पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२३ सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ॥ अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ॥ [ श्रान्तो दूरादनुप्राप्तो भक्षयस्व स्वकं मधु ॥ ६ ॥ ] युवराजस्त्वमीशश्च वनस्यास्य महाबल || मौर्यात्पूर्व कृतो दोषस्तं भवान्क्षन्तुमर्हति ॥ ७ ॥ [ यथैव हि पिता तेऽभूतपूर्व हरिगणेश्वरः ॥ तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम ॥ ८ ॥ ] आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ॥ इहोपयातं सर्वेषामेतेषां वनचारिणाम् ॥ ९ ॥ से त्वदागमनं श्रुत्वा सभिर्हरियूथपैः ॥ प्रहृष्टो न तु रुष्टोसौ वनं श्रुत्वा प्रधर्षितम् ॥ १० ॥ ग्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ॥ शीघ्रं प्रेषय सर्वोस्तानिति होवाच पार्थिवः ॥ ११ ॥ श्रुत्वा दधिमुखस्येदं वचनं लक्ष्णमदः ॥ अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ १२ ॥ शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः || [अयं च हर्षादाख्यांति तेन जानामि हेतुना ॥] तत्क्षणं नेह नः स्थातुं कृतेऽकार्ये परन्तपाः ॥ १३ ॥ पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ॥ किं शेषं गमनं तत्र सुग्रीवो यंत्र मे गुरुः ॥ १४ ॥ सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ॥ तथाऽसि कर्ता कर्तव्ये भवद्भिः परवानहम् ।। १५ ।। नाज्ञापयितुमीशोऽहं युवराजोसि यद्यपि ॥ अयुक्तं कृतकर्माणो यूयं घर्षयितुं मँया ॥ १६ ॥ ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमव्ययम् || ग्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ १७ ॥ एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ ॥ ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ १८ ॥ तव चेदं सुसदृशं वाक्यं नान्यस्य कस्य चित् ॥ सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ १९॥ त्यर्थः ॥ ५ ॥ एभिः वानरैः । अभिवारितः अभि- | गुरु: " इति पाठे अस्माकं गमनं किंशेषं किंचिच्छेषं । वारितोऽसीति यत् अत्रार्थे रोषो न कर्तव्यः । भवन्त तञ्च गमनशेषं च सुग्रीवो यत्र तत्र गमनमिति इति पूजायां बहुवचनं । नच हनुमदादिकमादाय बहुव- संबन्धः ॥ १४ ॥ विनयपूर्वकं सर्वसंमेलनं समर्थय चनं उत्तरलोकेपि युवराजस्त्वमित्युक्तेः । अज्ञाना- ते — सर्व इति । तथास्मि कर्ता आह्वानं करिष्यामी- क्रोधात् । अज्ञानप्रयुक्तक्रोधादित्यर्थः । अभिवारित- त्यर्थः । कर्तव्ये कार्ये भवद्भिः अहं परवान् । भव- मिति पाठे लिङ्गव्यत्यय आर्ष: । केचित्तु अज्ञानात् द्भिर्यथा नियुक्तं तथा करिष्यामि । गन्तव्यमित्युक्ते क्रोधाच्च भवन्तः प्रतिषेधिता इत्येतत् परिवारितं परि- गमिष्यामः स्थातव्यमित्युक्ते स्थास्याम इत्यर्थः ॥ १५॥ वारणं प्रति । रोषो न कर्तव्य इति योजयन्ति ॥ ६ ॥ युवराजत्वाद्भवानेव कर्तव्याकर्तव्य नियन्तेत्यत आह - क्रोधाद्वारणे कृते कुतो रोषो न कर्तव्यस्स्यादित्याश- नाज्ञापयितुमिति || ईशः स्वतन्त्रः । कृतकर्माणः ङ्ग्य क्रोधस्याज्ञानकृतत्वादित्याह - युवराज इति ! कृतोपकाराः । यूयं मया धर्षयितुं अनादर्ते परतन्त्री - कर्तुमिति यावत् । अयुक्तं अयुक्ता इत्यर्थः । नवृत्तान्तः ।।१३।। किं शेषं न किंचिदपि शिष्टमित्यर्थः । आर्षमव्ययमेतत् । शक्यमितिवत्सामान्योपक्रमान्नपुं- किन्तु मे गुरुः सुग्रीवो यत्र वर्तते तत्र गमनमेवशेष- सकैकत्व निर्देश इत्यप्याहुः ॥१६-१७॥ अहमिति मित्यर्थः । " किंशेषं गमनं तच्च सुग्रीवो यत्र मे | मन्यते गर्विष्ठो भवतीति यावत् ॥ १८ ॥ सन्नतिः दोष: निवारणरूपापराधः ॥ ७-८ ॥ उपयातं आगमनं ।। ९-१२ ।। अयं वृत्तान्तः अस्मदागम- । २ इदमधे ङ. – ट. पाठेषु ति० तत् तस्मात् । अकार्ये वनविध्वंसनरूपे । कृतेसति इहस्थातुं । नोस्माकं नक्षमं नयुक्तं ॥ १३ ॥ [पा० ] १ ङ. झ ट . यदेभिः परिवारणं. ख. यदेभिर्नविचारितं. क. यदेभिरविचारितं. दृश्यते. ३ ङ. झ. ट. रोषस्तद्भवान्. क. ख. घ. च. छ. ज. दोषस्तद्भवान् ४ अयंश्लोकः ङ. – ट. पाठेषुदृश्यते. ५ क. ७ क. संग्रहृष्टोनरुटस्तु. ख. घ. —ट. यानं. ६ क. राजावामागतं. ङ. झ ट . भवदागमनं श्रुत्वास है भिर्वनचारिभिः मांचाब्रवीत्पितृव्यस्ते. ९ क ख ङ. झ ट स्यैतद्वचनं. १० इदमर्धे ख. ङ. -ट, पाठेषुदृश्यते. ११ ङ. झ. ट. विक्रान्ताः . १२ ङ. झ. ट. यत्रवानरः १३ ङ. झ. ट. बलात्. च. छ. ज. रुषा. १४ ङ.ट. मुत्तमं ८ क.