पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ पूजयित्वाऽङ्गदं सर्वे वानरा वानरर्षभम् ॥ जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् ॥ ५ ॥ ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ॥ अंतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ॥ पपुः सर्वे मधु तदा रसवत्फलमाददुः ॥ ६ ॥ २१८ उत्पत्य च ततः सर्वे वनपालान्समागतान् || तार्डेयन्ति स शतशः सक्तान्मधुवने तदा ॥ ७ ॥ मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते || पिवॅन्ति सहिताः सर्वे निम्नन्ति स्म तथा परे ॥ ८ ॥ केचित्पीत्वाऽपविध्यन्ति मधूनि मधुपिङ्गलाः ॥ मधूच्छिष्टेन केचिच जघ्नुरन्योन्यमुत्कटाः ॥ ९ ॥ अपरे वृक्षमूले तु शाँखां गृह्य व्यवस्थिताः ॥ अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ १० ॥ उन्मत्तभूताः प्लवगा मधुमत्ताच हृष्टवत् || क्षिपन्ति च तदाऽन्योन्यं स्खेलन्ति च तथापरे ॥ ११ ॥ केचित्क्ष्वेलां प्रकुर्वन्ति केचित्कूजन्ति हृष्टवत् || हरयो मधुना मत्ताः केचित्सुप्ता महीतले ॥ १२ ॥ कृत्वा केचिद्धसन्त्यन्ये केचित्कुर्वन्ति चेतरत् ॥ कृत्वा केचिद्वदन्त्यन्ये केचिद्दुध्यन्ति चेतरत् ॥ १३ ॥ येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ॥ तेपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ॥ १४ ॥ जानुभिस्तु प्रकृष्टाश्च देवैमार्ग प्रदर्शिताः ॥ अब्रुवन्परमोद्विना गत्वा दधिमुखं वचः ॥ १५ ॥ हनूमता दत्तवरैर्हतं मधुवनं बलात् || वयं च जानुभिः कृष्टा देवमार्गे च दर्शिताः ॥ १६ ॥ ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ॥ हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन् ॥ १७ ॥ हनुमदुक्तं श्रुत्वा ॥ ४ ॥ जग्मुर्मधुवनमिति प्रदेशभे- | पातयन्ति । स्खलन्ति पादेन नुदन्तीत्यर्थः ॥ ११ ॥ दविवक्षया । यद्वा दधिमुखनिवारणेन भीतानां क्ष्वेलां सिंहनादं । " क्ष्वेला तु सिंहनादः स्यात् " हनुमदङ्गदाभ्यां पुनरनुज्ञापनेन पुनर्जग्मुरित्यर्थः इत्यमरः । कूजन्ति पक्षिवच्छब्दायन्ते ॥ १२ ॥ ॥ ५ ॥ वीर्यतः बलात् । अतिसर्गात् अङ्गदाभ्यनु - ज्ञानात् । दृष्ट्वा श्रुत्वा च मैथिलीं दर्शनश्रवणाभ्यां च हेतुना | वनपालानाक्रम्य आक्षिप्य ॥ ६ ॥ सक्तान् वनपालने रतान् ॥७॥ मधूनि मधुपटलानि | द्रोणमात्राणि द्रोणप्रमाणानि आढकप्रमाणानि । प्रतिस्म पीतावशिष्टानि मधुपटलानि भिन्दन्तिस्म अन्ये अवाच्यं किंचिद्राम्यं कर्म कृत्वा हसन्ति । इतरत्तद्विलक्षणं ग्राम्यं कर्म केचित्कुर्वन्ति । केचिद- न्यद्राम्यं कर्म कृत्वा अस्माभिरिदं कृतमिति वदन्ति उच्चारयन्ति । केचिदितरहुध्यन्ति एवं करिष्यामीति संकल्पयन्तीत्यर्थः ॥ १३–१४ ॥ जानुभिः प्रकृष्टाः । जानून्यवलम्ब्य कृष्टा इत्यर्थ: । देवमार्ग अपानद्वारं | । ॥ ८॥ अपविध्यन्ति अवक्षिपन्ति । मधूच्छिष्टेन देवशब्दो वायुवाची । उपनिषदि वायुलोके देवलोक- सिक्थकेन । “ मधूच्छिष्टं तु सिक्थकं " इत्यमरः । शब्दप्रयोगात् । दर्शिताः दर्शनं कारिता: । दृशेरुप- उत्कटाः मत्ताः ॥ ९-१० ।। हृष्टवत् हर्षयुक्तमिति संख्यानादणि कर्तुः कर्मत्वं । " ण्यन्तात्कर्तुश्च क्रियाविशेषणं । हृष्टार्हमितिवार्थ: । क्षिपन्ति उत्क्षिप्य कर्मण: " इति तस्यैवाभिधेयत्वं च ॥ १५ – १७॥ ति० अतिसर्गात् अङ्गदानुज्ञानात्मधु पपुः रसवत्फलंचाददुः भक्षणार्थमितिशेषः ॥ ६ ॥ स० मधूनिपीत्वा अपविध्यन्ति तत्करण्डमितिशेषः ॥ ९ ॥ स० इतरत् अप्रदर्शनीयावयवप्रदर्शनादि ॥ १३ ॥ ति० जानुभिःप्रघृष्टाः जानुषुगृहीत्वाआकृष्टाः । देवमार्गदर्शिताः पादौगृहीत्वोर्ध्वप्रक्षिप्ताइत्यर्थः । कर्णावङ्गुलिभिर्वृत्वोवकृताइतिवार्थ इत्यन्ये ॥ स० जानुभिश्चप्रष्टृष्टाः पश्चात्ता- डिताःसन्तोदेवमार्गसुरवर्त्मदर्शिताः पश्चाज्जानुसंताडनेमुखोवी॑भवने नाकाशावलोकनस्यजायमानत्वादेवमुक्तिः । पायुद्वारंवा । कपीनांहेलनसमयेगुदप्रदर्शनस्यभागवतदशमोत्तरार्धेबलरामद्विविदप्रस्तावेअन्यत्रापिबहुशोदृष्टत्वात् ॥ १५ ॥ [ पा० ] १ ख. ग. ङ. झ. नदीवेगइवद्रुमं. २ ङ. झ ट शक्तितः. ३ ज. अतिगर्वाच. ग. तेनिसर्गाच्च. घ. निसर्गाच्चापि. ख. निसर्गाच्चापिहरयो ४ ग. ङ. झ ट तेताडयन्तःशतशः ५ पिबन्तिसहिता इत्यर्धस्यस्थाने क. – ट. पाठेषु. पिबन्तिकपयः केचित्संघशस्तत्रहृष्टवत् । घ्नन्तिस्मसहिताः सर्वेभक्षयन्तितथापरे । इत्येकः श्लोकोदृश्यते. मूलेषु. ७ ङ. च. ज. – ट. शाखागृह्य. ८ ङ. झ ञ ट उन्मत्तवेगा: ९ ख. हसन्तिच. ११ ग॰ ङ. झ. ट, जानुभिश्चप्रघृष्टाश्च १२ क. ग. च. ज. – ट. देवमार्गेचदर्शिताः १३ ङ. झ. ट. जानुभिर्घृष्टाः ६ ग. घ. ड. ज. ट. १० झ ञ ट . धृष्टाः केचित्.