पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ६ ]
३५
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

ददर्श [१]विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे ॥ राक्षसांश्च महाकायान्नाना[२]प्रहरणोद्यतान् ॥ ३० ॥
रक्ताञ्श्वेतान्[३]सितांश्चैव [४]हरींश्चापि महाजवान् ॥ कुलीनान्रूपसंपन्नान्गजान्परगजारुजान् ॥ ३१ ॥
[५]निष्ठितान्गजशिक्षायामैरावतसमान्युधि ॥ निहन्तॄन्परसैन्यानां गृहे तस्सिन्ददर्श सः ॥ ३२ ॥
क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् ॥ मेघस्तनितनिर्घोषान्दुर्धर्षान्[६]समरे परैः ॥ ३३ ॥
सहस्रं [७]वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ॥ [८]हेमजालपरिच्छन्नास्[९]तरुणादित्यसन्निभाः ॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३४ ॥
शिबिका विविधाकाराः स कपिर्मारुतात्मजः ॥ लतागृहाणि चित्राणि [१०]चित्रशालागृहाणि च ॥ ३५ ॥
क्रीडागृहाणि चान्यानि दारु[११]पर्वतकानपि ॥ [१२]कामस्य गृहकं [१३]रम्यं दिवागृहकमेव च ॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३६ ॥
[१४]मन्दरगिरिप्रख्यं मयूरस्थानसंकुलम् ॥ ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ॥ ३७ ॥
[१५]अनेकरत्नसंकीर्णं निधि[१६]जालं समन्ततः ॥ धीरनिष्ठित[१७]कर्मान्तं गृहं भूतपतेरिव ॥ ३८ ॥
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ॥ [१८]विरराजाथ तद्वेश्म रश्मिवानिव रश्मिभिः ॥ ३९ ॥
जाम्बूनदमयान्येव शयनान्यासनानि च ॥ भाजनानि च [१९]मुख्यानि ददर्श हरियूथपः ॥ ४० ॥
मध्वासवकृतक्लेदं मणिभाजनसंकुलम् ॥ [२०]मनोरममसंबाधं कुबेरभवनं यथा ॥ ४१ ॥
नूपुराणां च [२१]घोषेण काञ्चीनां निनदेन च ॥ मृदङ्ग[२२]तलघोषैश्च घोषवद्भिर्[२३]विनादितम् ॥ ४२ ॥


रावणे शयाने जाग्रतीरित्यर्थः ॥ २९-३० ॥ ...तान् बद्धान् । "षिञ् बन्धने" इत्यस्मात् क्तः । ...अश्वान् । परगजानारुजन्ति पीडयन्तीति पर...रुजान् ॥ ३१-३२ ॥ क्षरतश्चेति श्लोकः पूर्वो...जविशेषकः । क्षरत: किंचिद्वर्षतः । स्रवन्मदत्वे ...न्तः । स्रवत: निझेरिणः ॥ ३३ ॥ वाहिनीः ... । पदातीनेित्यर्थः । जाम्बूनदं जम्बूनदीप्रभवं ... । हेम केवलस्वर्णं । उभयविधस्वर्णमयाभरणयुक्ता ...र्थः ॥ ३४ ॥ शिबिका इत्यादि । दारुपर्वतकान्

क्रीडापर्वतकान् । कामस्य गृहकं रतिगृहं । दिवागृहकं दिवाविनोदस्थानं । रावणस्य निवेशन इति पाठः ॥ ३५-३६ ॥ स इत्यादि ॥ मयूरस्थानं क्रीडामयूरविश्रमस्थानं । कपोतानामिव मयूराणामपि स्थानानि शिलाभिः कल्प्यन्त इति प्रसिद्धं । धीरनिष्ठितकर्मान्तं धीरैः कृतकल्पकर्मकं । भूतपतेः प्रमथाधिपस्य ॥ ३७-३८ ॥ रश्मिवान् सूर्यः ॥ ३९-४० ॥ मध्वासवकृतक्लेदं मध्वासवैः मधुविकारमद्यैः । कृतक्लेदं कृतसेकं ॥ ४१ ॥ घोषवद्भिः नादवद्भिः । नादश्च दीर्घशब्दस्य विराम-


नार्थ ... कौ' इत्यमरः ॥ २९ ॥ रामानु० गुल्मानू सेनाः । 'गुल्मारुक्स्तंबसेनाश्च' इत्यमरः ॥ ३० ॥ वि० सहस्रंवाजिनः अने ... कानश्वान् ॥ ३४ ॥ वि० हेमजालैरविच्छिन्नाः सर्वतोभूषिताइतिशिबिकाविशेषणं ॥ ३५ ॥ ति० दारुनिर्मिताःक्रीडापर्वताः द... र्वतकानि । क्लिबत्वमार्षं ॥ ३६ ॥ शि० भूतपते:ब्रह्मणः ॥ ति० निधिजालंनिधिजालवदित्यर्थः । धीरनिष्ठितकर्माङ्गं धीरैः नि... यस्थिरचित्तैःनिष्ठितंनिर्वर्तितंकर्मणः निधिरक्षादिकर्मणःअङ्गंमहिषादिबलिरूपंयस्मिन् । कश्चित्तुकर्मान्तमितिपठित्वा । धीरैः नि... तस्यअनुष्ठितस्यकर्मणःतपोरूपस्यअन्तंफलरूपं इत्यर्थमाह । भूतपतेःमहेश्वरस्ययक्षेश्वरस्यवा ॥ ३८ ॥ इतिषष्ठःसर्गः ॥ ६ ॥

  1. ग. हनुमान्गुल्मान्राक्षसानांपतेर्गुहे.
  2. ङ. प्रहरणोदितान्.
  3. क. ग.---ट. न्सितांश्चापि.
  4. ग. हरीनश्वान्. घ.... रितांश्च.
  5. ङ. झ. ट. शिक्षितान्.
  6. ज. न्संगरे.
  7. क. ग. च. छ. ज. ञ. वाजिनस्तत्रजांबूनदपरिष्कृतानू.
  8. घ. ङ. झ. ... हेमजालैरविच्छिन्नाः. ट. हेमजालैःपरिच्छिन्नाः.
  9. ग. च. छ. ज. स्तरुणादित्यवर्चसः.
  10. क. ग. घ. चन्द्रशाला.
  11. ... ङ.---ट. पर्वतकानिच. क. ग. घ. पर्वतकान्यपि.
  12. ख. ङ. झ. कामस्यचगृहं.
  13. च. छ. ज. दिव्यं.
  14. क. ग. ङ. ज. ञ. ट. मन्दरतलप्रख्यं. झ. मन्दरसमप्रख्यं.
  15. क.---ट. अनन्तरत्ननिचयं.
  16. ग. जालनिरन्तरं. ख. जालसमावृतं.
  17. ... ङ. झ. ञ. ट. कर्माङ्गं.
  18. ङ.---ट. विरराजच.
  19. क.---ट. शुभ्राणि.
  20. क. ग. मनोहरं.
  21. च. छ. ज. नादेन. ... झ. ञ. ट. निस्वनेनच.
  22. ग. तालघोषैश्च. ङ. च. छ. झ. ञ. ट. तलनिर्घोषैः.
  23. क. निनादितं.