पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाहरीन् || अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ॥ न्याय्यं स सह वैदेद्या द्रष्टुं तौ पार्थिवात्मजौ ॥ ५॥ अहमेकोपि पर्याप्तः सराक्षसगणां पुरीम् ॥ तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥ ६ ॥ किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ॥ कृतास्त्रैः वगैः शेरैर्भवद्भिर्विजयैषिभिः ॥ ७ ॥ अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् || सहपुत्रं वधिष्यामि सहोदरयुतं युधि ॥ ८ ॥ ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ॥ यदि शक्रजितोत्राणि दुर्निरीक्षाणि संयुगे ॥ ९ ॥ तान्यहं विघमिष्यामि निहनिष्यामि राक्षसान् ॥ भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ॥१०॥ मयाऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा || देवानपि रणे हन्यार्तिक पुनस्तान्निशाचरान् || [ भवतामननुज्ञातो विक्रमो मे रुणद्धि माम् ] ॥ ११ ॥ श्र सागरोप्यतियाद्वेलां मन्दर: प्रचलेदपि ॥ न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ॥ १२ ॥ सर्वराक्षसङ्घानां राक्षसा ये च पूर्वकाः ॥ अलमेको विनाशाय वीरो वालिसुतः कपिः ॥ १३ ॥ पर्नसस्योरूवेगेन नीलस्य च महात्मनः ॥ मन्दरोग्यवशीर्येत किं पुनधि राक्षसाः ॥ १४ ॥ सदेवासुरयक्षेषु गन्धर्वोरगपंक्षिषु ॥ मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥ १५ ॥ अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ॥ एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ॥ १६ ॥ पितामहवरोत्सेकात्परमं दर्पमास्थितौ ॥ अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ॥ १७ ॥ अश्विनोर्माननार्थी हि सर्वलोकपितामहः ॥ सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा ॥ १८ ॥ वरोत्सेकेन मुँक्तौ च प्रमथ्य महतीं चमूम् || सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥ १९ ॥ एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् || लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ॥ २० ॥ मयैव निहता लङ्का दग्धा भस्मीकृता पुनः ॥ राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥ २१ ॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ॥ राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ २२ ॥ अहं कोसलराजस्य दासः पवनसंभवः || हनुमानिति सर्वत्र नाम विश्रावितं मया ॥ २३ अशोकवनिकामध्ये रावणस्य दुरात्मनः ॥ अधस्ताच्छिशुपावृक्षे साध्वी करुणमास्थिता ॥ २४ ॥ राक्षसीभिः परिवृता शोकसंतापकर्शिता || मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ॥ २५ ॥ अचिन्तयन्ती वैदेही रावणं बलदर्पितम् || पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥ २६ ॥ तेजसा " इति ॥ ४ ॥ एवं स्थिते युष्मदनुमत्या भृत्य | पूर्वका : तेषामितिशेषः ॥ १३-२० ॥ दुग्धत्वेप्य- विजयोपि स्वामिन एवेति कृत्वा सीतारामपदावल- ङ्गारावस्था भवति सापि नास्तीत्याह – भस्मीकृतेति म्वादहमेव रावणं निर्जित्य सीतापुरस्कारेणैव राघवौ | ॥ २१ ॥ नामविश्रावणमेवाह - जयतीति ॥ जय द्रक्ष्यामीत्याह – जाम्बवदिति ॥ ५ ॥ न चाशक्ति - सर्वोत्कर्षेण वर्तते । तदुक्तं हरिणा - " जयिर्जया- शङ्का कार्येति बहुधा प्रपञ्चयन्नाह - अहमित्यादिना भिभवयोराद्येर्थेसावकर्मकः । उत्कर्षप्राप्तिराद्यार्थी ॥ ६–९ ॥ अभ्यनुज्ञातः अभ्यनुज्ञानात् । पञ्च- द्वितीयेर्थे सकर्मक: " इति ॥ २२ – २३ ॥ अथ म्यास्तसिः । मे विक्रमः तं रावणं रुणद्धि हन्तीत्यर्थ: सीतादुर्दशाविमर्शेपि संप्रत्यसौ समानेतव्येत्य ।। १०-११ ।। अतियात् आर्ष इस्वत्वं ॥ १२ ॥ तद्दशां दर्शयति — अशोकेत्यादिना ॥ २४–२६ ॥ २१३ भावः । अक्रुद्धायाअपिस्पर्शमात्रेण प्राप्तोनाशस्तु रावणतपसानिवारितइतिज्ञेयं ॥ ४ ॥ ति० कृतास्त्रैः देवांशत्वादस्त्र प्रयोगसमर्थैः ॥ ७ ॥ स० युद्धेरावणं युद्धेलोकरावणं ॥ ८ ॥ [ पा० ] १ क. ग. ङ. च. झ. न. ट. शतैः २ ङ. झ ट . पाठेष्विदमर्धेदृश्यते . ३ क. तेषांवालिसुतः ४ झ. ट. प्लव- मस्योरुवेगेन. ५ ग. ङ, झ. ट. महावेगौ च छ ज ञ, महावीययौतौ ६ क. मत्तौच. ग. मत्तौतौ. ७ ङ. — पुरी,