२२८ श्रीमद्वास्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ अयं हि जलसंभूतो मणिः सज्जनपूजितः ॥ यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥ ५ ॥ इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् || अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥ ६ ॥ अयं हि शोभते तस्याः प्रिय़ाया मूर्ध्नि मे मणिः ॥ अस्साद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥ ७ ॥ किमाह सीता वैदेही ब्रूहि सौम्य पुनःपुनः ॥ पिपासुमिव तोयेन सिंञ्चन्ती वाक्यवारिणा ॥ ८॥ इतस्तु किं दुःखतरं यँदिमं वारिसंभवम् || मणि पश्यामि सौमित्रे वैदहीमागतं विना ॥ ९ ॥ चिरं जीवति वैदेही यदि मासं धरिष्यति ॥ क्षणं सौम्य न जीवेयं विना तामसिक्षणाम् ॥१०॥ नय मामपि तं देशं यत्र दृष्टा मम प्रिया ॥ न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ ११ ॥ कथं सा मम सुश्रोणी भीरुभीरुः सती सदा ॥ भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥१२॥ शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः ॥ वृतं वदनं तस्या न विराजति रौंक्षः ॥ १३ ॥ किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे || एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ १४ ॥ मधुरा मधुरालापा किमाह मम भामिनी ॥ मद्विहीना वरारोहा हनुमन्कथयस्व मे || [ दुःखदुःखतरं प्राप्य कथं जीवति जानकी ] ॥ १५ ॥ 1 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥ सप्तषष्टितमः सर्गः ॥ ६७ ॥ हनुमता रामचोदनया काकासुरवृत्तान्तादिप्रतिपादक सीतावचनानां विस्तरेणानुवादः ॥ १॥ तथा तांप्रति स्वेनार्थरूपाभिज्ञा- नयाचने तयाचूडामणिरूपार्थाभिज्ञानदान निवेदन पूर्वकं रामादिषु कुशलप्रश्ननिवेदन चोदनादिरूपतद्वचनानुवादः ॥ २ ॥ एवमुक्तस्तु हनुमात्राघवेण महात्मना || सीताया भाषितं सर्वे न्यवेदयत राघवे ॥ १ ॥ जनकेनापि कुतस्तल्लब्धं तत्राह – अयं हीति ॥ ५ ॥ | || ६-८ । आगतं मणिमित्यन्वयः ॥९-११॥ " मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति” भीरुभीरुः अत्यन्तभीरुः ॥ १२-१३ ॥ तत्त्वतः इति सीतयोक्तप्रकारेण स्मरति इममिति । इमं संकोचेनन किंचिद्गोपनीयमिति भावः ॥ १४॥ मधुरा दृष्ट्वा तातस्य दशरथस्य । वैदेहस्य जनकस्य | दर्शन- सुन्दरी | मधुरालापा । येन तद्वचनानुवादेपि भव- मद्यावगतः प्राप्तोस्मि । तदा ताभ्यां तस्या मूर्ध्नि द्वचनं मधुरं भवतीत्यर्थः ॥ १५ ॥ इति श्रीगोविन्द - बद्धत्वादिति भावः । इह वैदेहग्रहणं सीताजनन्या राजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्या- अप्युपलक्षणं । सीतावाक्ये “ वीरो जनन्या मम ने सुन्दरकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ॥ च " इत्युक्तेः । तत्र त्रयाणां संस्मरिष्यतीति त्रयम- हणं बहुमात्रोपलक्षणं । इह वैदेहस्यापि स्मरणोक्तेः पूर्व संकुचितं विस्तृणीते – सुखेत्यादिना ॥ ति० परासुं मूच्छितंमां ॥ ८ ॥ ति० यदिमासंधरिष्यति जीविष्यति । तदा चिरंजीवति जीविष्यतीत्यर्थः । तांविना यथा- ऽहंनजीवेयं तथामांविना सापिनजीविष्यतीत्यर्थः ॥ स० यदिवैदेहीचिरंजीवति तर्हि मासंघरिष्यति । यदिमासंघरिष्यति तर्ह्येव चिरंजीव ती तितज्जीवनंमज्जीवनव्याप्तं । व्यतिरेकेणाप्याह - क्षणमिति । तामसितेक्षणांविना क्षणमहंनजीवेयंयथा तथा इयंसी- तापिमांविना नजीवा न विद्यतेजीवोयस्याः सेतियोजना । यद्वा वैदेही दिमासंघरिष्यतिप्राणान् तर्हि चिरंजीवति । वार्ताज्ञाना- नन्तरंमयातुतथाजीवितुमशक्यमित्याह - क्षणमिति ॥ १० ॥ स० प्रवृत्तिं वार्ता | निराहारत्वादिप्रवृत्तिवा ॥ ११ ॥ इतिषट्षष्टितमः सर्गः ॥ ६६ ॥ [ पा० ] १ च. छ. ज. इदंहिजलसंभूतं मणिप्रवरमुत्तमं २ ख. घ. झ. प्रवरपूजितः ३ च. छ. ज. दत्तं. ४ क. ख. च. छ. झ ञ तथा ५ ख झ ञ ट परासुमिव ६ छ. स्रवन्ती ७ झ ञ. यमिमं. ८ ख. झ. वीर. ९ च. झ. तदा. १० छ. झ ञ आवृतो. ११ झ सांप्रतं. १२ क छ ज झ ट कथयस्वमे १३ इदमर्धे झ. ट. पाठयोर्नदृश्यते १४ ख. राघवेणैवमुक्तस्तुहनूमान्मारुतात्मजः | वाक्यमुत्तरमव्यप्रस्तमुवाचप्रहृष्टधीः.
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३२
दिखावट