पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । हनुमन्सहसंकाशावुभौ तौ रामलक्ष्मणौ ॥ सुग्रीवं च सहामात्यं सर्वान्ब्रूया ह्यनामयम् ॥ ४० ॥ यथा च स महाबाहुर्मा तारयति राघवः ॥ अस्माद्दुःखाम्बुरोधात्वं समाधातुमर्हसि ॥ ४१ ॥ ईमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ॥ ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥ ४२ ॥ एतत्तवार्या नृपराजसिंह सीता वचः ग्राह विषादपूर्वम् || एतच्च बुद्धा गँदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥ ४३ || इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥ अष्टषष्टितमः सर्गः ॥ ६८ ॥ हनुमता श्रीरामंप्रतिराघवयोर्वानराणांच दुस्तरसागरतरणेसीताशङ्कायां तन्निवर्तकस्ववचनाद्यनुवादपूर्वकं स्वकृतसीता- समाश्वासन निवेदनेनसह सीताकुशलनिवेदनम् ॥ १ ॥ ७ अथाहमुत्तरं देव्या पुनरुक्तः सैसंभ्रमः ॥ तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ॥ १ ॥ एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया || यथा मामानुयाच्छीघ्रं हत्वा रावणमाहवे ॥ २ ॥ यदि वा मन्यसे वीर वसैकाहमरिन्दम || कस्मिंश्चित्संवृते देशे विश्रान्तः वो गमिष्यसि ॥ ३ ॥ मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् ॥ अस्य शोकविपाकस्य मुहूर्त स्याद्विमोक्षणम् ॥४॥ गते हि त्वयि विक्रान्ते पुनरागमनाय वै ॥ प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥ ५ ॥ तवदर्शनजः शोको भूयो मां परितापयेत् || दुःखदुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥ ६ ॥ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः || सुमहांस्त्वत्सहायेषु है यृक्षेषु हरीश्वर ॥ ७ ॥ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ॥ तानि हरृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ८ ॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने || शक्तिः स्याद्वैनतेयस्य तँव वा मारुतस्य वा ॥ ९ ॥ तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे || किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥ १० ॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने || पर्याप्तः परवीरन यशस्यस्ते बलोदयः ॥ ११ ॥ बलैः समग्रैर्यदि मां हत्वा रावणमाहवे || विजयी खाँ पुरीं रामो नँयेत्तत्स्याद्यशस्करम् ॥ १२ ॥ ४३ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण - | दर्दात् सुहृद्भावात् । आप्तत्वादिति यावत् । अनुमान्य भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने संमान्य । उत्तरं ततः परं । उत्तरं कार्यं वा । पुनर्दे- सप्तषष्टितमः सर्गः ॥ ६७ ॥ व्याहमुक्त इत्यन्वयः । ससंभ्रमः गमनत्वरान्वित इत्यर्थः ॥ १-३ ॥ शोकविपाकस्य शोकवृद्धेरित्यर्थः हे नरव्याघ्र तव स्नेहात् । मयीति शेषः | सौहा- | ॥ ४–९ ॥ कार्यनिर्योगे कार्यगतौ । दुरतिक्रमे [ पा० ] १ झ ञ ट संरोधात्तत्त्वमाख्यातुमर्हसि. क. च. ज. संरोधात्तत्समाधातुमर्हसि २ ग घ. झ. न. ट. इदंच. ३ झ ञ ट नृपसंयतासा. ४ झ ञ ट . गदितोयथावं. क. च. छ. ज. गदितंप्रियायाः ५ घ. झ. ट. ससंभ्रमं. ६ च. छ. ज. ञ. मांप्राप्नुयात् ७ झ ञ ट वानर ८ झ. ट. तवादर्शनजंचापिभयंमां. ग. तवादर्शनतश्चापिशोकोमां. घ. तवादर्श- नजश्चापिशोकोमां. ९ ग. दुःखाहुःखाभिभूतांमांदुःखितां. ख. च. छ. दुःखाहुःखाभिभूतांचदुःखितां. घ. दुःखाहुःखतरंयातांदुः- खितांदुःखसागरे. १० ग. हरृक्षप्रवरेषुच. क. ख. च. छ. ज. ञ, हयृक्षेषुनसंशय: झ. हयृक्षेषुअसंशय: ११ झ ञ. ट. सागरस्येह. १२ घ. च. झ ञ ट . वायोर्वातवचानघ १३ क. ग. त्वंहि. १४ झ. ट. वाक्यविदां. १५ झ. ट. स्वपुरीं. १६ च. छ. ज. नयेन्मांतद्यशस्करं.