पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो || मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ १३२ ॥ रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् || सोहं दूत्येन रामस्थ त्वत्सकाशमिहागतः ।। १३३ ।। [शृणु चापि समादेशं यदहं प्रब्रवीमि ते ॥ राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् ||१३४॥ ] सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ॥ धर्मार्थकामसहितं हितं पथ्यमुवाच च ॥ १३५ ॥ वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे || राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥ १३६ ॥ तेन मे कथितं राज्ञा भार्या मे रक्षसा हता ॥ तत्र साहाय्यमस्माकं कार्ये सर्वात्मना त्वया ॥ १३७|| मया च कथितं तस्मै वालिनश्च वधं प्रति ॥ तत्र साहाय्यतो समयं कर्तुमर्हसि ॥ १३८ । वालिना हृतराज्येन सुग्रीवेण महाप्रभुः || चक्रेग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ॥ १३९ ॥ तेनं वालिनत्पाट्य शरेणैकेन संयुगे || वानराणां महाराजः कृतः स प्लवतां प्रभुः ॥ १४० ॥ तस्य साहाय्यम स्माभिः कार्य सर्वात्मना त्विह ॥ तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ॥१४१॥ क्षिप्रमानीयतां सीता दीयतां रौघवाय च ॥ यावन हरयो वीरा विधमन्ति बलं तव ।। १४२ ॥ वानराणां प्रभावो हि न केन विदितः पुरा ॥ देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ||१४३॥ इति वानरराजस्त्वामाहेत्यभिहितो मया ॥ मामैक्षत तैंतः क्रुद्धचक्षुषा प्रदहन्निव ॥ १४४ ॥ तेन वध्योऽहमाज्ञतो रक्षसा रौद्रकर्मणा || मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ १४५ ॥ ततो विभीषणो नाम तस्य आता महामतिः ॥ तेन राँक्षसराजोसौ याचितो मम कारणात् ||१४६ || नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः || राजशास्त्रव्यपेतो हि मार्ग : संसेव्यते त्वया || १४७ ॥ दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस || दूतेन वेदितव्यं च यथार्थ हितवादिना ॥ १४८ ॥ सुमहत्यपराधेपि दूतस्यातुलविक्रम || विरूपकरणं दृष्टं न वधोस्तीति शास्त्रतः ॥ १४९ ॥ विभीषणेनैवमुक्तो रावणः संदिदेश तान् || राक्षसानेतदेवास्यु लङ्गुलं दह्यतामिति ॥ १५० ॥ ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः ॥ वेष्टितं शणवल्कैच 'जीर्णैः कार्पासजैः पटैः ॥१५१॥ तिसैन्यसंपन्नान् ॥ ११९-१३१ 11 अस्याः | कियदनूद्य संप्रति शेषं स्वयं वक्ता सन्नाह - सीतायाः । विसंधिरार्षः ॥ १३२ - १३४ ॥ धर्मार्थ- वालिनेति ॥ १३९ - १४३ ॥ इदं वचसुग्रीवो - कामसहित मिति तत्र धर्मसाहित्यात् हितं परत्र क्तमेव मयोक्तमित्याह - इतीति ॥ १४४-१४६ ॥ उपकारकं । अर्थसाहित्यात्पथ्यं । इहोपकारकं चेत्यर्थः नैवमिति | कर्तव्यमिति शेषः । राजशास्त्रं राजधर्म- ॥ १३५ – १३८ ॥ सुग्रीवश्चेत्यादिना सुग्रीवोक्तं शास्त्रं ||१४७|| वेदितव्यं वक्तव्यमित्यर्थः ||१४८- रामानु० अहंप्राप्तः अहंहनुमान् इत्यहंशब्दस्य निर्वाहः || १३२ ॥ स० समोऽहितेनशत्रुणेतिसमाहितः । पूर्वेवालिमुखतःस ख्येपिइदानींरामसाहाय्येनशत्रुंवामित्यर्थः ॥ १३४ ॥ रामानु० सुग्रीवेण मयेतिशेषः ॥ १३९ ॥ रामानु० वानराणांमहा- राजः कृतः । अहमितिशेषः ॥ १४० ॥ रामानु० तेन साहाय्यस्यास्माभिःकर्तव्यत्वेन । प्रस्थापितः दूतइतिशेषः ॥ शि० तेन मया ॥ १४१ ॥ रामानु० विधमन्ति । “ यावत्पुरानिपातयोर्लट् ” इतिऌडर्थेलट् ॥ १४२ ॥ रामानु० येहिनिमन्त्रिताः युद्धसाहाय्यार्थमाहूताः । देवतानांसकाशंगच्छन्ति तेषांवानराणांप्रभावः पुराकेननविदितः । त्वयाविज्ञातएवेतिभावः ॥ स० निमन्त्रिताः आज्ञप्ताः । अनेनराजाज्ञामावादेवनैतावत्कालपर्यन्तमत्रागताइतिध्वन्यते ॥ ति० वानराणामिति । राघवाणामितिपाठे


" [ पा० ] १ ङ. झ. ट. तस्यास्तु घ. अस्याः संदर्शनाकाङ्क्षी. २ क. घ. - ट. दौलेन. ३ क. ख. घ. वत्समी नमुपागतः ४ अयंश्लोकः ङ. —ट. पाठेषुदृश्यते ५ ङ. – ट. महाभागसत्वां कौशलं. ६ क. – ट. राजन्भार्या. ७ ङ. - झ. ट. सहप्रभुः घ. समंप्रभुः. ८ ग. कृत्वान्निसाक्षिकं. ९ क . तेनवालीवि निहतो राघवेणमहाजिरे। राज्यंचसुमहत्प्राप्तंसुग्रीवेण महात्मना १० ख ग. घ. मुत्साद्य. ङ. च. ज. – ट. माहत्य. ११ क. घ. तत्र. १२ ग. -ट. राघवस्यच. १३ ङ. झ ट प्रभावोयं. १४ ख. ग. ङ. – ट. ततोंरुष्टचक्षुषा. घ. रुषाविष्टचक्षुषा. १५ घ. क्रूरकर्मणा. १६ घ. महाद्युतिः. १७ ग. ङ. छ. झ ञ टं. राक्षसराजश्व १८ ङ. झ. नं. ट. संलक्ष्यते. १९ ग. ङ. झ. ट. यथाभिहितवादिना २० ग. त्र. पटैः कार्पास कैस्तथा