पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६५ ] मा भूश्चिन्तासमायुक्तः संप्रत्यमितविक्रम |॥ ३३ ॥ [ यंदा हि दर्पितोदग्राः संगताः काननौकसः ॥ नैषामकृतकार्याणामीदृशः स्यादुपक्रमः । वनभङ्गेन जानामि मधूनां भक्षणेन च ॥ ३४ ॥ ] ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे || हनुमत्कर्महतानां नैर्दतां काननौकसाम् ॥ किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥ ३५ ॥ ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ॥ आयताश्चितलाङ्गूलः सोभवद्धृष्टमानसः ॥ ३६ ॥ आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः ॥ अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥ ३७ ॥ तेऽङ्गदप्रमुखा वीराः ग्रहृष्टाश्र मैदान्विताः ॥ निपेतुर्हरिराजस्य समीपे राघवस्य च ॥ ३८ ॥ हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः || नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥ ३९ ॥ [ ईष्टा देवीति हनुमद्वदनादमृतोपमम् ॥ आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः ॥ ४० ॥ ] निश्चितार्थस्ततस्तस्मिन्सुग्रीवः पवनात्मजे ॥ लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत ॥ ४१ ॥ प्रीत्या च रँममाणोथ राघवः परवीरहा ॥ बहुमानेन महता हनुमन्तमवैक्षत ॥ ४२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२५ पञ्चषष्टितमः सर्गः ॥ ६५ ॥ हनुमता तंप्रति शिशुपामूले राक्षसीमध्यस्थित्यादितद्वृत्तान्तकथनपूर्वकं तदुक्ताभिज्ञान निवेदनेन रामेण सह तत्सन्देशकथनम् ॥ १ ॥ ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् || प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥ १ ॥ युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ॥ प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥ २ ॥ रावणान्तःपुरे रोधं राक्षसीभिश्र तर्जनम् || रामे समनुरागं च यंञ्चायं समयः कृतः ॥ ऐंतदाख्यान्ति ते सर्वे हरयों रामसन्निधौ ॥ ३ ॥ नतो मन्त्री | बलेश्वरः सेनापतिः । अधिष्ठाता संर- | वेपि क्षतत्वे च तथा । ततः आवश्यकमुभयं संप्र- क्षक इत्यर्थः । तस्य कार्यस्य । गतिः सिद्धिः । हेण दर्शयति ॥ अस्मिन्सर्गे साधैँकोनचत्वारिंशच्छा- अन्यथा विपरीता । न भवेत् । संप्रति चिन्तासं- का: ॥ ३९ ४२ ॥ इति श्रीगोविन्दराजविरचिते युक्तो मा भूः ॥ ३२–३४ | सिद्धिं कथयतामिव । श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरका - उत्साहेनेति शेषः ॥ ३५ ॥ आयताश्चितलाङ्गूल: ण्डव्याख्याने चतुष्षष्टितमः सर्गः ॥ ६४ ॥ आयतः दीर्घीकृतः अश्चित: माल्यवच्छृङ्गे समास्था- पितः ।। ३६-३७ ॥ प्रहृष्टाः सञ्जातपुलकाः ॥ ३८॥ प्रवृत्तिं वार्ती ॥ २ ॥ रोधं निरोधं । यश्चार्य नियतामिति । अक्षतत्वेप्यनियतत्वे वैयर्थ्य नियत- समयः कृतः । मासद्वयादूर्ध्वं हनिष्यामीति यः ति० नियतां पातिव्रत्यसंपन्नां | अक्षतां शरीरेणकुशलिनीं ॥ ३९ ॥ शि० परमया लक्ष्म्यापि परयासीतयेत्यर्थः ॥ उपेतो मनसासंयुक्तः । राघवश्च महता प्रशंसनीयेन । बहुमानेनावैक्षत ॥ ४२ ॥ इतिचतुष्षष्टितमः सर्गः ॥ ६४ ॥ ति० रामसंनिधौ स्थिताइतिशेषः ॥ ३ ॥ [ पा० ] १ इदमर्धत्रयं ङ. - ट. पाठेषुदृश्यते २ घ.ट. नदतां. ३ ङ. झट. मदान्विताः ४ अयंश्लोकः ङ. -ट. पाठेषुदृश्यते. ५ क. घ. -ट. निश्चितार्थंततस्तस्मिन्सुप्रीपवनात्मजे । लक्ष्मणःप्रीतिमान्प्रीतो. ६ झ ञ ट परमोपेतो. ७ ख. ङ. झ. मुपचक्रमे ८ क. राक्षसीनांच. ९ ङ. झ. ट. यथाच. १० ङ. च. झ. एतदाख्यायते. वा. रा. १७७