पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । समाकुलं तत्कपिसैन्यमासीन्मधुम्रपानोत्कटसचचेष्टम् || न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ॥ २० ॥ ततो वनं तंत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ॥ समीक्ष्य को पादधिवक्रनामा निवारयामास कपिः कपींस्तान् ॥ २१ ॥ स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ॥ चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥ २२ ॥ उवाच कांचित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान ॥ समेत्य कैश्चित्कलहं चकार तथैव सानोपजगाम कांचित् ॥ २३ ॥ स वैर्मदौत्सं परिवार्य वाक्यैर्वलाच तेन प्रतिवार्यमाणैः ॥ प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ २४ ॥ नखैस्तुदन्तो दशनैर्दशन्तस्तलैच पादैश्च समापयन्तः || मदात्कर्पि तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥ द्विषष्टितमः सर्गः ॥ ६२ ॥ हनुमतादधिमुखप्रतिषिद्धवानरान्प्रति प्रतिषेधकप्रतिषेधनप्रतिज्ञानपूर्वकं निश्शङ्कमधुपाननियोगे पुनर्वानरैः सवनक्षोभं यथारुचि मधुपानादिषुप्रवर्तनम् ॥ १ ॥ वानरैमँधुपानजमदपरवशतयोन्मत्तवन्नृत्तादिनानाचेष्टाविष्करणम् ॥ २ ॥ वानरै- 1/ स्ताडनादिनापीडितैर्व नपालैर्दधिमुखे तन्निवेदने तेनतैस्सह वानरान्प्रत्यायोधनम् ॥ ३ ॥ अङ्गदेन दधिमुख भू निष्पेषणं ॥ ४ ॥ दधिमुखेन वनपालैः सह सुग्रीचे मधुवनधर्षणादिनिवेदनाय किष्किन्धामेत्य रामादिसंनिधौ सुग्रीवचरण- योःप्रणामः ॥ ५ ॥ तानुवाच हरिश्रेष्ठो हनुमान्वानरर्षभः || अव्यग्रमनसो यूयं मधु सेवत वानराः || अहमावारयिष्यामि युष्माकं परिपन्थिनः ॥ १ ॥ २१७ श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः ॥ प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ॥ २ ॥ अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ॥ अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ॥ ३ ॥ अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः || साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ॥ ४ ॥ मधुप्रपानोत्कटसत्त्वचेष्टं मत्तचित्तचेष्टं ॥ २० - २४॥ तान् दधिमुखकलहव्याकुलितान् । अन्ये तु निर्विषयं निर्गतमधुमूलादिभोग्यवस्तुकं । चक्रुरित्यर्थः तानुवाचेत्यादिना पूर्वसर्गोक्तं संक्षेपेणानूद्य उपरि ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- गच्छतीत्याचक्षते । अपरे सर्गमुखे केचिच्छ्लोकाः णभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पतिता इत्याहुः ॥ १-२ ॥ अङ्गेति संबोधने एकषष्टितमः सर्गः ॥ ६१ ॥ निपातः ॥ ३ ॥ अङ्गदस्य स्वामिनः मुखाद्वचनं । स्वतःप्रबलानङ्गदादीन् साम्नाजगाम ॥ २३ ॥ ति० समाप- ततोप्यधमान्कांश्चित् तलैः करचरणतलैः । खसमैः कलहंचकार यन्तः मृतकल्पं कुर्वन्तः ॥ २५ ॥ इत्येकषष्टितमः सर्गः ॥ ६१ ॥ [ पा० ] १ क. घ. तैः परिभक्ष्यमाणं. २ झ. ट. परुषाण्यभीतं. ३ घ. झ ञ ट . र्मदादप्रतिवार्यवेगैः क, च. छ. ज. र्मदाच्चाप्रतिवार्यवेगैः ४ झ ट तेकपयः ५ झ ट समन्तान्महावनं. क. ग. घ. समभाबलादूनं. ख. समग्रामघोर्वनं. वा. रा. १७६