सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि ॥
वीरश्रिया चापि समाकुलानि ददर्श धीमान्स कपिः कुलानि ॥ १० ॥
परस्परं []चाधिकमाक्षिपन्ति भुजांश्च पीनानधि[]निक्षिपन्ति ॥
मत्त[]प्रलापानधिकं क्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥ ११ ॥
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि []कान्तासु च विक्षिपन्ति ॥
रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ १२ ॥
ददर्श कान्ताश्च समालभन्त्य[]स्तथापरास्तत्र पुनः स्वपन्त्यः ॥
सुरूपवक्त्राश्च तथा हसन्त्यः कुद्धाः पराश्चापि विनिश्श्वसन्त्यः ॥ १३ ॥
महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा []सुसद्भिः ॥
रराज वीरैश्च []विनिश्श्वसद्भिर्ह्रदो भुजङ्गैरिव निश्श्वसद्भिः ॥ १४ ॥
बुद्धिप्रधानान्रुचिराभिधानान्सश्रद्दधानाञ्जगतः प्रधानान् ॥
नानाविधानान्रुचिराभिधानान्ददर्श तस्यां पुरि यातुधानान् ॥ १५ ॥
ननन्द []दृष्ट्वा स च तान्सुरूपान्नानागुणानात्मगुणानुरूपान् ॥
[]विद्योतमानान्स तदानुरूपान्ददर्श कांश्चिच्च पुनर्विरूपान् ॥ १६ ॥
ततो [१०]वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र[११]महानुभावाः ॥
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव [१२]सुप्रभावाः ॥ १७ ॥


मत्ताः मधुमदक्षीबाः । प्रमत्ताः प्रस्तुतकार्यविस्मारिणः। मत्तप्रमत्तजनयोगात्कुलान्यपि तथोच्यन्ते । कुलानि गृहाणि । समाकुलानि समाकुलजनानि । वीरश्रिया वीरलक्ष्म्या । वीर इति भिन्नं पदं वा कपिविशेषणं ॥ १० ॥ परस्परं चेत्यादिश्लोकद्वयमेकान्वयं ॥ ददर्शेति संबध्यते । आक्षिपन्तीत्यादीनि शत्रन्तानि रक्षोविशेषणानि । आक्षिपन्ति अपहसन्ति । अधिविक्षिपन्ति अन्योन्यस्योपरि दधति । अधिविक्षिपन्ति अधिकं मुञ्चन्ति । अधिक्षिपन्ति भर्त्सयन्ति । विक्षिपन्ति विवृण्वन्ति । चित्राणि रूपाणि विविधान्वेषान् । विक्षिपन्ति वितन्वन्ति । चापानि चापान् विक्षिपन्ति विस्फारयन्ति ॥ ११-१२ ॥ समालभन्त्यः अङ्ग-

रागेणानुलिंपन्यः । समालपन्त्य इति च पाठः । सर्वत्र व्यत्ययेन द्वितीयार्थे प्रथमां ॥ १३ ॥ महागजैरिति । सा पुरीति शेषः । सुसद्भिः सुतरां सद्भिः । विनिःश्वसद्भिः युद्धयोग्यवीरालाभात् ॥ १४ ॥ बुद्धि... प्रधानान् बुद्ध्या श्रेष्ठान् प्रधानबुद्धीन्वा उत्तमबुद्धी... नित्यर्थः । रुचिराभिधानान् शोभनव्यवहारान् सश्र... द्दधानान् आस्तिकान् । नानाविधानान्नानाकारान् ... रुचिराभिधानान् हृद्यनाम्नः ॥ १५ ॥ आत्मगुणानुरूपान् आत्मगुणानुरूपव्यवहारान् ॥ १६ ॥ वराणा... श्रेष्ठानां अर्हाः वरार्हाः । सुविशुद्धभावाः कान्ते... निर्मलहृदयाः । महानुभावाः पातिव्रत्यरूपमहाप्रभावाः । यद्वा महानुभावाः अनुभावाः कटाक्षभुज-


विहर्तुंप्रवृत्ताः ॥ ९ ॥ स० मत्ताः स्वभावतः । प्रमत्ताः मद्यादिना । तेचते अनिनःप्राणिनश्चतैःसमाकुलानि । चापिभिःधनुर्धारिभिःसमाकुलानीत्यप्यर्थः ॥ १० ॥ स० सुसद्भिः विभीषणादिभिः ॥ १४ ॥ स० जगतःस्वावरलोकस्यप्रधानंज्ञानंयेषांतेत...तान् । अलुक्समासः । 'प्रधानंस्यात्प्रज्ञायां' इतिविश्वः । जगतः उक्तरूपस्यप्रधानान् प्रकृष्टाधानाःतदुपलक्षितजीवनोपायाःयै... तान् । अतोनोभयत्रलिङ्गानुपपत्तिः ॥ १५ ॥ ति कांश्चित्पुनर्विरूपानपिविद्योतमानान्सुरूपानिवददर्शेत्यन्वयः ॥ स० सरूप...

  1. क. चापिसमाक्षिपन्ति.
  2. क. ख. घ.---ट. विक्षिपन्ति.
  3. ग.---ट. प्रलापानधिविक्षिपन्ति. क. प्रमत्तानधिविक्षिपन्ति.
  4. क. गात्रेषुच.
  5. छ. ज. स्पृधापराश्चापि.
  6. क. च. छ. ज. ञ. सुहृद्भिः.
  7. ङ. सुनिश्वसद्भिः.
  8. ङ. सुनिश्वसद्भिः.
  9. ख. घ.---ट. विद्योतमानान्सचतान्सुरूपान् क. ग. विद्योतयन्तीःसचताःसुरूपाददर्शकान्ताश्चपुनर्विरूपाः.
  10. क. महार्हाः.
  11. क. विशुद्धभावाः.
  12. ङ. छ.---ट. सुस्वभावाः.