पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ श्रीमद्वाल्मी किरामायणम् । [ सुन्दरकाण्डम् ५ यथाऽहं तस्य वीरस्य वनादुपधिना हृता || रक्षसा तद्भयादेव तथा नार्हति राघवः ॥ १३ ॥ बैलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ॥ मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १४ ॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ॥ भवत्याहवशूरस्य तेथा त्वमुपपादय ।। १५ ।। तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् || निशम्यहं ततः शेषं वाक्यमुत्तरमब्रवम् ॥ १६ ॥ देवि हरृक्षसैन्यानामीश्वरः लवतांवरः ॥ सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ॥ १७ ॥ तस्य विक्रम संपन्नाः सत्त्ववन्तो महाबलाः ॥ मनःसंकल्पसंपाता निदेशे हरयः स्थिताः ॥ १८ ॥ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ॥ न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ १९ ॥ असकृत्तैर्महाभागैर्वानरैर्बलंदर्पितः ॥ प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ २० ॥ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः || मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥२१॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ॥ न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ||२२|| तदलं परितापेन देवि मन्युर्व्यपैतु ते ॥ एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ॥ २३ ॥ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ॥ त्वत्संकाशं महाभागे नृसिंहावागमिष्यतः ॥ २४ ॥ अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् ॥ लक्ष्मणं च धनुष्पाणि लङ्काद्वारंमुंपस्थितम् ॥ २५ ॥ नखदंष्ट्रायुधान्वीरान्सिहशार्दूलविक्रमान् || वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥ २६ ॥ शैलाम्बुद निकाशानां लङ्कामलयसानुषु || नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ॥ २७ ॥ निवृत्तवनवासं च त्वया सार्धमरिन्दमम् ॥ अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ २८ ॥ ततो मया वाग्मिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता || जंगाम शान्ति मम मैथिलात्मजा तैवापि शोकेन तदाऽभिपीडिता ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां सुन्दरकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥ ॥ सुन्दरकाण्डः समाप्तः ॥ दुर्निर्वहे ॥ १० ० – २२ ॥ मन्युः दैन्यं । " मन्यु | सुन्दरकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ॥ दैन्ये ऋतौ कुधि " इत्यमरः ॥ २३ – २८ ॥ तव इत्थं कौशिकवंशमौक्तिक मणिर्गोविन्दराजाभिधो शोकेनापि नैवं दंशानित्यादिमदुक्त्या श्रुतेन । तदा वात्स्यश्रीशठकोपदेशिक पदद्वन्द्वैकसेवारतः ॥ पूर्वा - मम पुरस्ताद॒द्मिपीडिता । अदीनभाषिणा मया । चार्यकृता विलोक्य विविधा व्याख्या मुहुर्जा- शिवाभिः इष्टाभिः वाग्भिः । अभिप्रसादिता शान्ति नकीकान्तस्याप्रतिमाज्ञयैव तिलकं सौन्दर्यकाण्डे - दुःखनिवृत्तिं जगाम ॥ २९ ॥ इति श्रीगोविन्दराज - व्यधात् ॥ १ ॥ विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने [ पा० ] १ च. छ. ज. ञ. शरैस्तु. २ ग. च. छ. झ ञ तत्त्वमेवोपपादय ३ झ. ट. स्त्वदर्थें. ४ ख. झ. ट. सदृशाः. ५ ख. च॰ छ, ज॰ ञ, मैहाभागै : ससागरधराधरा ६ घ ङ. झ. ट. बलसंयुतैः ७ घ. चन्द्रसूर्याविवांबरे ८ च. छ. ज. अ. -ट. धनुष्मन्तं १० घ. - ट. मुपागतं. ११ झ ट उवाह १२ ख. वियोगशोकेनतथा. त्वत्समीपं. इदं किष्किन्धाकाण्डं कुंभघोणस्थेन टी. आर्. कृष्णाचार्येण मुंबय्यां निर्णयसागरमुद्रायत्रे मुद्रापितम् । शकाब्दाः १८३४ सन १९९३.