पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१९ इहागच्छत गच्छामो वानरान्बलदर्पितान् || बलेन वारयिष्यामो मधु भक्षयतो वयम् ॥ १८ ॥ श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ॥ पुनर्वीरा मधुवनं तेनैव सहसा ययुः ॥ १९ ॥ मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् || समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः २०॥ ते शिलाः पादपांश्चापि पँर्वतांश्चापि वानराः ॥ गृहीत्वाभ्यगमन्क्रुद्धा यत्र ते कपिकुञ्जराः ॥२१॥ ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् || त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥ २२ ॥ • वृक्षस्थांश्च तलस्थांच वानरान्बलदर्पितान् || अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ॥ २३ ॥ [ बैलान्निवारयन्तश्च आसेदुर्हरयो हरीन् || संदष्टोष्ठपुटक्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ॥ २४ ॥ ] अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः ॥ अभ्यधावन्त वेगेन हनुमत्प्रमुखांस्तदा ॥ २५ ॥ "तं सवृक्षं महाबाहुमापतन्तं महाबलम् || आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोङ्गदः ॥ २६ ॥ मैदान्धश्च न वेदैनमार्यकोयं ममेति सः ॥ अथैनं निष्पिपेषाशु वेगँवद्वसुधातले ॥ २७ ॥ र्से भग्नबाहूरुभुजो विद्दलः शोणितोक्षितः ॥ मोह सहसा वीरो मुहूर्त कपिकुञ्जरः ॥ २८ ॥ स समाश्वस्य सहसा संक्रुद्धो राजमातुलः || वानरान्वारयामास दण्डेन मधुमोहितान् ॥ २९ ॥ स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ॥ उवाचैकान्तमश्रित्य भृत्यान्स्वान्समुपागतान् ॥ ३० ॥ 'ऍते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ॥ सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ ३१ ॥ सर्व चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे || अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥ ३२ ॥ इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः || पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥ ३३ ॥ स वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः ॥ घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥ ३४ ॥ वध्या ह्येते दुरात्मानो नृपाज्ञोपरिभाविनः ॥ अमर्षप्रभवो रोषः सफलो नो भविष्यति ॥ ३५ ॥ एवमुक्त्वा दधिमुखो वनपालान्महाबलः ॥ जगाम संहसोत्पत्य वनपालैः समन्वितः ॥ ३६ ॥ निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ॥ सहस्रांशुतो धीमान्सुग्रीवो यत्र वानरः ॥ ३७ ॥ रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ॥ समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ ३८ ॥ सैन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः || हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥ ३९ ॥ गच्छाम इति तैः साहित्येन बहुवचनं । आत्मनि बहु- | च यो यस्मै न सहते तस्मै क्रुध्यतीति प्रसिद्धं ॥३५- वचनं वा ॥ १८-३३ ॥ गतायुष इत्यधिक्षेपवचनं ३६ ॥ निमेषान्तरमात्रेण निमेषावकाशमात्रेण । ||३४|| अमर्षप्रभवः अक्षमाजन्यः । रोषस्य तजन्यत्वं | वनालयः वानरः ॥ ३७ ॥ समप्रतिष्ठां समतलां | ति० एतागच्छत अग्रेइतिशेषः । गच्छामः । वयमप्यागच्छामइत्यर्थः ॥ १८ ॥ ति० आर्यक : सुग्रीवमातुलवात्पूज्यः ॥ २६ ॥ [ पा० ] १ ङ. झ. ट. एतागच्छत. २ ङ. ज. - ट. वानरानतिदर्पितान्. ३ ङ. झ. ट. प्रभुञ्जानान्मधूत्तमं. ४ ङ. च. झ ञ ट सहिताः ५ छ. ञ. सुमहातरुं. ६ ङ. झ. ट. पाषाणानपि. ७ अयंश्लोकः ङ. झ ट पाठेषुदृश्यते. ८ ख. ग. च. ज. संक्रुद्धाहनु. ९ ख. ग. च. ज. स्वतः १० ङ. झ. ट. सवृक्षंतं. ११ ङ. झ. ट. वेगवन्तं विजग्राहबाहुभ्यां. १२ ङ. झ. ट. मदान्धोनकृपांचक्रेआर्यकोयं. १३ ङ. झ. ट. वेगेनवसुधातले. १४ ङ. झ. ट. सभमबाहूरुमुखो. ग भग्नबाहुश्चविमुखो. ख. च. ज. ज. सभनबाहुर्विमुखो. १५ ङ. झ. ट . प्रमुमोहमहावीरो. च. ज. मुमोहसमहावीर्यो १६ ङ. झट. मागत्य ख. ज ञ मागम्य. १८ घ. ङ. च. ज.-ट. परिपन्थिनः १७ ग. झ. एतागच्छत. क. इहागच्छत. १९ ख. सहसोपेत्य २० ख. ग. सुतः श्रीमानू. २१ झ ञ संनिपत्य. २२ ख. ङ. झ. ट. महावीरः