पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० श्रीमद्वाल्मीकिरामायणम् । [सुन्दरकाण्डम् ५ स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् || सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥४०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ त्रिषष्टितमः सर्गः ॥ ६३ ॥ दधिमुखे सुप्रीधे मधुवनवृत्तान्तंनिवेदयति लक्ष्मणेन सुग्रीवंप्रति दधिमुखवचनार्थप्रश्नः ॥ १ ॥ सुप्रीवेणलक्ष्मणप्रति तनिवेदन पूर्वकं मधुवनधर्षणहेतुनासीता दर्शन निर्धारणोक्तिः ॥ २ ॥ तथा दधिमुखसमाश्वासनपूर्वकंतंप्रत्यङ्गदादीनांशीघ्र- प्रेषणचोदना ॥ ३ ॥ ततो मूर्ध्ना निपतितं वानरं वानरर्षभः || दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ १ ॥ उत्तिष्ठोत्तिष्ठ कमान्त्वं पादयोः पतितो मम || अभयं ते भवेद्वीर सँर्वमेवाभिधीयताम् ॥ २ ॥ [ किं संभ्रमाद्धितं कृत्स्नं ब्रूहि यद्वक्तुमर्हसि ॥ कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ॥ ३ ॥ ] से तु विश्वासितस्तेन सुग्रीवेण महात्मना ॥ उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥ ४ ॥ नैवर्क्षरजसा राजन्न त्वया नापि वालिना ॥ वनं निसृष्टपूर्वी हि भक्षितं तच्च वानरैः ॥ ५ ॥ [ न्यवारयमहं सर्वान्सहैभिर्वनचारिभिः ॥ अचिन्तयित्वा मां हृष्टा भक्षयन्ति पिबन्ति च ॥ ६ ॥ ] एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ॥ मंधून्य चिन्तयित्वेमान्भक्षयन्ति पिबन्ति च ॥ ७॥ शिष्टमत्रापविध्यन्ति भक्षयन्ति तथा परे ॥ निवार्यमाणास्ते सर्वे ध्रुवो वै दर्शयन्ति हि ॥ ८ ॥ इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ॥ वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुङ्गवैः ॥ ९॥ ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभ ॥ संरक्तनयनैः क्रोधाद्धरयः प्रवि॑िचालिताः ॥ १० ॥ जगतीं भूमिं ॥ ३८–४० ॥ इति श्रीगोविन्दराज - | अन्यथा सुग्रीववाक्ये अंङ्गदानुवादविरोधात् । भक्षि- विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने तमिति वनैकदेशमधुपटलविषयं ।। ५-६ ।। अचि- सुन्दरकाण्डव्याख्याने द्विषष्टितमः सर्गः || ६२ ॥ |न्तयित्वा अगणयित्वा । मधूनीति फलानामुपलक्षणं । भक्षयन्ति पिबन्ति चेत्युक्तेः । यद्वा मधून्येव भक्ष- यन्ति भक्षवत्कुर्वन्तीत्यर्थः ॥ ७ ॥ शिष्टं अवशिष्टं मधुपटलं । अत्र मधुवने । अपविध्यन्ति ध्वंसयन्ति । भक्षयन्ति मधुपटलमित्यर्थः ॥ ८ ॥ हिशब्दः पादपू- उद्विग्रहृदयः भीतहृदयः । मातुलस्यापि पादपतनं स्वामित्वानुसारेण ॥ १४ ॥ न निसृष्टपूर्व यथे- च्छभोगाय न दत्तपूर्वं । वानरैः अङ्गदप्रमुखैः । ति० तौ सर्ववानरपूज्यौ चरणावित्यन्वयः ॥ ४० ॥ इतिद्विषष्टितमः सर्गः ॥ ६२ ॥ स० अभयंप्रदास्यामि प्रमादादपराधेप्रसक्तेपीतिशेषः ॥ २ ॥ स० संभ्रमाटिंक किंप्रंयोजनं । यद्वक्तुमर्हसितब्रूहि । कस्मात्सं- भ्रमः किंसंभ्रमस्तस्मात् । इदं पादयोः पतनं । यतस्त्वंअर्हसि योग्योसि । अर्ह्यतइत्यर्हः सइवाचरतीतिव्युत्पत्त्या पूज्योसी- त्यर्थइतिवा ॥ ३ ॥ शि० समहाप्राज्ञः महाप्राज्ञासहितः । प्राज्ञाशब्दः स्वार्थिकाणन्तः | डीबभावस्त्वजादित्वात् ॥ ४ ॥ ति० एभिः हनुमदाद्यैः प्रघर्षणायामारब्धायां वनपालकैर्वारितं । ममापि । अपिनाइतरान्पालकानचिन्तयन् अचिन्तयन्तः [ पा० ] १ ख. ङ. झ. ट. सुग्रीवस्याझुतौ २ ग. ङ. झ ट प्रदास्यामि ३ ख. – ङ. ज झ ञ. सत्यमेवा. ४ अयं- श्लोकः ङ. च. ज. – ट. पाठेषुदृश्यते. ५ ङ. झ. ट. ससमाश्वासितः ६ घ. सहसाप्राज्ञो. क. ख. ङ. च. ज. झ. ट. समहा- प्राज्ञो. ७ ख. ङ, च. ज. झ ट निसृष्टपूर्वनाशितंतत्तु. क. निसृष्टपूर्वहि मथितंतत्तु. ८ अयं श्लोकः घ. ङ. च. ज. ट. पाठेषुदृश्यते. ९ झ. प्रधर्षणायांचवारितंवनपालकैः. ङ. च. ज. ञ. ट. प्रवृष्यमाणाञ्चवारिताः• १० ङ. झ. मामप्यचिन्तय- न्देवभक्षयन्तिवनौकसः. ट. मामप्यचिन्तयित्वाते. च. मधून्यचिन्तयित्वाते. ११ च. ज. – ट. भ्रुकुटिंदर्शयन्तिहि १२ छ. ज. ञ संरब्धनयनैः क्रूरैरस्मदीयाः प्रघर्षिताः १३ झ. ट. संप्रधर्षिताः.