पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इदमुक्तवती देवी जानकी पुरुषर्षभ || पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ॥ २ ॥ सुखसुता त्वया सार्धं जानकी पूर्वमुत्थिता ॥ वायसः सहसोत्पत्य विरराद स्तनान्तरे ॥ ३ ॥ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज || पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ॥ ४ ॥ पुन: पुनरुपागम्य विरैराद भृशं किल ॥ ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ॥ ५ ॥ वायसेन च तेनैव सततं बाध्यमानया || बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ॥ ६ ॥ तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे || आशीविष इव क्रुद्धो निश्श्वसन्नभ्यभाषथाः ॥७॥ नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ॥ कः क्रीडति सरोषेण पञ्चवक्रेण भोगिना ॥ ८ ॥ निरीक्षमाणः सहसा वायसं समवैक्षथाः ॥ नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ॥ ९ ॥ सुतः किल स शक्रस्य वायसः पततां वरः ॥ धरान्तरचरः शीघ्रं पवनस्य गतौ समः ॥ १० ॥ ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः ॥ वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ॥ ११ ॥ संदर्भ संस्तराह्य ब्रह्मास्त्रेण ह्यंयोजयः ॥ स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ॥ १२ ॥ क्षि॑ित॒वा॑स्त्वं प्रदीप्तं हि दर्भे तं वायसं प्रति ॥ ततस्तु वायसं दीप्तः स दैर्भोऽनुजगाम ह ॥ १३ ॥ सँ पित्रा च परित्यक्तः सुरै समहर्षिभिः ॥ त्रील्लोकान्सं परिक्रम्य त्रातारं नाधिगच्छति ॥ १४ ॥ पुनरेवागत स्वस्तस्त्वत्स काशमरिन्दम || सँ तं निपतितं भूमौ शरण्यः शरणागतम् || वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ॥ १५ ॥ मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव || भँवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥ १६ ॥ राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ॥ विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम् ॥ १७ ॥ उभावपि पर्यायेण सुप्ताविति त्वया सार्धमित्युक्तं | ॥ ३-६ ॥ दारितां विदारितां ॥७-१८ ॥ २२९ शि० पक्षी वायसः । देव्याः व्यथां स्पर्शादिनाऽस्वास्थ्यं । पुनःपुनर्जनयति । पुनःपुनर्जनयतीत्यनेन अयंरावणवघयोग्योस्तिन- वेतिपरीक्षार्थमागतइतिव्यक्तं ॥ ४ ॥ शि० विददार विदारणानुकूलव्यापारंचकार । ततोनन्तरंशोणितेन रुधिरबिन्दुना । समु क्षितइवत्वं तस्याः तया । बोधितः । शोणितोक्षितसादृश्यंचात्यरुण बिन्दुविशिष्टसीतापट विशेषाच्छादितत्वेन । समुक्षितशब्दः आ- चारक्किबन्त प्रकृतिक कर्तृक्किबन्तः । प्रातिभासिकंव्याख्यानंतुहेयमेव । अप्राकृताङ्गस्य रुधिरस्रावहेतुभूत विदारितत्वस्यासंभवात् । अतएव “ योवेत्तिभौतिकंदेहंरामस्य परमात्मनः । ससर्वस्माद्बहिष्कार्यःश्रौतस्मार्तविधानतः " इत्यादिसंगच्छते । प्रमाणे रामस्ये- त्युपलक्षणंसीतायाः ॥ ५ ॥ ति० रादितं दारितमित्यर्थः ॥ स० पञ्चवक्रेण अड्डलिरूपपञ्चमुखेनहस्तेन । कः पुमान् । सरोषे- णभोगिना तद्रूपयात्वयाक्रीडति । पञ्चवक्रेण विस्तृतमुखेनेतिवा ॥ ८ ॥ स० निरीक्षमाणः समन्तात्पश्यन् | नखैः पादनखैः ॥ ९ ॥ स० चिक्षेप चिक्षेपिथ | " त्वंदेव शक्तयांगुणकर्मयोनौरेतस्त्वजायांकविरादधेऽजः " इत्यादाविवयुष्मच्छब्दप्रयोगेपि प्रथमपुरुषःसंभवति । “ त्वमग्नेप्रथमोमातरिश्वन " इतिऋग्भाष्यटीकायामेतद्भागवतवाक्योदाहरणेनतथैवोक्तेः ॥ १३ ॥ स० भीतैः त्वत्तः । नाधिगच्छति प्राप्तवान् ॥ १४ ॥ स० तत्र त्रायकशून्यकाले । घरण्यां क्षितौ अनाथतयानिपतितं । भूमौ " भूमिः क्षितौस्थानमात्रे " इत्यनुशासनात्स्थानमात्रं प्रकृत्यर्थः । सप्तम्यर्थश्वोद्देश्यत्वं । स्वाश्रयार्थमितिभावः । शरणागतं शरणा- यस्वरक्षणाय आगतं त्वामितिशेषः । शि० सीताङ्गस्पर्शमात्रेणतत्कल्याणप्रकटनमपहाय कोपप्रकटनद्वाराकिमर्थंकृत मितितुन भ्रमि- तव्यं । प्रार्थनयैवपरमकल्याणंक्रियतइतिस्वाभाविकपरमात्मरीतेः । तथाहि " करुणावानपिव्यक्तंशतःस्खाम्यपिदेहिनां । अप्रार्थि तोनगोपायेदितितत्प्रार्थनामतिः " इतिपुराणं ॥ १५ ॥ स० हिनस्तिस्म अहिनः ॥ १६ ॥ । " [ पा० ] १ झ ट विददारस्तनान्तरं. २ क. ख. च. छ. ज. प्रसुप्तस्त्वं. ३ क. – ट. ततःपुनः ४ ग. झ ञ ट विददार. ५ ख. घ. तद्रणंच ६ झ ट ततोवाक्यंत्वमूचिवान्. ७ घ. छ. – झ. रादितं वैस्तनान्तरे ख. दारितासिस्तनान्तरे. ८ क. च. छ. ज. समुदैक्षत. झ. ट. समुदैक्षथाः ख. ग. समवैक्षथ. ९ ख. च. ज. - ट. सदर्भसंस्तरागृय. १० ज. – ट. न्ययोजयः ११ म. च. - ट. सत्वंप्रदीप्तंचिक्षेप १२ क. च. ज. न. दर्भोंभिजगाम १३ ज. झ. ट. भीतैश्चसं परित्यक्तः, १४ क. ख. ग. च.—ट. सुरैस्सर्वेश्चवायसः १५ क. ख. ग. च. छ. ज. ज. पुनरेवागतस्तत्रत्वत्समीपं. १६ च. ज. ञ. ततस्तंपतितं. क. ग. घ. सत्वंनिपतितं. झ. ठ. त्वंतंनिपतितंभूमौधरण्यां. १७ क. – घ. च. ज. - ट. ततस्तस्याक्षि. १८ घ. रामतुभ्यं. क. च. छ. ज. ततोरामंनमस्कृत्य झ ञ ट वायसस्त्वांनमस्कृत्य. १९ क. ख. ग. च. - ट. राज्ञोदशरथस्यच.