पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/३२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

[१]भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ॥ रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः ॥
राक्षसाधिपतेर्गुप्तमाविवेश [२]महाकपिः ॥ २७ ॥

सहेमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितान्तम् ॥
परार्घ्यकालागरु[३]चन्दनाक्तं स रावणान्तःपुरमाविवेश ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्थः सर्गः ॥ ४ ॥


पञ्चमः सर्गः ॥ ५ ॥

सितकिरणे गगनाङ्कणमलङ्कुर्वाणेनानावस्थाकारगुणकराक्षसस्त्रीपुरुषकुलमवलोकयतोऽनवलोकयतश्च सतींसीतां हनुमतोदुःखोदयः ॥ १

ततः स मध्यं गतमंशुमन्तं ज्योत्स्नावितानं [४]महदुद्वमन्तम् ॥
ददर्श [५]धीमान्दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ १ ॥
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् ॥
भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम् ॥ २ ॥
या भाति लक्ष्मीर्भुवि मन्दरस्था [६]तथा प्रदोषेषु च सागरस्था ॥
तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ ३ ॥
हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः ॥
वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रो विबभ्राज तथाऽम्बरस्थः ॥ ४ ॥


॥ २५-२७ ॥ हेम अन्यत्र जातं सुवर्णं । जाम्बूनदं जम्बूनद्यां जातं । चक्रवालं प्राकारमण्डलं । रावणान्तःपुरं रावणान्तर्नगारं ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्थः सर्गः ॥ ४ ॥


 ततः स मध्यमित्यादि । दिवि आकाशे । मध्यं गतं आकाशमध्यगतमित्यर्थः । लङ्काप्रवेशे चन्द्रोदयोक्तेः रावणनगरप्रवेशे अर्धरात्र इति सूच्यते । उत्तरश्लोके अभियान्तमित्यनेनाभिगमनमुच्यते । दक्षिणां । दिशं गच्छतोभिमुखत्वासंभवात् । किन्तु गमनमात्रं । सप्तदशे सर्गेपि प्रजगाम नभश्चन्द्र इति प्रकर्षेण गम-

नवचनं नभोमध्यातीतत्वमाचष्टे । अंशुमन्तमिति चन्द्र एवोच्यते । भानुमन्तं दीप्तिमन्तं । वृषं श्वेतं ... अस्मिन्सर्गे च्छेकानुप्रासः नतु यमकं अर्थभेदाभावात् । तदुक्तं काव्यप्रकाशे । "भिन्नार्थानां त्र्यादीनांवर्णानां विवृत्तिर्यमक"मिति ॥ १ ॥ पापानि दुःखानि ... ॥ २ ॥ भुवि मन्दरो लक्ष्मीवान् । प्रदोषेषु सागरः ... तोयेषु पद्मं श्रीमत् । तद्वत्तदानीं चन्द्रो विशिष्टलक्ष्मीको बभूवेत्यर्थः । अत्रान्यस्यान्यत्रासंबन्धान्मन्दरादिलक्ष्मीरिवास्य लक्ष्मीरिति सादृश्याक्षेपान्निदर्शनालङ्कारः तदुक्तं काव्यप्रकाशे निदर्शनायाम् "अभिमान्यस्तु संबन्ध उपमापरिकल्पक" इति ॥ ३ ॥ राजतपञ्जरस्थः गगनगर्भस्य ज्योत्स्नाक्षालितत्वात्


ती० सहेमेतिच्छेदः । हेमसहितंजांबूनदचक्रवालसहितंस्वर्णप्राकारमण्डलयुक्तं । स० हेम्ना पीतवर्णसुवर्णेनसहितंयज्जांबू...श्वतवर्णसुवर्णं ॥ २८ ॥ इतिचतुर्थः सर्गः ॥ ४ ॥

ती० यद्वातारामध्यगतं ॥ ति० ततः अन्तःपुरप्रवेशोत्तरं । रात्रेःप्रथमयामस्यसमाप्तकल्पत्वमत्रेतिबोध्यं । स० ज्योत्स्नारूप... वितानमुद्वमन्तमितिविशेषणबलादंशुमन्तमित्यस्यसूर्येरूढस्यापियोगेनचन्द्रपरता । किंचतमेवचन्द्रंसीतायारामस्यवाभानुमन्तंसूर्यमिव । विरहितापकत्वगुणयोगेनददर्शेत्यर्थः। चन्द्रपक्षेभानुमन्तंदीप्तिमन्तमित्यर्थः ॥१॥ ती० पापशब्देनपापफलंदुःखमुच्यते । लो-

  1. ङ. झ. ट. भूषितैः.
  2. क.---ट. गृहंकपिः.
  3. च. ज. ञ. चन्दनाङ्कितं. ङ. झ. ट. चन्दनार्हं.
  4. घ. ड. झ. ञ. ट. मुहुरुद्वमन्तं.
  5. झ. ञ. ट. धीमान्भुवि.
  6. ङ. झ. ट. यथा. ख. ञ. प्रदोषकालेषुच.