पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ५ ]
२९
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्रेत [१]इवोच्चशृङ्गः ॥
हस्तीव जाम्बूनदबद्धशृङ्गो [२]रराज चन्द्रः [३]परिपूर्णशृङ्गः ॥ ५ ॥
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः ॥
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवाञ्शशाङ्कः ॥ ६ ॥
शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः ॥
राज्यं समासाद्य यथा नरेन्द्रस्तथाप्रकाशो विरराज चन्द्रः ॥ ७ ॥
प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षःपिशिताशदोषः ॥
रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान्प्रदोषः ॥ ८ ॥
तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभि[४]स्सुवृत्ताः ॥
नक्तंचराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ ९ ॥


मन्दरकन्दरस्थः तस्य श्वेतगिरित्वात् । गर्वितकुञ्जरस्थः नीलरूपस्य नभस उपर्यवस्थानात् । अत्र पुष्टत्वादीनां साधारणधर्माणामनुपादानाल्लुप्तोपमालङ्कार: ॥ ४ ॥ परिपूर्णशृङ्गः परिपूर्णकलः। अत्र श्रृङ्गशब्दस्य विषाणाद्यर्थभेदेपि बिम्बप्रतिबिम्बभावेनौपम्यम् ॥ ५ ॥ शीताम्बु हिमाम्बु तुषाराः पृषताः पङ्कः तमः । विनष्टाः शीताम्बुतुषारा एव पङ्काः यस्मिंस्तथा । "तुषारः शीकरे हिमे" इति विश्वः । महाग्रहाणां शुक्रबृहस्पत्यादीनां ग्राहेण ग्रहणेन आच्छादनेन विनष्टः पङ्को ...लं यस्य सः महाग्रहग्राहविनष्टपङ्कः । स्वतेजसा म...ग्रहतिरस्कारेण व्यक्तनैर्मल्य इत्यर्थः । यद्वा महाग्रहः सूर्यः तस्य ग्राहेण किरणपरिग्रहेण विनष्टः विनाशितः पङ्कः तम: येन सः । तदा तरणिकिरणसंक्रमणेन ...दीप्यमानमण्डल इत्यर्थः । तदुक्तं वराहमिहिरेण ...सलिलसमे शशिनि रवेर्दीधितयो मूच्छितास्तमो

नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः" इति ॥ प्रकाशलक्ष्म्याश्रयनिर्मलाङ्कः तेजस्समृद्धियोगात्स्पष्टकलङ्कः । अतिधवले चन्द्रे परभागयोगेन कलङ्कस्याप्यौज्ज्वल्यं भवतीत्यर्थः । शशाङ्क इति । भूच्छायामयः शशरूपः अङ्कः यस्य स तथा । "लोकच्छायामयं लक्ष्म तवाङ्के शशसन्निभं" इति हरिवंशोक्तेः । भगवान् महाप्रभाववान् ॥ ६ ॥ प्रकाशः प्रकाशमानः ॥ ७ ॥ प्रकाशेन चन्द्रोदयेन नष्टः दोषः तिमिरं यस्मिन्सः । प्रवृद्धः रक्षसां पिशिताशनानां च दोषः सञ्चाररूपो यस्मिन्स तथा । रामाभिः अभिरामैः कान्तैश्च ईरितः त्यक्तः चित्तदोषः कोपाभिमानरूपः यस्मिन् । स्वर्गप्रकाशः स्वर्गतुल्यः । तद्वदानन्दावह इत्यर्थः । भगवान् श्रीमान् । "भगः श्रीकाममाहात्म्यवीर्ययन्त्रार्ककीर्तिषु" इत्यमरः । प्रदोषः गत इति शेषः ॥ ८ ॥ तन्त्रीति स्पष्टम् ॥ ९ ॥

...काह्लादकत्वाच्चन्द्रस्यदुःखविनाशकरत्वं । यद्वासूर्यचन्द्रादीनांलोकपावनत्वादितिभावः ॥ २ ॥ ती० प्रवृत्तरक्षःपिशिताशदोषः प्रवृत्तःरक्ष...पिशितभक्षणरूपदोषोयस्मिन् । पिशितभक्षणस्यदोषत्वमविहितजनहिंसाहेतुत्वात् । स्वर्गप्रकाशःसीतान्वेषणस्यानुकूलत्वेनानन्दहेतु...याप्रदोषकालस्यस्वर्गसदृशत्वोक्तिः । अतएवभगवान्पूज्यः आदरणीयइतियावत् ॥ स० भगवान् पूर्वोक्तरीत्यामाहात्म्यवान् प्रदोषः ...त्रिकालः । स्वर्गप्रकाशः स्वर्गस्थानवत्सुखकरः । कीदृशः प्रकाशचन्द्रोदयनष्टदोषः प्रकाशायजातोयश्चन्द्रोदयस्तेननष्टोदोषः ...न्धकाराख्यःयस्यसतथा । प्रवृद्धरक्षसांपिशिताशरूप:मांसभक्षणरूपोदोषो यस्मिन् । रामाभिःस्त्रीभिः अभिरामान्पतीन् प्रति ईरि...नवचनेनचित्तदस्यचित्तंद्यतिखण्डयतीतिव्युत्पत्त्यामन्मथस्य उषःदाहः निवृत्तिरितियावत् । यस्मिन् कान्तासुरतसँल्लापजनितम...मथोत्सववानित्यर्थः । अथवारामाभिरामाणांपरस्परमीरितरूपप्रणयकलहाख्यचित्तदोषवानित्यर्थः । उषदाहे । 'घञर्थेकविधानं' ...तिकः ॥ शि० प्रदोषेचन्द्रनियन्तृत्वमारोप्याह---प्रकाशेति । प्रकाशविशिष्टवन्द्रस्योदयेननष्टोविनाशितः दोषः स्त्रीविषयक...सः । रामस्याभिरामाय सीतयासहरमणाय ईरितः चन्द्रोदयनेनप्रापितः चित्तदोषः सीताविषयकराममनोत्या...सक्तिरूपदोषः दोषाभासोयेन । अतएव स्वर्गस्यसुखविशेषस्य प्रकाशःधर्मात्मसुप्रापकः । अतएवभगवान्समर्थः ॥ ८ ॥ ति० ...सुपृक्ताःभेदग्रहाविषयाः । स्ववृत्ताइतिपाठेस्वंस्वीयंसहजपातिव्रत्यलक्षणंवृत्तंचारित्रंयासांताः । नक्तंचराः उलूकादयोराक्षसाश्चतथा-

  1. ङ. झ. ञ. ट. इवोर्ध्वशृङ्गः.
  2. ख. ग.---ट. विभाति.
  3. ख. ग. घ. च. छ. प्रतिपूर्ण.
  4. ङ. झ. ट. स्सुपृक्ताः.