स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ॥ |
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रथमः सर्गः ॥ १ ॥
द्वितीयः सर्गः ॥ २ ॥
हनुमता लङ्काया राक्षसगणरक्षणादिनिरीक्षणेनेतरदुराधर्षत्वादिचिन्तनपूर्वकं बिडालतुल्यपरिमाणकवपुषासता चन्द्रोदयसमये लङ्काप्रवेशनं ॥ १ ॥
स सागरमनाधृष्यमतिक्रम्य महाबलः ॥ [१]त्रिकूटशिखरे लङ्कां [२]स्थितां स्वस्थो ददर्श ह ॥ १ ॥
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ॥ [३]अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो [४]यथा ॥ २ ॥
योजनानां [५]शतं श्रीमांस्तीर्त्वाऽप्युत्तमविक्रमः ॥ अनिश्श्वसन्कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३ ॥
शतान्यहं योजनानां क्रमेयं सुबहून्यपि ॥ किं पुनस्सागरस्यान्तं संख्यातं शतयोजनम् ॥ ४ ॥
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ॥ जगाम वेगवॉल्लङ्कां लङ्घयित्वा महोदधिम् ॥ ५ ॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च ॥ [६]गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ ६ ॥
शैलांश्च [७]तरुसंछन्नान्वनंराजीश्च पुष्पिताः ॥ अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः ॥ ७ ॥
स तसिन्नचले तिष्ठन्वनान्युपवनानि च ॥ स नगाग्रे [८]च तां लङ्कां ददर्श पवनात्मजः ॥ ८ ॥
सरलान्कर्णिकारांश्च खर्जरांश्च सुपुष्पितान् ॥ प्रि[९]यालान्मुचुलिन्दांश्च कुटजान्केतकानपि ॥ ९ ॥
प्रियङ्गून्गन्धपूर्णांश्च नीपान्स[१०]प्तच्छदांस्तथा ॥ [११]असनान्कोविदारांश्च करवीरांश्च पुष्पितान् ॥ १० ॥
पुष्प[१२]भारनिबद्धांश्च तथा मुकुलितानपि ॥ पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् ॥ ११ ॥
हंसकारण्डवाकीर्णा वापीः [१३] पद्मोत्पलायुताः ॥ आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् ॥ १२ ॥
रूपं पूर्वरूपं विहाय । वृत्तमुपजातिः ॥ २१८-२१९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने 'प्रथमः सर्गः ॥ १ ॥ स सागरमित्यादि ॥ १-३ ॥ समुद्रलङ्घने कुतो ग्लानिं नाध्यगच्छदित्यत्राह---शतानीति ॥ ४-५ ॥ पाण्डवन्ति स्थूलोपलवन्न्ति । नामैकदेशे नामग्रहणेन |
गण्डशब्देन गण्डशैल उच्यते ॥ ६-७ ॥ स तस्मिन्नित्यर्धे ददर्शेत्यपकृष्यते ॥ ८ ॥ सरलान् यूपसरलान् कर्णिकारान्परिव्याधान् । खर्जूरान् कण्टकच्छदान् । प्रियालान् धनुःपटान् । मुचुलिन्दान् जम्बीरान् ॥ ९ ॥ प्रियङ्गून् फलिनः । गन्धपूर्णान् नीपान् असनान् । कोविदारान् चमरिकान् ॥ १०-११ ॥ आक्रीडान् सर्वसाधारणक्रीडास्थानानि ॥ १२ ॥ |
स० खस्थउत्तरत्रकथंकर्तव्यमितिचित्तवैक्लब्यरहित ॥ १० ॥ रामानु० समुद्रलङ्घनेकुतःश्रमंनाध्यगच्छत्तत्राह----शतान्यहमिति । अहंसुबहून्यपियोजनानांशतानिक्रमेयं । शतयोजनसंख्याकंसागरस्यान्तंकिंपुनरित्यमन्यतेतिशेषः ॥ ४ ॥ रामानु० अत्र शैलशब्दःश्रृङ्गपरः । लंबाख्यगिरेरुपरितनस्योच्यमानत्वात् ॥ ७ ॥ वनानि स्वतएवजातवृक्षसमूहान् । उपवनानिस्थापितवृक्ष-
वा. रा. १५१
- ↑ क. घ. ङ. झ. ञ. ट. त्रिकूटस्यतटे.
- ↑ क. ग. घ. ङ. झ. ञ. ट. स्थितःस्वस्थो.
- ↑ ग. ङ. झ. ञ. ट. अभिवृष्टस्ततस्तत्र.
- ↑ ङ. झ. ञ. ट. हरिः.
- ↑ च. छ. ज. शतंतीर्त्वातथाप्युत्तम.
- ↑ क. ङ. झ. ज. ट. मधुमन्तिच. ग. च. छ. गजवन्तिच.
- ↑ घ. छ. तरुसंपन्नान्.
- ↑ ग. ङ.---ट. स्थितांलङ्कां.
- ↑ ग. बकुलान्मु.
- ↑ क. ख. न्सप्तच्छदानपि.
- ↑ ग. पनसान्को.
- ↑ छ. ज. भारपिनद्धांश्च. ग. भारातिभारांश्च. क. भारातिबद्धांश्च.
- ↑ झ. ञ. ट. पद्मोत्पलावृताः.