सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ५]
३१
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

[]श्रिया ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः ॥
ददर्श काश्चित्प्रमोदपगूढा यथा []विहङ्गाः कुसुमोपगूढाः ॥ १८ ॥
अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र []प्रियाङ्केषु सुखोपविष्टाः ॥
भर्तुः []प्रिया धर्मपरा निविष्टा ददर्श धीमान्[]मदनाभिविष्टाः ॥ १९ ॥
अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्ध्यास्तपनीयवर्णाः ॥
पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः ॥ २० ॥
ततः प्रियान्प्राप्य मनोभिरामान्सुप्रीतियुक्ताः []प्रसमीक्ष्य रामाः ॥
गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः ॥ २१ ॥
चन्द्रप्रकाशाश्च हि वक्त्रमाला []वक्त्राक्षिपक्ष्माश्च सुनेत्रमालाः ॥
विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः ॥ २२ ॥
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् ॥
लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाऽभिजाताम् ॥ २३ ॥
सनातने वर्त्मनि सन्निविष्टां []रामेक्षणान्तां मदनाभिविष्टाम् ॥
भर्तुर्मनः श्रीमदनुप्रविष्टां []स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ २४ ॥
उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम् ॥


क्षेपादयः सुप्रभावाः शोभनवैभवाः ॥ १७ ॥ प्रमदोपगूढाः हर्षोंपगूढाः विहङ्गाः विहङ्गीः ॥ १८ ॥ निविष्टाः ऊढाः पाणिगृहीता इत्यर्थः । "निवेशः शिबिरोद्वाहन्यासे" इति विश्वः ॥ १९ ॥ अप्रावृताः अनवकुण्ठिताः । काञ्चनराजिवर्णाः कनकरेखाकाराः । तपनीयवर्णाः तप्तकाञ्चनवर्णाः । शशलक्ष्मवर्णाः चन्द्रपाण्डुराः । कान्तप्रहीणाः विरहिण्यः ॥ २० ॥ प्रियान्प्राप्य अभिसृत्य । सुप्रीतियुक्ताः मनोभिरामाः रामाः प्रसमीक्ष्य गृहेषु रामाश्च ददर्श । अभिसारिकाः

कुलपालिकाश्च ददर्शेत्यर्थः ॥ २१ ॥ वक्त्रनेत्रदर्शनं मानुषीत्वराक्षसीत्वविवेकार्थं । आभरणदर्शनं स्वदृष्टसीताभरणतुल्याभरणदर्शनार्थं ॥ २२ ॥ परमाभिजातां अत्यन्ताभिरामां । साधुजातां सुरूपां । मनसाभिजातां अयोनिजामित्यर्थः ॥ २३ ॥ सनातने अविच्छिन्ने वर्त्मनि पातिव्रत्यधर्मे । रामेक्षणे अन्तो निश्चयो यस्यास्तां श्रीमत् सीताचिन्तनश्रीमत् । विशिष्टां उत्कृष्टां ॥ २४ ॥ सानुसृतास्रकण्ठीं अनुगतास्रेण अनुगतबाष्पेण कण्ठेन सह वर्तमानां । पुरा रामपार्श्वा-


...मानरूपान् । आत्मगुणानांशौर्यादीनांअनुरूपान्अनुकूलाकृतिमतः । सुरूपान्सुन्दरान् ॥ १६ ॥ ति० यथाविहङ्गःविहङ्गी...रवेत्यर्थः । इन्द्रनीलमणिमयोर्ध्वगेहेषुनीलतमस्सदृशेषुशयनात्तत्सादृश्यं । शि० विहगेनपक्षिविशेषेणउपगूढाःविहङ्गाइवददर्श । ...त्युन्नतप्रासादेषुशयनादीदृगुपमानोपमेयभावः ॥ स० प्रमदोपगूढाःविहगीभिरुपगूढाःविहङ्गायथाभवन्तितथाएताददर्श ॥१८ ॥ रामानु० वक्राणिअक्षिपक्ष्माणियासांताः। 'डाबुभाभ्यामन्यतरस्यां' इतिडापू । सीतामन्वेषमाणस्यहनुमतःस्त्रीणांमुखनयनादिदर्श...मानुषीत्वराक्षसीत्वविभागपरिज्ञानार्थं। आभरणदर्शनंरामोक्तसीताभरणस्वरूपनिरूपणार्थं। एतच्च "तांसमीक्ष्यविशालाक्षींराजपुत्री...निन्दिताम् । तर्कयामाससीतेतिकारणैरुपपादयन् । वैदेह्यायानिचाङ्गेषुतदारामोऽन्वकीर्तयत् । तान्याभरणजालानिशाखाशोभी...यलक्षयत्’ इति । राजपुत्रीत्वविशालाक्षीत्वाभरणदर्शनैःसीतात्वनिर्णयस्योपरिवक्ष्यमाणत्वादवगम्यते । ती० परमाभिरामाश्च ...दर्शेतिसंबन्धः । पूर्वोक्ताःनियतभर्तृकाः । अभिसारिकासमभिव्याहारात्उत्तरार्धेनस्वगृहप्राप्तरमणावाराङ्गनाउच्यन्ते ॥ ति० ...क्राक्षिपक्ष्माइतिपाठेऽक्षिपदमधिकं । वक्रपक्ष्माइत्येवोचितं । पक्ष्मसुवक्रत्वमपिकिमित्यपिचिन्त्यं ॥ २२ ॥ रामानु० साधुजा...तामित्येतल्लताविशेषणं मनसाभिजातां 'यस्मात्तुधर्षिताचाहमपापाचाप्यनाथवत् । तस्मात्तववधार्थंवैउत्पत्स्येऽहंध्रुवंपुनः" ...इत्युत्तररामायणोक्तप्रकारेणस्वसंकल्पेनावतीर्णामित्यर्थः ॥ २३ ॥ स० मदनाभिविष्टां तामिवविद्यमानां । मदनोमन्मथःअभि-

  1. ङ. झ. स्त्रियोज्वलन्तीः.
  2. ङ. झ. ञ. ट. विहङ्गाविहगोपगूढाः.
  3. झ. ञ. प्रियाङ्केसुसुखोप.
  4. ङ. ट. ...पराः.
  5. ङ. झ. ञ. ट. मदनोपविष्टाः.
  6. झ. ञ. ट. सुमनोभिरामाः.
  7. ङ. झ. ञ. ट. चक्राःसुपक्ष्माश्च.
  8. ग. ङ. झ. ट. ...रामेक्षणींतां.
  9. ङ.---ज. स्त्रीभ्योपराभ्यश्च. झ. ञ. ट. स्रीभ्यःपराभ्यश्च.