पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ॥ अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ॥ २७ ॥ तदेकवासस्संवीता रजोध्वस्ता तथैव च ॥ शोकसंतापदीनाङ्गी सीता भर्तृहिते रता ॥ २८ ॥ सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ॥ २९ ॥ एकवेणीघरा दीना भर्तृचिन्तापरायणा || अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ ३० ॥ रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया || कथंचिन्मृगशाबाक्षी विश्वासमुपपादिता ॥ ३१ ॥ ततः संभाषिता चैव सर्वमर्थं च दर्शिता || रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ ३२ ॥ नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा || यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ॥ निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ॥ ३३ ॥ सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता || प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥ ३४ ॥ एवमास्ते महाभागा सीता शोकपरायणा || यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनषष्टितमस्सर्गः ॥ ५९ ॥ षंष्टितमः सर्गः ॥ ६० ॥ अङ्गदेनापि स्वस्वीयपराक्रमप्रशंसनेन रावणादिरक्षःक्षपणपूर्वकं सीतासमानयनस्य कर्तव्यत्वोक्तौ जांबवता सयुक्त्युपन्या सं तत्प्रतिषेधनं ॥ १ ॥ तस्य तद्वचनं श्रुत्वा वालिनुरभाषत ॥ १ ॥ [ अहमेकोपि पर्याप्तः सराक्षसगणां पुरीम् ॥ तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥ २ ॥ पौलोमीव पुरन्दर इति । नहुषनिर्बन्ध इतिभाव: | रामस्तु राम एव निमित्तमात्रं भविष्यति । तथा ॥ २७–२८ ॥ प्रमदावने अशोकवनिकायां ॥ २९ तस्योत्कर्षात् । सीता तु निमित्तकारणमिति शेषः । - ३०॥ विनिवृत्तार्था त्यक्तप्रयोजना | रावणप्रलोभ- भत्रैव वैरनिर्यातनं वीरपत्नीधर्म: अन्यथा भर्तुर्महल्ला- नवाक्यैरवशीकृतेत्यर्थः ॥ ३१ ॥ सर्वमर्थ रामोद्यो- घवमिति मनीषया नस्वयं हन्ति नत्वसामर्थ्यादिति गादिकं । दर्शिता बोधिता ॥ ३२ ॥ नियत इति ॥ भावः ।। ३३ – ३४ ।। फलितमुपसंहरति — एवमिति ॥ समुदाचार: चारित्रमिति यावत् । नन्वेवँमाहात्म्या | उपपद्यतां अनुष्ठीयतां ॥ ३५ ॥ इति श्रीगोविन्दराज - सीता स्वयमेव रावणं किमिति न हन्तीत्याशङ्ख्याह विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने - यन्त्र हन्तीति || दशग्रीवं न हन्तीतियत् तत्र सुन्दरकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९॥ कारणं स दशाननः महात्मा महानुभावः । शापनि- बन्धन दुर्मरणाभावादिति भावः । अतस्तस्य वधे तस्येत्यादि ॥ १-३॥ वानरा इति संबोधनं ति० रामेण रामप्रीत्या ॥ २७ ॥ शि० प्रमदानामवनंअतिरक्षायस्मिन् । पुरुषागम्येत्यर्थः ॥ २९ ॥ स० दशग्रीवं नहन्तियस्मात्स महात्मा । अनेन सीता रामकीर्यैरावणवधमुदास्ते इत्युक्तंभवति ॥ ३३ ॥ इत्येकोनषष्टितमः सर्गः ॥ ५९ ॥ [ पा० ] १ झ. रामे. २ झ. अनन्यचिन्तारामेण. ३ ग. ङ. च. ज. – ट. हिमोदये. ४ ङ. झ ट प्रकाशिता. ग. चदर्शितं..च. ज. ञ. प्रदर्शिता. ५ग. प्रमुदिताभृशं. ६ ङ. च. ज. – ट. मुपकल्प्यतां. ७ ग. ततस्तद्वचनं श्रुत्वा एतदर्धानन्तरं झ. पाठे. अश्विपुत्रौमहावेगौबलवन्तौप्लवङ्गमौ । पितामहवरोत्सेकात्परमंदर्पमास्थितौ । अश्विनोर्माननार्थेहिसर्वलोकपितामहः । सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा | वरोत्सेकेनमत्तौचप्रमथ्यमहतींचमूम् । सुराणाममृतंवीरौपीतवन्तौमहाबलौ । एतावेवहिसं- क्रुद्धौसवाजिरथकुञ्जराम् । लङ्कांनाशयितुंशक्तौसर्वेतिष्ठन्तुवानराः । इतिचत्वारः श्लोकाअधिकादृश्यन्ते । एतएवश्लोकाः अस्मदीयपुस्त- केएकोनषष्टितमेऽध्यायेहनुमद्वाक्ये षोडशश्लोकानन्तरंदृश्यमानत्वात् अत्रनास्माभिर्मुद्रिताः• ८ एतदर्धपञ्चकं झ. पाठेदृश्यते,