पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२१ पाणिभिर्निहताः केचित्केचिज्जानुभिराहताः ॥ प्रकृष्टाश्च यथाकामं देवमार्ग च दर्शिताः ॥ ११ ॥ एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ॥ कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ १२ ॥ एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् || अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ १३ ॥ किमयं वानरो राजन्वनपः प्रत्युपस्थितः ॥ कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ १४ ॥ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना || लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १५ ॥ आर्य लक्ष्मण संग्राह वीरो दधिमुखः कपिः ॥ अङ्गप्रमुखैर्वीरभक्षितं मधु वानरैः ॥ विचित्य दक्षिणामाशामागतैर्हरिपुवैः ॥ १६ ॥ नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ॥ आगतैश्च प्रमथितं यथा मधुवनं हि तैः ॥ धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ॥ १७ ॥ वनं यदाऽभिपन्नास्ते साधितं कर्म वानरैः ॥ १८ ॥ [ वाँरयन्तो भृशं प्राप्ताः पाला जानुभिराहताः ॥ तथा न गणितश्चायं कपिर्दधिमुखो बली || पतिर्मम वनस्यायमस्माभिः स्थापितः स्वयम् ॥ १९ ॥ ] दृष्टा देवी न संदेहो न चान्येन हनूमता ॥ न ह्यन्यः साधने हेतुः कर्मणोस्य हनूमतः ॥ २० ॥ कार्यसिद्धिर्मतिश्चैव तस्मिन्वानरपुङ्गवे || व्यवसायश्च 'वीर्य च श्रुतं चापि प्रतिष्ठितम् ॥ २१ ॥ जाम्बवान्यत्र नेता स्वादङ्गदश्च महाबलः ॥ हनुमांचाप्यधिष्ठाता नै तस्य गतिरन्यथा ॥ २२ ॥ अङ्गप्रमुखैवारहतं मधुवनं किल ॥ वोरयन्तश्च सहितास्तथा जानुभिराहताः ॥ २३ ॥ एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह || नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥ २४ ॥ दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ॥ अभिगम्य तथा सर्वे पिबन्ति मधु वानराः ||२५|| न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ || वैनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ॥ २६ ॥ ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः || श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्युताम् || ग्राहृष्यत भृशं रामो लक्ष्मणश्च मँहाबलः ॥ २७ ॥ रणे । संप्रधर्षणचिह्नस्य दृश्यमानत्वाभिप्रायेण प्रसि - | रणेन । एषामकृतकृत्यानामीदृश उपक्रमो न स्यादिति द्धिपरो वा ॥ ९ – १५ ॥ अङ्गदप्रमुखैरिति । अत्र | मन्य इति योजना ॥ १७ ॥ कृतकृत्यत्वं विशेषय- विशिष्यानुवादाद्दधिमुखवाक्ये वानरपुङ्गवैरित्यत्रापि | ति - वनमित्यादिना ॥ १८–२५ ॥ वनमिति | विशेषपरत्वं बोध्यं ॥ १६ ॥ वनं प्रमथितं भग्नं | मधुवनधर्षणमेव सीतादर्शने लिङ्गमिति भावः । दत्त - धर्षितं आक्रान्तं । मधु च भक्षितं । यथा येन का - वरं दिव्यमित्यनेन ऋक्षरजसे ब्रह्मणा दत्तमित्यवग ॥ ७ ॥ शि० देवमार्गदर्शिताः प्रक्षेपेणप्रापिताः ॥ ११ ॥ ती० सहैववसतोलक्ष्मणस्य कंचनार्थमभिनिर्दिश्य दुःखितोवाक्यमब्र वीदितिप्रश्नकरणाद्दधिमुखेनवनभङ्गादिकंखजात्युचितभाषयोक्तमित्यवगन्तव्यं । उपांशुक्तमितिवाद्रष्टव्यं ॥ १३ ॥ ति० यत् यतः । वनमभिपन्नाः नाशयितुंप्रवृत्ताः ॥ १८ ॥ स० स्ववेदनावेदनवागपि रामकार्यसूचकत्वान्मधुरवाकू ॥ २४ ॥ इतित्रिष- ष्टितमः सर्गः ॥ ६३ ॥ [पा०] १ क. वनपोराजन्वानरः २ ङ. झ. ट. मकृतकार्याणां. ३ ङ. झ. ट. स्याव्यतिक्रमः . ४ च. ज. आत्मेच्छातः प्रहृष्टैश्चहतंमधुवनं. ५ झ. यदभिपन्नाः ६ ङ. झ. ट. तद्भुवं. ७ इदमर्धत्रयं ख. ग. ङ च छ. झ. ञ. ट. पाठेषुदृश्यते. ८ ङ. झ. ट. कार्यसिद्धिर्हनुमति. ख. ग. घ. हनूमतःकार्यसिद्धिर्मतिश्च हरिपुङ्गवे. क. यदतः कार्यसंसिद्धिः ९ क. च. छ. ज. ज. वीर्यचसूर्ये तेजइवध्रुवं. १० क. स्यायुवराजस्तथाङ्गदः ११ ङ. - ट. नतत्र. क. ग. नास्य. १२ ख. घ. च. छ. ज. वारितास्सहिताः पा लास्तथा. ञ. पातिताः सहिताः पालास्तथा. क. वानरास्तुहताः पालास्तथा. ङ. झ ट पातितावनपालास्तेतथा १३ क. ङ. - द. येथा. १४ घ. विश्रान्ताः क. विश्रुताः प्लवगर्षभाः १५ घ. एतन्मधुवनंदिव्यं १६ क. ख. घ. ङ. च. ज. – ट. महायशाः.