पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

समुद्रमिव गम्भीरं [१]समुद्रमिव निस्स्वनम् ॥ महात्मनो [२]महद्वेश्म महारत्नपरिच्छदम् ॥
[३]महारत्नसमाकीर्णं ददर्श स महाकपिः ॥ १३ ॥
विराजमानं वपुषा गजाश्वरथसंकुलम् ॥ लङ्काभरणमित्येव सोमन्यत महाकपिः ॥ १४ ॥
चचार हनुमांस्तत्र रावणस्य समीपतः ॥ १५ ॥
गृहाद्गृहं राक्षसानामुद्यानानि [४]च वानरः ॥ वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ॥ १६ ॥
[५]अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ॥ ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ १७ ॥
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ॥ विभीषणस्य च [६]तदा पुप्लुवे स महाकपिः ॥ १८ ॥
महोदरस्य च [७]गृहं विरूपाक्षस्य चैव हि ॥ विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥
[८]वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ॥ १९ ॥
शुकस्य च [९]महातेजाः सारणस्य च धीमतः ॥ तथा चेन्द्रजितो वेश्म [१०]जगाम हरियूथपः ॥ २० ॥
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ॥ रश्मिकेतोश्च भवनं [११]सूर्यशत्रोस्तथैव च ॥ २१ ॥
वज्रकायस्य [१२]च तथा पुप्लुवे स महाकपिः ॥ [१३]धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ॥ २२ ॥
[१४]विद्युद्रूपस्य भीमस्य [१५]घनस्य विघनस्य च ॥ २३ ॥
[१६]शुकनासस्य [१७]वक्रस्य शठस्य [१८]विकटस्य च ॥ [१९]ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ २४ ॥
युद्धोन्मत्तस्य [२०]मत्तस्य ध्वजग्रीवस्य [२१]नादिनः ॥ [२२]विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥ २५ ॥
करालस्य [२३]पिशाचस्य शोणिताक्षस्य चैव हि ॥ [२४]क्रममाणः क्रमेणैव हनुमान्मारुतात्मजः ॥ २६ ॥
तेषु तेषु महार्हेषु भवनेषु महायशाः ॥ तेषामृद्धिमतामृद्धिं ददर्श [२५]स महाकपिः ॥ २७ ॥
सर्वेषां समतिक्रम्य भवनानि समन्ततः ॥ [२६]आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥ २८ ॥
रावणस्योपशायिन्यो ददर्श हरिसत्तमः ॥ विचरन्हरिशार्दूलो राक्षसी[२७]र्विकृतेक्षणाः ॥
शूलमुद्गरहस्ताश्च शक्तितोमर[२८]धारिणीः ॥ २९ ॥


यस्मिंस्तत् पर्वहुतम् ॥ १२ ॥ समुद्रमिव निस्स्वनं निश्शब्दं । रावणभीत्या जनकोलाहलरहितमित्यर्थः । समुद्रस्वनमिति तु बाह्यकक्ष्यापेक्षया ॥ १३-१४ ॥

रावणस्य रावणगृहस्य ॥ १५-२४ ॥ विद्युज्जिह्वेन्द्र... जिह्वानामिति बहुवचनं तन्नाम्नां बहूनां सत्त्व... ॥ २५-२८ ॥ उपशायिन्यः पर्यायशायिन...


नित्यार्चितंसर्वसुखमूर्जितमितिवापाठः । पर्वयुतमितिपाठेपर्वशब्देनोत्सवउच्यते ॥ १२ ॥ रामानु० समुद्रमिवनितरांस्वन... निस्वनं । पचाद्यच् ॥ ति० परिच्छदः अलङ्कारः ॥ १३ ॥ स० लङ्कायाआभरणरूपमिदमित्यमन्यत ॥ १४ ॥ रामानु० राक्षसानां रावणभ्रातृकुमारामात्यादीनांगृहाद्गृहं । उद्यानानिचचारेतियोजना ॥ १६ ॥ ति० विद्युज्जिह्वेन्द्रजिह्वानामितिबहूवचन... मार्षे । तयोरित्यर्थः ॥ २५ ॥ स० उपशायिन्यः शयनस्थानंपर्यायेणरक्षयित्र्योयास्ताइत्यर्थः । 'उपशायोविशायश्चपर्याय...

  1. क. घ. समुद्रस्वननिस्स्वनं. झ. समुद्रसमनिस्स्वनं.
  2. च. छ. ज. महावेश्म.
  3. ख. महाजनसमा...
  4. ङ. झ. ञ. ट. चसर्वशः. क. घ. वनानिच.
  5. क. अवप्लुतो.
  6. क. घ.---ट. तथा.
  7. घ.---ट. तथा.
  8. झ. बहुदंष्ट्र...
  9. क. ग.---ट. महावेगः.
  10. ग. पुप्लुवे.
  11. घ. सूर्यकेतोः.
  12. भवनं.
  13. क. धूम्राक्षस्यैवसदनंसंपातेः. ख. ... धूम्राक्षस्यापि. ग. ङ. छ. झ. ञ. ट. धूम्राक्षस्याथ.
  14. ज. यूपनेत्रस्य.
  15. क. प्रघनस्यघनस्यच. च. छ. ज. प्रघस्यप्र... सस्यच.
  16. छ. शुभनाभस्य. क.---च. ज.---ट. शुकनाभस्य.
  17. ङ. च. छ. झ. ट. चक्रस्य. ञ. शक्रस्य. ख. ग. वज्र...
  18. ङ. च. झ. ट. कपटस्यच. क. घ. विशठस्यच.
  19. ख. ग. ङ. च. छ. झ. ट. ह्रस्वकर्णस्य. घ. ह्रस्वदंष्ट्रस्यकण्ठस्य. ... ह्रस्वकर्णस्यवीरस्य.
  20. घ. भवनं.
  21. ङ. च. ज.---ट. सादिनः.
  22. ङ. झ. ट. विद्युज्जिह्वद्विजिह्वानां.
  23. च.--- विशालस्य.
  24. च.---ट. प्लवमानः.
  25. क. हनुमान्कपिः.
  26. क. आससादच.
  27. क. घ. विकृताननाः.
  28. ... ङ.---ट. धारिणः.