पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ एवमस्त्रविदां श्रेष्ठः सववाञ्छीलवानपि || किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ॥ १८ ॥ नै नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥ न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ॥ १९॥ तैस्य वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः || क्षिप्रं सुनिशितैर्वाणैर्हन्यतां युधि रावणः ॥ २० ॥ आतुरादेशमाँज्ञाय लक्ष्मणो वा परन्तपः स किमर्थ नरवरो न मां रक्षति राघवः ॥ २१ ॥ शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ || सुराणामपि दुर्धर्षी किमर्थं मामुपेक्षतः ॥ २२ ॥ ममैव दुष्कृतं किंचिन्महदस्ति न संशयः || समर्थौ सहितौ यन्मां नावेक्षेते परंतपौ ॥ २३ ॥ वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् || पुनरप्यहमार्थी तामिदं वचनमब्रुवम् ॥ २४ ॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥ रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥ २५ कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ॥ इमं मुहूर्त दुःखानामन्तं द्रक्ष्यसि भामिनि ॥२६॥ तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ॥ त्वदर्शनकृतोत्साहौ लङ्कां भसीकरिष्यतः ॥ २७ ॥ हत्वा च समरे रौद्रं रावणं सहबान्धवम् || राघवस्त्वां वरारोहे खां पुरीं नयते ध्रुवम् ॥ २८ ॥ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते || प्रीतिसंजननं तस्य प्रदातुं त्वमिहार्हसि ॥ २९ ॥ साँऽभिवीक्ष्य दिशः सर्वा वेण्युद्धथनमुत्तमम् ॥ मुक्त्वा वस्त्रादौ मह्यं मणिमेतं महाबल ॥ ३० ॥ प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्रह || शिरसा ती प्रणम्यार्यामहमागमने त्वरे ॥ ३१ ॥ गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ॥ विवर्धमानं च हि मामुवाच जनकात्मजा ॥ ३२ ॥ अश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी ॥ ममोत्पतनसंभ्रान्ता शोकवेगसमाहता ॥ ३३ ॥ [ मौमुवाच ततः सीता सभाग्योसि महाकपे ॥ यद्रक्ष्यसि महाबाहुं रामं कमललोचनम् || लक्ष्मणं च महाबाहुं देवरं मे यशखिनम् ॥ ३४ ॥ सीतयाऽध्येवमुक्तोऽहमञवं मैथिलीं तथा ॥ पृष्ठमारोह मे देवि क्षिप्रं जनकनन्दिनि ॥ ३५ ॥ यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम् || राघवं च महाभागे भर्तारमसितेक्षणे ॥ ३६ ॥ साऽब्रवीन्मां ततो देवी नैष धर्मो महाकपे ॥ यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुङ्गव ॥ ३७ ।। पुरा च यदहं वीर स्पृष्टा गात्रेषु रक्षसा || तत्राहं किं करिष्यामि कालेनोपनिपीडिता ॥ ३८ ॥ गच्छ त्वं कपिशार्दूल यत्र तौ नृपतेः सुतौ ॥ इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता] ॥३९॥ प्रतिसमासितुं प्रतिमुखं स्थातुं ॥ १९ - २४ ॥ | दिश इति । दिगवलोकनं राक्षस्यो दृष्ट्वा रावणाय त्वच्छोकविमुखः त्वच्छोकेन कार्यान्तरविमुखः वक्ष्यन्तीति भयेन | वेण्यामुद्रध्यत इति वेण्यद्रथनं । ।। २५ – २७ ।। नयते नेष्यते । वर्तमानसामीप्ये वेणीधार्यमित्यर्थः । मुक्त्वा वस्त्रादिति वस्त्राञ्चलेन वर्तमानवत्प्रयोगः ॥ २८–२९ ॥ सामिवीक्ष्य ग्रथितं मणि मुक्त्वा ततः ददावित्यर्थः ॥ ३० - ति० अतः परंपरिशोचितुं नकालः तवयोग्यइतिशेषः । चिरंलङ्कायामासितुंनकालोयोग्यइतिपाठान्तरेऽर्थः ॥ ति० इदंमुहूर्त अस्मिन्नेवमुहूर्तेइत्यर्थः ॥ २६ ॥ इतिसप्तषष्टितमः सर्गः ॥ ६७ ॥ [ पा० ] १ क. च. छ. ज. ञ. सत्त्ववान्बलवानपि. २ क. ग. घ. च. - ट योजयसि. ३ झ. ट. नदानवानगन्धर्वाः. ४ ख. घ. झ ञ ट तवरामरणेशक्तास्तथाप्रति समासितुं. ५ ख. ग. च. – ट. तववीर्यवतः. ६ झ. ट. सुनियतैः ७ ग.. घ. मादाय ८ घ. समर्थावपितौ ९ झ ट यन्मांनरक्षेते. क. च. छ. ज. यन्मामुपेक्षेते. १० च - ट. साधुभाषितं ११ ख. घ. कालश्चिरमासितुं. १२ क. च. – ट. इदंमुहूर्त. १३ च. छ. ज. ज. पुत्रौमहाबलौ. झट. पुत्रौपरंतपौ. १४ ग विशालाक्षि स्वांपुरींप्रतिनेष्यति ख. महाभागे १५ झ ट खपुरी, १६ क. ग. च. – ट. तत्त्वमर्हसि. १७ च. छ. ज. ञ. सासमीक्ष्य. १८ छ. झ. ट. दोर्भ्यांतव. क. ख. ग. च. ज. ञ. देव्यास्तव. १९ ग. घ. च. छ. झ ञ ट . संप्रणम्यैनां.. २० झ. ट. बाष्पगद्गद २१ मामुवाचेत्यादयः भूयःसंदेष्टुमास्थितेत्यन्ताः श्लोकाः झ ञ ट पाठेषुदृश्यन्ते.