पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अयं चासै प्रदातव्यो यत्वात्सुपरिरक्षितः ॥ ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥ २१ ॥ एष चूडामणिः श्रीमान्मया सुपरिरक्षितः ॥ मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ॥ २२ ॥ त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ॥ एष निर्यातितः श्रीमान्मया ते वारिसंभवः ॥ २३ ॥ ऐतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ॥ जीवितं धारयिष्यामि मासं दशरथात्मज || ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ॥ २४ ॥ इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी ॥ रावणान्तः पुरे रुद्धा मृगीवोत्फुल्ललोचना ॥ २५ ॥ ऐतदेव मयाख्यातं सर्व राघव यद्यथा ॥ सर्वथा सागरजले संतारः प्रविधीयताम् ॥ २६ ॥ तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ॥ देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा संपूर्ण वायुपुत्रः शशंस ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥ २२७ षट्षष्टितमः सर्गः ॥ ६६ ॥ रामेण सीताप्रेषितचूडामणेर्वक्षसि निक्षेपेणस करुणंबहुधाविलापपूर्वकं हनुमन्तंप्रति पुनः सीतावचननिवेदनचोदना ॥१॥ एवमुक्तो हनुमता रामो दशरथात्मजः ॥ तं मणिं हृदये कृत्वा रुरोद सलक्ष्मणः ॥ १ ॥ तं तु दृष्ट्वा मँणिश्रेष्ठं राघवः शोककर्शितः || नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥ २ ॥ यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला ॥ तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥ ३ ॥ मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ॥ वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ॥ ४ ॥ ॥ २० ॥ सुप्रीवस्योपशृण्वतः सुग्रीवे समीपे शृण्वति | प्रपञ्चनं गोप्यविशेषगोपनार्थं । अत्र त्वप्रपञ्च - सति । एवं एष चूडामणिरित्यारभ्य रक्षसां वशमा- थनीयाकथनार्थं चेति ज्ञेयं ||२७|| इति श्रीगोविन्द- गतेत्यन्तवक्ष्यमाणप्रकारेण । वचनानि रामं प्रति राजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्या- मयोक्तवचनानि । ब्रुवता त्वया । अयं मणिरित्यर्थः । ने सुन्दरकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ||६५॥ प्रदातव्यः ॥ २१-२४ ॥ मृगीवोत्फुल्ललोचना । त्रासातिशयादिति भावः ॥ २५ ॥ सन्तीर्यतेनेनेति यथा वत्सला वत्से स्नेहवती धेनुः वत्सस्य संतारः सेतुः ॥ २६ ॥ ताविति । पूर्ववद्वैश्वदेवीवृत्तम् । स्नेहात् वत्सविषयकस्नेहात् । स्रवत्येव द्रवत्येव । समुद्रतरणे सुरसानिरसनादिकं अक्षवधलङ्कादहनादिकं तथा मणिरत्नस्य मणिश्रेष्ठस्य | दर्शनान्मम हृदयं द्रवति सजातीयेभ्यः पूर्वमुक्तमपि प्रभुसंनिघावालाघायां ॥१-३॥ मणेरागतिमाह – मणिरत्नमिति ॥ मे श्वशु- पर्यवस्येदिति नोक्तमिति ध्येयम् । *स्ववृत्तान्तं सर्व- रेण जनकेन । वधूकाले वधूप्रतिग्रहकाले । विवाह- माख्यातवानिति सामान्येनवक्तुंयुक्तत्वेप्यङ्गदसन्निधौ काल इत्यर्थः । यथा शोभते तथा बद्धमित्यन्वयः ॥४॥ शि० एवंवचनानिउपटण्वतः सुग्रीवस्यसमीपेब्रुवतात्वया यत्नात् त्वत्प्रयत्नविज्ञाय | सुपरिरक्षितः स्वदेहइतिशेषः । अयंवृत्ता-. न्तसमूहः त्वयाप्रदातव्यःवक्तव्यइत्यर्थः ॥ २१ ॥ स० स्मरख स्मर । स्व स्वतन्त्रेतिरामसंबोधनंवा ॥ २२ ॥ ति० मासात् विद्य- मानाद्दशमासादू ||२४|| ति० संतारः सन्तारोपायः । प्रविधीयतां प्रविचार्यतां ॥२६॥ इतिपञ्चषष्टितमः सर्गः ॥६५॥ ति० वत्सस्येत्यत्रापिदर्शनादितिसंबध्यते । तथास्नेहात्स्रवतीत्यनुकर्षः ॥ ३ ॥ ति० वधूकाले वधूवसंपादकेकाले । सीतामा-- तृहस्ताद्गृहीत्वादशरथहस्तेदत्तं । तच्चतस्मिन्काले यथाधिकंशोभते तथामूर्ध्निबद्धमित्यर्थः ॥ स० वधूकरणकाळेवैदेत्यामूर्ध्निबद्धंय- थाअधिकंअशोभत तथाइदानीमपिशोभते । कालतस्तत्प्रकाशतिरोधानंनास्तीतिमहत्त्वरत्नस्यध्वन्यते ॥ ४॥ [ पा० ] १ घ. च. छ. ज. न. ट. इदंचा स्मैप्रदातव्यमेतत्सुपरिरक्षितं. २ घ. च. छ. ज. ब. मयातेपरिरक्षितः ३ क. ख. घ. ―ट. स्तिलकंतत्स्मरखेतिचाब्रवीत्. ४ क. घ. ङ. झ ञ ट. एतं दृष्ट्वा ५ क. घ. एतदेवं. ६ च. -ट. रुरोदसह- लक्ष्मणः ७ ख मणिवरं, ८ घ च ट मणिश्रेष्ठस्य.