पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । किंपुनः सहितैर्वीरैर्बलवद्भिः कृतात्मभिः ॥ कृतास्त्रैः वगैः शक्तैर्भवद्भिर्विजयैषिभिः ॥ वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम् ॥ ३ ॥ ] अयुक्तं तु विना देवीं दृष्टवद्भिव वानराः ॥ समीपं गन्तुमसाभी राघवस्य महात्मनः ॥ ४ ॥ दृष्टा देवी न चानीता इति तत्र निवेदनम् || अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ॥ ५ ॥ न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ॥ तुल्य: सामरदैत्येषु लोकेषु हरिसत्तमाः ॥ ६ ॥ [र्जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे ॥ सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः ॥७॥] तेष्वेवं हेतवीरेषु राक्षसेषु हनूमता || किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥ ८ ॥ [ रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम् ॥ किं व्यलीकैस्तु तान्सर्वान्वानरान्वानरर्षभान्॥९॥] वयमेव हि गत्वा तान्हत्वा राक्षसपुङ्गवान् ॥ राघवं द्रष्टुमर्हाम: सुग्रीवं सहलक्ष्मणम् ॥ १० ॥ ] तमेवं कृतसंकल्पं जाम्बवान्हरिसत्तमः || उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥ ११ ॥ [नैषा बुद्धिर्महाबुद्धे यद्रवीषि महाकपे | विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम् ॥ १२ ॥ नानेतुं कपिराजेन नैव रामेण धीमता || कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत् ॥ १३ ॥ राघवो नृपशार्दूल: कुलं व्यपदिशन्स्वकम् || प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः ॥ सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति ॥ १४ ॥ विफलं कर्म च कृतं भवेत्तुष्टिर्न तस्य च ॥ वृथा च दर्शितं वीर्य भवेद्वानरपुङ्गवः ॥ १५ ॥ तस्माद्गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः ॥ सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने ॥ १६ ॥ ] न तावदेषा मतिरक्षमा नो यथा भवान्पश्यति राजपुत्र || यथा तु रामस्य मतिर्निविष्टा तथा भवान्पश्यतु कार्यसिद्धिम् ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्टितमः सर्गः ॥ ६० ॥ २१५ एकषष्टितमः सर्गः ॥ ६१ ॥ महेन्द्रपर्वतात्किष्किन्धागमनाय गगनमुत्पतितैरङ्गदादिभिः मध्ये मार्गदधिमुखरक्षितेसुग्रीवस्य प्रियतमेमधुवनेऽवतरण- म् ॥ १ ॥ सर्ववानरैरङ्गदानुज्ञया यथेच्छं मधुफलोपभोगे वृक्षक्षोभमधुकल विध्वंसन रुष्टेनदधिमुखेन बलात्प्रतिषेधने तैर्न- खंदशनादिभिस्तत्परिपीडनं ॥ २ ॥ ततो जाम्बवतो वाक्यमगृहन्त वनौकसः || अङ्गदप्रमुखा वीरा हनुमांच महाकपिः ॥ १ ॥ प्रीतिमन्तस्ततः सर्वे वायुपुत्र पुरस्सराः || महेन्द्राद्रि परित्यज्य पुष्टुवुः प्लवगर्षभाः ॥ २ ॥ ।। ४–१६ ।। अथ जाम्बवानङ्गदवाक्यं बहु मन्यमान - | शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्टि- स्सुहृद्भावेन प्रतिषेधति – नतावदिति ॥ अक्षमा अयुक्ता | तमः सर्गः ॥ ६० ॥ न किन्तु युक्तैवेत्यर्थः । यद्यपिसम्यगुतं समापि रामाज्ञानुसारेण कर्तव्यं न स्वातंत्र्येणेत्यर्थः ॥ १७ ॥ सभाज्यमानं संपूज्यमानं | वहन्त इव दृष्टिभि- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रिति । प्रीतिपूर्वकानिमिषदर्शनादृष्टिष्वारोप्य नयन्त ति० अगृहन्त युक्तियुक्तत्वेनामन्यन्त ॥ १ ॥ स० प्रीतिमन्तः हर्षयुक्ताः | नागमनकाल इवचिन्तायुक्त इत्यर्थः । पुवुः [ पा० ] १ झ. निवेदितुं. २ झ ख्यातपौरुषैः. ३ झ. वःप्लवने ४ अयं लोकः झ. पाठेदृश्यते. ५ झ. हतशेषेषु. ६ इदं श्लोकद्वयं झ. पाठेदृश्यते. ७ एतेश्लोकाः झ. पाठेदृश्यन्ते. ८ ङ. ट. महेन्द्राप्रात्समुत्पत्य.