पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

{rule}}

[१]प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् ॥ सुव्यूढकक्ष्यं हनुमान्प्रविवेश [२]महागृहम् ॥ ४३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्ठः सर्गः ॥ ६ ॥



सप्तमः सर्गः ॥ ७ ॥

ग्रन्थकृतारावणभवनतद्गतपुष्पकविमानयोर्वर्णनं ॥ १ ॥

स वेश्मजालं बलवान्ददर्श व्यासक्तवैडूर्यसुवर्णजालम् ॥
यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम् ॥ १ ॥
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः ॥
मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः ॥ २ ॥
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि ॥
सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥ ३ ॥
तानि [३]प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि ॥
महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गुहाणि ॥ ४ ॥
ततो [४]ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम् ॥
रक्षोधिपस्यात्म[५]बलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम् ॥ ५ ॥


समयसंभवो ध्वनिः ॥ ४२ ॥ व्यूढकक्ष्यं विशालप्र- कोष्ठं ॥ ४३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- मायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्या- ख्याने षष्ठः सर्गः ॥ ६ ॥


 स वेश्मजालमित्यादि ॥ व्यासक्तवैडूर्यसुवर्णजालं वैडूर्यघटितसुवर्णमयजालकरन्ध्रं ॥ १ ॥ निवेशनानां शालाः । गृहान्तःशालाः । प्रधानैर्मुख्यैः शङ्खायुधचापैः शालन्ते प्रकाशन्त इति प्रधानशङ्खायुधचापशालाः । पचाद्यच् । वेश्मादिषु हर्म्यप्रासादादिषु । चन्द्रशालाः

शिरोगृहाणि ॥ २ ॥ नानावसुराजितानि नानारत्नराजितानि ॥ ३ ॥ प्रयत्नाभिसमाहितानि प्रयत्नेन यथायोगं स्थापितानि । मयेनेति विश्वकर्मा लक्ष्यते ... महीतले निर्मितानि । इवशब्देन मयस्य निर्मातृत्वव्य... जमात्रं । रावणप्रयत्नेनैव निर्मितानीत्यर्थः । ... अन्यानि गृहाणि विश्वकर्मनिर्मितानि । इमानि ... मयं व्याजीकृत्य स्वयमुपायप्रदर्शनमुखेन निर्मितान्... पूर्वगृहेभ्यो विशेष उच्यते ॥ ४ ॥ तदन्तर्वर्तिपुष्पक विमानं दर्शयति---तत इति ॥ अप्रतिरूपरूपं ... मसौन्दर्यं । प्रकीर्णं दैवाच्च्युतं । रजसा पुष्परज...


 रामानु० नानाविधानिकर्माणियासांताःनानाविधकर्माणःशालाश्चनानाविधकर्मशालाः । कक्ष्याश्चनानाविधकर्मशाला... पाठः । निवेशनानांविविधाश्चशालाइतिपाठेप्रधानभवनानांसंबन्धिनीःविविधाःशालाइत्यर्थः । प्रधानशङ्खायुधचापशालाः प्रधा... मुख्यैःशङ्खैरायुधैश्चापैश्चशालन्तइतिप्रधानशङ्खायुधचापशालाःताः । पचाद्यच् । वेश्मान्यद्रयइववेश्माद्रयस्तेषु । वेश्मादिष्विति... आदिशब्देनप्रासादादयउच्यन्ते । चन्द्रशालाःशिरोगृहाणि । 'चन्द्रशालाशिरोगृहं' इत्यमरः ॥ ति० चन्द्रशालाः चन्द्रकान्ते णिबद्धशालावा ॥ २ ॥ ति० वसु धनं । स्वबलेत्यत्रस्वशब्दोरावणवाची । कुबेराद्रावणेनलङ्कायाआच्छिद्यगृहीतत्वात् । ... स्वशब्दोहनुमद्वाची । स्वबलेनार्जितानिलब्धप्रवेशानि ॥ ३ ॥ ति० विश्वकर्मकृतान्यपिमाययाविचित्ररचनादक्षेणमयेननिर्मि... नीव ॥ स० प्रयत्नाभिसमाहितानि प्रयत्नेन विश्वकर्मणइतिशेषः ॥ ४ ॥ रामानु० वैश्रवणंनिर्जित्यगृहीतंपुष्पकंवर्ण्यतेततइत्... दिना । ततः गृहदर्शनानन्तरं । आत्मबलानुरूपं आत्मनोऽप्रतिबलस्यसदृशं । गृहोत्तममितिपुष्पकमुच्यते । पुष्पकस्यापिगृहलक्ष... सद्भावात् । एतञ्चपुष्पाह्वयमित्यनेनव्यक्तीभविष्यति । रजसा पुष्परजसा ॥ तटिद्भिरिवस्थितैर्नारीप्रवेकैःअंभोदवद्दीप्यमानमि... स्थितमितिसंबन्धः । वाह्यमानं उह्यमानं । आर्षःस्वार्थेणिच् । अतएवसंप्रसारणाभावः । यद्वाहंसप्रवेकैर्वाह्यमानं स्वामिनेतिशेषः ... यथेति । युक्तीकृतमेघचित्रं समूहीकृतनानावर्णमेघचित्रमित्यर्थः ॥ ति० नानावर्णैरयुक्तोपितद्युक्तःकृतो युक्तीकृतः । सचासौच...

  1. घ. प्रासादशतसंबाधं.
  2. क. गृहोत्तमं.
  3. ग. च. छ. प्रयत्नेनसमाहितानि.
  4. घ. ददर्शाद्भुतमेघ.
  5. घ. गुणानुरू...