पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ६ ]
३३
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

रक्षितं [१]राक्षसैर्घोरैः सिंहैरिव महद्वनम् ॥ समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ ३ ॥
रूप्यकोपहितैश्चित्रैस्तोरणै[२]र्हेमभूषितैः ॥ विचित्राभिश्च कक्ष्याभिर्द्वारैश्च [३]रुचिरैर्वृतम् ॥ ४ ॥
[४]गजास्थितैर्महामात्रैः [५]शूरैश्च विगतश्रमैः ॥ उपस्थितम[६]संहार्यैर्हयैः स्यन्दनयायिभिः ॥ ५ ॥
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ॥ घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ ६ ॥
बहुरत्नसमाकीर्णं परार्घ्यासन[७]भाजनम् ॥ महारथ[८]समावासं महारथ[९]महास्वनम् ॥ ७ ॥
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ॥ विविधैर्बहुसाहस्रैः[१०]परिपूर्णं समन्ततः ॥ ८ ॥
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ॥ मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥ ९ ॥
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् ॥ [११]वराभरणसंह्रादैः समुद्रस्वननिस्वनम् ॥ १० ॥
तद्राजगुणसंपन्नं [१२]मुख्यैश्चागुरुचन्दनैः ॥ [१३]महाजनैः समाकीर्णं सिंहैरिव महद्वनम् ॥ ११ ॥
भेरीमृदङ्गाभिरुतं शङ्खघोष[१४]निनादितम् ॥ नित्यार्चितं [१५]पर्वहुतं पूजितं राक्षसैः सदा ॥ १२ ॥


॥ १-२ ॥ चकाशे जहर्षेत्यर्थः ॥ ३ ॥ रूप्यकोपहितैः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्टैः ॥ ४ ॥ असंहार्यैः अवध्यैः । स्यन्दनयायिभिः स्यन्दनवाहकैः ॥ ५ ॥ सिंहव्याघ्रतनुत्राणैः सिंहव्याघ्रचर्मपरिवृतैरित्यर्थः ॥ ६ ॥ महारथसमावासं महारथानां रक्षसामाकरं । महारथमहास्वनं महतां रथानां महान् स्वनः यस्मिन् ॥ ७-८ ॥ अन्तपालैः बाह्यरक्षिभिः ॥ ९ ॥ राक्ष-

सेन्द्रनिवेशनं राक्षसेन्द्राः राक्षसश्रेष्ठाः निविशन्ते समीपे निवसन्त्यस्मिन्निति राक्षसेन्द्रनिवेशनमित्यर्थः । अन्यथा वक्ष्यमाणवेश्मपदेन पुनरुक्तिःस्यात् । संह्लादः शब्दः । समुद्रस्वनवन्निस्वनतीति समुद्रस्वननिस्वनम् । पचाद्यच् ॥ १० ॥ तत् प्रसिद्धं राजगुणसंपन्न राजोपचारैर्धूपादिभिः संपन्नं । अगुरुचन्दनैरित्यत्रापि संपन्नमिति संबध्यते ॥ ११ ॥ पर्वसु हुतं होमो


...ततोनिष्क्रम्यपुनर्लङ्कांविचित्यराक्षसेन्द्रनिवेशनमाससादेत्यवगम्यते ॥ २ ॥ ती० चकाशे विस्मयादुल्ललासेत्यर्थः । चचारक...अरइतिपाठः । रामानु० भवनमितस्ततोनिरीक्षमाणस्सन्नर्कवर्णभवनप्राकारतेजस्संबन्धात्सप्रकाशोऽभूदित्यर्थः । स० चकाशे ...भावादितिभावः ॥ ३ ॥ ति० चकाशे चन्द्रसाहित्याद्व्यक्तान्वेषणक्रियोबभूवेत्यर्थः ॥ स० रूप्यस्ययत्कंउदकंतेनउपहितैःलिखितैः । रूप्य ...देनाहतसुवर्णंग्राह्यं । 'रूप्यंस्यादाहतेस्वर्णे' इतिविश्वः । कक्ष्याभिः प्रकोष्ठापरपर्यायरक्षकनिवासस्थानैः ॥ ४ ॥ स० महामात्रैः ...ष्ठैः । असंहार्यैःउपसंहर्तुमशक्यवेगैरितिहयविशेषणंवा ॥ रामानु० महामात्रैःप्रधानैः । 'महामात्राःप्रधानानि' इत्यमरः ...॥ रामानु० महारथसमावापमितिपाठेपिमहारथानांरथिकविशेषाणांआवापं आवासभूतमित्यर्थः । ति० महतांरथाना...पःस्थानंसमन्ताद्यस्मिंस्तत् ॥ स० एकोदशसहस्राणियोधयेद्यस्तुधन्विनाम् । अस्त्रशस्त्र (शस्त्रशास्त्र) प्रवीणश्चसमहारथउ...ते' इत्युक्तलक्षणानांयस्समावापः उपवेशनवेदिका सयस्मिन् । 'आवापःपरिक्षेपालवालयोः' इतिविश्वः । महारथानांउक्त...णानामपिशत्रूणां महत् असनं गतिनिवृत्तिर्यस्मिन् । 'असनंयात्रानिवृत्तिः' इतिविश्वः ॥ ७ ॥ रामानु० दृश्यैः दर्शनीयैः । ...मोदारैः अतिमहद्भिः । 'उदारोदातृमहतोः' इत्यमरः ॥ ८ ॥ रामानु० राक्षसेन्द्रनिवेशनं राक्षसेन्द्राणांनिवेशनानियस्मिं....॥ स० वराभरणनिर्ह्लादैःकरणै:समुद्रस्वननिस्वनं तद्ध्वनिसदृशध्वनिमत् ॥ १० ॥ रामानु० राजगुणाः छत्रचामरादयःतैः ...न्नं समृद्धं ॥ ११ ॥ ति० पर्वसुसुतःसोमोयस्मिन्यज्ञार्थेतत्पर्वहुतं । राक्षसैःसदापूजितं स्वपूजनीयदेवताकं ॥ रामानु० ...यार्चितं । गन्धपुष्पादिभिर्नित्यमर्चितं । पर्वसु हुतंहोमोयस्मिंस्तत्पर्वहुतं । रावणस्याहिताग्नित्वात्तद्गृहेदर्शपूर्णमासादिहोमसद्भावः । ...हिताग्नित्वंयुद्धकाण्डेप्रसिद्धं । पूजितंराक्षसैस्सदा स्वामिगृहत्वाद्राक्षसैस्सदानमस्कृतं । 'पूजानमस्यापचितिः' इत्यमरः ।

वा. रा. १५३

  1. ग. घ. ङ. च. ज. ट. राक्षसैर्भीमैः.
  2. घ.---ट. तोरणैर्हेमभूषणैः. क. तोरणैस्सुविभूषितैः.
  3. ङ. झ. रुचि...तं.
  4. व. छ. ञ. गजस्थितैः.
  5. ग. च. ज. शूरैश्चावपगतश्रमैः.
  6. ख. ग. घ. हयस्यन्दन.
  7. ङ. झ. ञ. ट. भूषितं.
  8. ... ख. घ. ङ. झ. ञ. ट. समावापं.
  9. क.---च. ज.---ट. महासनं.
  10. क. परिकीर्णं.
  11. ख. महाभरण. क. ग. च. छ. ... महाभरणनिर्ह्लादैः.
  12. क.---ङ. झ. ञ. ट. मुख्यैश्चवरचन्दनैः.
  13. क. ग.---ट. महाजनसमाकीर्णं.
  14. क. ख. ग. ... ---ट. विनादितं.
  15. घ. ङ. झ. ट. पर्वसुतं.