पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५८ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । राजन्व नमिदं दुर्ग तव भग्नं दुरात्मना || वानरेण ह्यविज्ञाय तव वीर्ये महाबल ॥ १११ ॥ दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः || वधमाज्ञापय क्षिप्रं यथाऽसौ विलयं व्रजेत् ॥ ११२ ॥ तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ॥ राक्षसाः किंकरा नाम रावणस्य मनोनुगाः॥ ११३ ॥ तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ॥ मया तस्मिन्वनोद्देशे परिषेण निषूदितम् ॥ ११४ ॥ तेषां तु हैंतशेषा ये ते गत्वा लघुविक्रमाः ॥ निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥ ११५ ॥ ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाँक्रमम् || तत्रस्थात्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः ॥ ललामभूतो लङ्कायाः स वै विध्वंसितो मया ॥ ११६ ॥ ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ॥ राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ॥ ११७ ॥ तमहं बैलसंपन्नं राक्षसं रणकोविदम् || परिघेणातिघोरेण सूदयामि सहानुगम् ॥ ११८ ॥ तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् || पदातिबलसंपन्नान्प्रेषयामास रावणः ॥ ११९ ॥ परिघेणैव तान्सर्वान्नयामि यमसादनम् || १२० ॥ मन्त्रिपुत्रान्तावा समरे लघुविक्रमान् || पञ्च सेनाग्रगाञ्छ्रान्प्रेषयामास रावणः ॥ १२१ ॥ तानहं सहसैन्यान्वै सर्वानेवाभ्यसूदयम् || १२२ || ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ बहुभी राक्षसैः सार्धं प्रेषयामास विणः ॥ १२३ ॥ तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् || सहसा खं समुत्क्रान्तं पादयोथ गृहीतवान् || चैर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ॥ १२४ ॥ तमक्षमागतं भयं निशम्य स दशाननः ॥ तैंत इन्द्रजितं नाम द्वितीयं रावणः सुतम् || व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ॥ १२५ ॥ तच्चाप्यहं बलं सर्वे तं च राक्षसपुङ्गवम् ॥ नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ॥ १२६ ॥ महतापि महाबाहुः प्रत्ययेन महाबलः ॥ प्रेषितो रॉवणेनैव सह वीरैर्मदोत्कटैः ।। १२७ ।। सोविषह्यं बुद्धा खैबलं चावमर्दितम् || ब्राह्माण स तु मां प्राबध्नाच्चातिवेगितः ॥ १२८ ॥ रँज्जुभिवाभि बध्नन्ति ततो मां तत्र राक्षसाः ॥ रावणस्य समीपं च गृहीत्वा मामुपानयन् ॥ १२९ ॥ दृष्ट्वा संभाषिताहं रावणेन दुरात्मना ॥ पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ॥ १३० ॥ तत्सर्वे च मैया तत्र सीतर्थमिति जल्पितम् ॥ १३१ ॥ २०९ - ११५ ॥ ततो मे बुद्धिरुत्पन्ना वक्ष्यमाणकार्यविषयेत्य- | सादं नगरमध्यस्थप्रासादं । ललामभूतः अलंकारभूतः र्थः । तादृशं बुद्धिकार्यमाह - चैत्येत्यादिना | चैत्यप्रा- || ११६ - ११८ ॥ पदातिबलसंपन्नान् पदातिप्रभू- त्याज्ञापनरूपमुत्तरंकिमित्यर्थः ॥ ति० उत्तरं समुद्रोत्तरकूलस्थं ॥ ९८ ॥ ति० तस्यदुर्बुद्धितेतिबहुव्रीहेस्तल् । नपुनर्ब्रजेत् स्वदेशमि- तिशेषः ॥ ११२ ॥ रामानु० शूलमुद्गरपाणिनामित्यत्र दीर्घाभावआर्षः ॥ ११४ ॥ ति० चैत्यप्रासादं विनाशयितुमितिशेषः ॥ ११६ ॥ रामानु० चर्मासिनमित्यत्र इन्नन्तत्वमार्षे ॥ १२४ ॥ रामानु० द्वितीयं प्रेषितपुत्रापेक्षयाद्वितीयं ॥ १२५ ॥ [ पा० ] १ ङ. झ. ट. त्तस्यदुर्बुद्धिताराजंस्तव. ग. तस्यदुर्बुद्धिनोराजंस्तव, २ ङ. झ. ट. नपुनर्व्रजेत. बहुदुर्जयाः. ४ ङ. द. हतशिष्टाये. ५ क. ग. ङ. – ट. मयासैन्यं. ६ ग. ङ. – ट. मुत्तमं. ७ ग. ङ. मयाविध्वंसितोरुषा. ८ ग. र्भयावहै:. ङ. र्दुरासदैः . ९ क. सबलंसावं. १० क. ग. ड. – ट. संयुगे. ११ ङ. १२ ङ. झ ञ तमासीनं. १३ ङ.. ततश्चेन्द्रजितं. १४ क. रावणेनैषमहावीर्यौमदोत्कटः ३ ङ. झ. ट. झ. ट. लङ्काया – ट. समुद्यन्तं. १५ ङ. —ट. मंदोद्धतैः. १६ क. ग.—ट. खसैन्यंच. १७ ग. रजुभिश्चबबन्धुस्ते, १८ ङ. छ. झ ञ ट . मामुपागमन्. १९ ग. घ. संभाषितस्तेन २० क. घ. तद्वधं. २१ क. ग. ङ. ट. रणेतत्र. २२ ङ०-ट. सीतार्थमुप. घ. सीतार्थमभि, वा. रा. १७५