पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ॥ स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ २० ॥ • त्वया नुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ॥ क्वचिद्भन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥ २१ ॥ एवं तु वदतां तेषामङ्गदः प्रत्यभाषत | बाँढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ॥ २२ ॥ उत्पतन्तमनुत्पेतुः सर्वे ते हरियूथपाः || कृत्वाऽऽकाशं निराकाशं यत्रोत्क्षिप्ता इवाचलाः ॥ २३ ॥ [ अङ्गद पुरतः कृत्वा हनूमन्तं च वानरम् ॥ ] तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ॥ विनदन्तो महानादं घना वातेरिता यथा ॥ २४ ॥ अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः || उवाच शोकोपहतं रामं कमललोचनम् ॥ २५ ॥ समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः || नागन्तुमिह शक्यं तैरँतीते समये हि नः ॥ [ अङ्गदस्य प्रहर्षाच्च जानामि शुभदर्शन ॥ २६ ॥ ] न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते ॥ युवराजो महाबाहुः लवतां प्रवरोऽङ्गदः ॥ २७ ॥ यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः || भवेत्स दीनवदनो आन्तविप्लुतमानसः ॥ २८ ॥ पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् ॥ न मे मधुवनं हन्याहृष्टः प्लवगेश्वरः ॥ २९ ॥ कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत || दृष्टा देवी न संदेहो न चान्येन हनूमता ॥ ३० ॥ 'नं ह्यन्यः कर्मणो हेतुः साधनेस्य हनुमतः ॥ हनूमति हि सिद्धिश्च मतिश्च मैति व्यवसायव वीर्य च सूर्ये तेज इव ध्रुवम् ॥ ३१ ॥ जाम्बवान्यत्र नेता स्यादङ्गदच बैलेश्वरः ॥ हनुमांचाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ ३२ ॥ विनयः ॥ १९ ॥ कृतक्षणाः कृतावसरा: । अव - | र्याणां | ईदृश: मधुवनभङ्गरूपः । उपक्रमः उद्योगः । सरप्रतीक्षा इति यावत् ॥ २० – २१ ॥ बाढमि- यदि स्यात्तदाङ्गदो दीनवदनत्वादिविशिष्टो भवेत् ॥ २८ ॥ त्यङ्गीकारे । इतिशब्दः काकाक्षिन्यायेन पूर्वापरयो- पिता चासौ पितामहश्च । पित्रा ब्रह्मणा ऋक्षरजसे रन्वेति । एवं तेषां वदतां तेषु वदत्सु । अङ्गदः बाढ- दत्तं पितृपैतामहं । प्लवगेश्वरः अङ्गदः ॥ २९ ॥ हे मिति प्रत्यभाषत । गच्छाम इत्युक्त्वापि उत्पपात राम कौसल्या सुप्रजा: सुप्रजावती । " नित्यमसिचू ॥ २२ ॥ निराकाशं निरवकाशम् ॥ २३ ॥ तेम्बर- प्रजामेधयो: " इत्यसिच्प्रत्ययः । एवं देव्यवस्था- मिति अन जग्मुरित्यध्याहार्यं ॥ २४ – २६ ॥ विनि- नज्ञानेन भवतस्सत्तालाभादिदानीं कौसल्या सुप्रजा- पातिते विघ्निते ॥ २७ ॥ अकृतकृत्यानां अकृतका- | वती अभूदिति शेषः ॥ ३०–३१ ।। यत्र कार्ये । ती० ननुमधुवनधर्षणमात्रेणकथंकार्यसिद्धिः कापेयादिनापिसंभवादित्याशङ्क्यसत्यमन्येषांतादृशत्वेपि अङ्गदस्तुनैतादृशइत्याशये- नाह—यद्यपीत्यादिश्लोकद्वयेन | अकृतकृत्यानामन्येषांवानराणां ईदृशउपक्रमः मधुवनभङ्गहर्षव्यापारोयद्यपिस्यात् । तथापि तत्राङ्गदस्तु दीनवदनो भ्रान्तविलुतमानसश्चभवेत् । कुतः पितृपैतामहं पितृपितामहपरंपरागतं । मेमधुवनं जनकात्मजामदृष्ट्वानह न्यात् ॥ २८-२९ ॥ ती० हेराम कौसल्यासुप्रजाः | सीतायाः स्थिति परिज्ञानेनभवतःसत्तालाभात् इदानींकौसल्यासुपुत्रवत्यभु- दितिभावः ॥ ३० ॥ ति० अस्यकर्मणः साधने तद्विषोहेतुरपरोनभवेत् नास्ति । इहहनूमति एतत्कार्यसाधिकासिद्धिः ब्रह्मवरज- न्यामतिश्चास्ति । हि यतः । व्यवसायः उद्यमः ॥ ३१ ॥ ति० नेता प्रधान: । अधिष्ठाता कार्यकरणोद्योगवान् ॥ ३२ ॥ [ पा० ] १ ङ. झ. ट. साधुगच्छाम. २ च. छ. उत्पपातमहीतलात्. ख. घ. खमुत्पेतुर्महीतलातू. ३ ङ. ज. ट. यन्त्रोत्क्षिप्ताइवोपलाः. क. ख. ग. छ. यज्ञोत्क्षिप्ताइवानलाः ४ इदमधं ङ. झट. पाठेषुदृश्यते ५ च. छ. ज. ञ. तेऽङ्गदं . पुरतःकृत्वा. ६ ङ. — ट. शोकसंतप्तं. ७ ङ. – ट. रतीतसमयैरिह ८ इदमर्धे ङ. - ट. पाठेषुदृश्यते . ९ क. ङ. झ॰ ट. भवेत्तुदीनवदनो. ख. ग. घ. भवेयु नवदनाभ्रान्त विमानसाः १० छ. ज. श्रान्त विष्ठत ११ ङ. झ० ददृष्ट्वा जनकात्मजां. १२ क. घ.―ट. नह्यस्यकर्मणोहेतुस्साधनेतद्विधोभवेत् . ग. नह्यस्यसाधकोहेतुस्साधनेतद्विषोभवेत् १३ क. च. छ. ज. अ. हनूमतिमतिश्चैवकर्मसिद्धिश्चसत्तम. १४ क. रघुसत्तम. १५ क, ख, ग, ङ, छ, ट. शौर्यचश्रुतंचापिप्रतिष्ठितं. १६ ख॰—ठ॰ हरीश्वरः १७ ङ. च. छ. झ ञ ट तत्र.