पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उक्तश्च मधुरां वाणीं तया स मदनार्दितः ॥ सीतया तव किं कार्य महेन्द्र समविक्रम || [ मया सह रमस्वाद्य मद्विशिष्टा न जानकी ] ॥ ७५ ॥ देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च || सार्धं प्रभो रॅमस्खेह सीतया किं करिष्यसि ।। ७६ ॥ ततस्ताभिः समेताभिर्नारीभिः स महाबलः ॥ प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ॥७७|| याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः || सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥७८।। तृणवद्भाषितं तासां गणयामास जानकी ॥ गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥७९॥ वृथागर्जित निचेष्टा राक्षस्यः पिशिताशनाः || रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।। ८० ।। ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः || पॅरिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥ ८१ ॥ तासु चैव प्रसुप्तासु सीता भर्तृहिते रता || विलप्य करुणं दीना प्रशुशोच सुदुःखिता || ८२ ॥ तासां मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत् ॥ ८३ ॥ आत्मानं खांदत क्षिप्रं न सीतां विनशिष्यति ॥ जैनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ||८४|| स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ॥ रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ ८५ ॥ अलमस्मात्परित्रातुं राघवाद्राक्षसीगणम् || अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ ८६ ॥ यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ॥ सा दुःखैर्विविधैर्मुक्ता सुखमामोत्यनुत्तमम् ॥८७ || प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा || [ अँलमेषा परित्रातुं राक्षस्यो महतो भयात् ] |॥ ८८ ॥ ततः सा हीमती बाला भर्तुर्विजयहर्षिता || अवोचयदि तत्तथ्यं भवेयं शरणं हि वः ॥ ८९ ॥ तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् || चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ॥९०॥ वा । दडयोरभेदः । दम्भो दाडिममित्यादिवत् । यद्वा | तृणवत् गणयामासेत्यन्वयः ॥७९॥ वृथागर्जितनिश्चेष्टाः मन्दत्वं चाल्पत्वं । " मूढाल्पापटुनिर्भाग्या मन्दा " वृथागर्जितेन निर्व्यापाराः ॥ ८० ॥ ततस्ताइति । इत्यमरः । सूक्ष्मोदरीत्यर्थः । मन्दा स्थूलपिपीलिके- तूष्णीं रक्षतेति रावणोक्ता इति शेषः । परिक्षिप्य त्याचक्षते । तस्या इव कृशमस्या उदरमित्यर्थः परिवार्य || ८१ ॥ सुदुःखिता प्रशुशोच । उत्तरोत्तरं ननु पूर्व धान्यमालिन्या प्रतिषिद्ध इत्युक्तं । संप्रति दुःखितवतीत्यर्थः ॥ ८२-८५ || अलं शक्ता । मण्डोदर्येत्युच्यते । विप्रतिषिद्धमिदं । मैवं । उभाभ्या- “ अलं भूषणपर्याप्तिशक्तिवारणवाचकं " इत्यमरः । मपि प्रतिषिद्धत्वेनान्यतरोक्तावविरोधात् । मण्डोद- परित्रातुं एषेति शेषः ।। ८६-८७ ।। अपराधिजन- र्यादिनामपरिज्ञानं च हनुमतस्तदीयव्यवहारात् प्राणत्राणे हेतुमाह - प्रणिपातेति ॥ ८८ ॥ ततः ११ ॥ ७४–७६ ॥ ताभिः देवकन्याभिः । अनेन त्रिजटावाक्यानन्तरं । भर्तुर्विजयहर्षिता त्रिजटाकथि- मण्डोदर्यादिवदन्यासामपि निवारयितृत्वमुक्तं ॥७७ ॥ तस्वप्नसूचितराम विजयहर्षिता । तत् त्रिजटास्वप्नवा- क्रूरैः क्रूरशब्दैः । सुदारुणैः अर्थतोपि क्रूरैः ॥ ७८ ॥ | क्यं । शरणं हि व इत्यत्रेतिकरणं द्रष्टव्यं ||८९|| नच मन्दोदर्याएवनामान्तरंधान्यमालिनीत्युक्तं ॥ ७४ ॥ स० राक्षसीगणं राघवात्परित्रातुं अलं समर्था । प्रसादिवासीतेति शेषः । तस्मादभियाचाम प्रार्थयाम ॥ ८६ ॥ शि० ननुस्खप्नस्य मिथ्यात्वात्तिद्दर्शनेनसीताभर्तृविजयादीत्यतआह - यदीति । दुःखितायाएवंविधःस्वप्नोयदिदृश्यते तर्हि सादुःखिता दुःखैर्विमुक्तासतीसुखमाप्नोति । एतेन स्वप्नस्यमिथ्यात्वेपित द्दर्शनजनितफल • [ पा० ] १ इदमधे ङ. च. ज. – ट. पाठेषुदृश्यते. २ क. ङ. झ. ट. रमखेति ३ ङ. झ. र. उत्थाप्य. ४ ङ॰ झ. ७ ङ. च. ज. —ट. परिक्लिश्य. ८ ग. ट. तथा. ५ घ. ट. राक्षस्यो विकृताननाः ६ क. – घ. ङ. झ. ट. सीताव्यवसितं. प्ररुरोद. घ. प्रचुक्रोश. ९ क ख खादतानार्यानसीतांभक्षयिष्यत १० ङ. झ ट सीतामसितेक्षणां. ११ ङ. झ. ट. जनक- स्यात्मजांसाध्वींस्नुषांदशरथस्यच. १२ क. राक्षसानांविनाशायराघवस्यजयायच. घ. राक्षसानामभावाय. १३ क. अलमे षापरित्रातुं. १४ ग. ङ. -- ट. यदिह्येवंविधः १५ घ. सुखप्राप्नोत्यनुत्तमं १६ इदम ङ. – ट. पाठेषुदृश्यते. १७ ङ. झ. ट, विश्रान्तो. २०७