः प्रविचरतो महात्मनः ॥ १७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तमः सर्गः ॥ ७ ॥




शोभनशुण्डादण्डाः । सकेसराः कृतजलावगाहत्वेनाङ्गलग्रकिञ्जल्काः । उत्पलपत्रहस्ताः उत्पलपत्रवार्षणः । गजाश्च कृताः तदभिषिच्यमाना पद्महस्ता अतएव सुहस्ता लक्ष्मीश्च कृता बभूवेत्यर्थः ॥ १४ ॥ इवशब्दो वाक्यालंकारे । तद्गृहं तस्य रावणस्य गृहं । सविस्मयः अभूदिति शेषः । नगं पर्वतमिव स्थितं । शोभनं शोभमानं । चारुशोभनं चारुमङ्गलं । इतीवेत्येकनिपातो वा प्रकारार्थः । इतीव तद्गृहं अभिगम्य अभिगत्य । अद्भुतदर्शनात्पुनश्चाभिगम्य सविस्मयोभूदिति योजना । रुचिरावृत्तमिदं । "चतुग्रहैरिह रुचिरा जभस्जगाः" इति लक्षणात् ॥ १५ ॥ अदृश्य अदृष्ट्वा । ऋषिनिपातना-

न्नञ्पूर्वेपि ल्यप् । सुदुःखितः अभूदिति शेषः । पतिगुणवेगनिर्जितां भर्तृगुणजवेन वशीकृतां ॥ १६ ॥ बहुविधभावितात्मनः बहुविधं यथा भवति तथा चिन्तितात्मनः । कृतात्मनः निशितबुद्धेः । सुवर्त्मनः सदाचारसंपन्नस्य । सुचक्षुषः दूरसूक्ष्मादिदर्शनेषु अप्रतिहतनयनतेजसः । महात्मनः महाधैर्यस्य ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥



महाविमानंददर्शेतिसंबन्धः । महीकृता महीनिर्मिता । एवमुत्तरत्रापिकृतशब्दार्थः । वेश्मोत्तमानामितिपञ्चम्यर्थेषष्ठी । वेश्मोत्तमेभ्योप्युच्चमानं । यद्वापूर्वंगृहोत्तमंह्यप्रतिरूपरूपमितिपुष्पकस्यगृहोत्तमत्वप्रतिपादनेनसजातीयत्वान्निर्धारणेषष्ठी । तेषांमध्येउच्चमानं उन्नतमितियावत् । अपिचेतिनिपातसमुदायोविशेषणान्तरसमुच्चयपरः । जात्यानुरूपाः आरट्टजत्ववनायुजत्वादिविशिष्टाश्वाकारसदृशाः । प्रवालजांबूनदमयानिपुष्पाणिपक्षेषुयेषांतेतथोक्ताः । सलीलमावर्जितजिह्मपक्षाः सलीलमानमितवक्रपक्षाः । कामस्यसा- क्षात्पक्षाइव मदनस्यसाक्षात्सहायाइव कामोद्दीपकाइतियावत् । नियुज्यमानाःस्वयमेवव्याप्रियमाणाः । कर्मकर्तरियक् । सकेसराः पद्माकरविहारिगजाकारनिर्माणात्सकेसरत्वं । पद्मिनि पद्माकरे ॥ १४ ॥ स० हिमात्ययेवसन्ते । हिमशब्देनतद्युक्तमासचतुष्टय... ग्रहणात् ॥ १५ ॥ स० दृश्यस्यभावोदृश्यता । नविद्यतेदृश्यतायस्यास्सातथा । तामुद्दिश्यदुःखितोऽभूदितिवा । पतिगुणवेगनिर्जितां पत्युःरामस्ययोगुणवेगःतेननिर्जितां । पत्यारामेणकर्त्रा गुणवेगेन ज्याकर्षणवेगेन धनुर्भङ्गद्वारानिर्जितांनितरां प्राप्तां ॥ १६ ॥ रामानु० बहुविधभावितात्मनः बहुविधभावितमनसः । बहुविधचिन्तान्वितस्येतियावत् । कृतात्मनःकृतप्रयत्नस्य । 'आत्मादेहेधृतौयत्नेस्वभावपरमात्मनोः' इतिवैजयन्ती । सुवर्त्मनःशोभननीतिमार्गवर्तिनइत्यर्थः । सुचक्षुषःसकृदालोकनेनद्रष्टव्यंसर्वंकरतलामलकवत्साक्षात्कर्तुंक्षमस्य ॥ ति० बहुविधभावितात्मनः नानाप्रकारेणसर्वजगत्पूजितस्वभावस्य । स्वभाववाच्यात्मशब्दः । कृतात्मनःशिक्षितान्तःकरणस्य । सचक्षुषः श्रुतिस्मृतिन्यायरूपचक्षुस्सहितस्य स० बहुविधभावितात्मनः बहुप्रकारंध्यातरामरूपस्वामिकस्य ॥ १७ ॥ इतिसप्तमःसर्गः ॥ ७ ॥

  1. ग. मुपगम्य.
  2. ङ. झ. ञ. ट. चारुकन्दरं.
  3. ग. ततस्तां.
  4. च. छ. ज. सूर्जितां.
  5. क. घ.---ज. ट. बाहुनिर्जितां.
  6. घ.---ट. सुदुःखितां.
  7. ख. ङ. झ. ञ. ट. सचक्षुषः.