श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् || मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।। ५७ ॥ सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ एकवेणीधरा दीना भर्तृचिन्तापरायणा ॥ ५८ ॥ भूमिशय्या विवर्णाजी पद्मिनीव हिमागमे || रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्रया ॥ कथंचिन्मृगशाबाक्षी तूर्णमासादिता मया ॥ ५९ ॥ तां दृष्ट्वा तादृशीं नारीं रोमपत्नीं यशखिनीम् ॥ तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥ ६० ॥ ततो हलहलाशब्दं काञ्चीनपुर मिश्रितम् || शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ ६१ ॥ ततोऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् || अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ॥ ६२ ॥ ततो रावणदाराश्च रावणश्च महाबलः ॥ तं देशं समनुप्राप्ता यत्र सीताऽभवत्स्थिता ॥ ६३ ॥ तँद्दृष्ट्वाऽथ वरारोहा सीता रक्षोमहाबलम् || संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ ६४ ॥ वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ॥ त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ।। ६५ ॥ तामुवाच दशग्रीवः सीतां परमदुःखिताम् || अवाक्छिराः प्रपतितो बहुमन्यस्त्र मामिति ॥ ६६ ॥ यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते || 'द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥६७॥ एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ॥ उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ ६८ ।। राक्षसाधम रामस्य भार्याममिततेजसः ॥ इक्ष्वाकुकुलनाथस्य खुष दशरथस्य च ॥ २०६ अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ ६९ ॥ किंचिद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ ॥ अपहृत्यागतः पाप तेनादृष्टो महात्मना ॥ ७० ॥ न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे || यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ॥ ७९ ॥ जानक्या परुषं वाक्यमेवमुक्तो दशाननः ॥ जज्वाल सहसा कोपाच्चितास्थ इव पावकः ॥ ७२ ॥ विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ॥ मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ॥ ७३ ॥ स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः ॥ वरा मण्डोदरीनाम तया स प्रतिषेधितः ॥ ७४ ॥ भेदेन शोकसंतापयोर्भेदः ॥ ५५-५७ ॥ सामयेति | अन्तरमवधिः । ततः पास्यामीति योज्यं ।। ६७— आमयः खेदः तेन सह वर्तत इति सामया | मर्तव्ये ६९ ॥ किंचिद्वीये कुत इत्यत्राह – यो मामिति । मरणे । " कृत्यल्युटो बहुलं ," इति साधु : भर्तुरसंनिधौ तेन भर्त्रा अदृष्टःसन् यो मामपह- ।। ५८-५९ ॥ पश्यन् परामृशन् । ६०-६१ ॥ त्यागतः तस्य तव किंचिद्वीर्यमिति योज्यं ।। ७०- गहने पर्णगूढप्रदेशे । पर्णघने: निलीन इत्यधस्ताद - ७१ ॥ घोरत्वसिद्धये चितास्थइत्युक्तं ॥ ७२ ॥ प्युक्तेः ॥ ६२–६४॥ परमोद्विग्नां अतीवोद्धान्त- आरब्धः रावण इति शेषः । हा हा कृतं हा हृदयां । ततस्ततः वीक्षमाणां नानादिक्षु वीक्षमाणां | हेत्येतत्कृतं ॥ ७३ ॥ समुत्पत्य रावणसमीपं त्राणमित्यनुषज्यते ॥ ६५ ॥ अवाक्छिः अवनतमू- गतेति शेषः । मण्डोदरी मण्डनभूतोदरी । “ मडि र्धा । प्रपतितः भूमावितिशेषः ॥ ६६ ॥ द्वौ मासौ | भूषायाम् ” इत्यस्माद्धातोः पचाद्यच् । मन्दोदरी । सर्वोरात्रीं | अल्पशेषायांरात्रावशोकव निकाया दर्शना देवमुक्तिः ॥ ५० ॥ रामानु० परिरभ्य वितत्रासेतिशेषः ॥ ६४ ॥ ति० सादृश्यसंभावनापिदूरापास्तेत्याह- दास्येपीति | स० अस्यदास्ये दासले | नयुज्यसे युक्तोनभवसि । अपिना मूलरूपेपि द्वार्बहिरवस्थानमेवनान्तर्दास्येयोग्यइतिसूचयति ॥ ७१ ॥ ति० चितास्थपावकत्वेनास्पृश्यतासूचिता ॥ ७२ ॥ ति० यद्वा [ पा० ] १ क. ङ. -ट. हरिणींयथा २ क. - घ. च. छ. ज. ज. रामपत्नीमनिन्दितां. ३ ग. च. छ. ज. ज. सहसो. द्विमः. ४ ग. च. —ट. स्वरूपंप्रत्य संहरं. ५ ख देशमभिसंप्राप्ता. ६ क. ख. घ. ङ. च. ज. – ट. तंदृष्ट्वाय. ७ क. ख. घ. ङ. च. ज.-ट. रक्षोगणेश्वरं. ८ क. ङ. झ ञ ट वीक्षमाणामितस्ततः ९ ख मनस्विनी १० ङ. झ ट द्विमासानन्तरं ११ ङ. झ ञ ट इक्ष्वाकुवंश. १२ घ. - अजेयः सत्यवाञ्छूरो. ग. धार्मिकः सत्यवादीच.
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१०
दिखावट