सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

सं[]ततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ॥ उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ १३ ॥
समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् ॥ परिघाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥ १४ ॥
सीतापहरणार्थेन रावणेन सुरक्षिताम् ॥ []समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥ १५ ॥
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ॥ गृहैश्च []ग्रहसंकाशैः शारदाम्बुदसन्निभैः ॥ १६ ॥
पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम् ॥ अट्टालक[]शताकीर्णां पताका[]ध्वजमालिनीम् ॥ १७ ॥
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचि[]त्रितैः ॥ ददर्श हनुमाँल्लङ्कां []दिवि देवपुरीमिव ॥ १८ ॥
गिरिमूर्ध्नि स्थितां []लङ्कां पाण्डुरैर्भवनैः शुभैः ॥ []ददर्श स कपिश्रेष्ठः [१०]पुरमाकाशगं यथा ॥ १९ ॥
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ॥ प्लवमानामिवाकाशे ददर्श [११]हनुमान्पुरीम् ॥ २० ॥
वप्रप्राकारजघनां [१२]विपुलाम्बुनवाम्बराम् ॥ शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥
[१३]मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा ॥ २१ ॥
द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥ २२ ॥
कै[१४]लासशिखरप्रख्यामालिखन्तीमिवाम्बरम् ॥ डीयमानामि[१५]वाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ २३ ॥


उद्यानानि राजयोग्यानि । सर्वर्तुफलपुष्पितैः सर्वर्तुषु फलपुष्पाण्येषां संजातानि तैः ॥ १३ ॥ समासाद्य ददर्शेति क्रियाभेदाल्लङ्कापदावृत्तिः । लक्ष्मीवान् जयहेतुकान्तिमान् । उत्पलानि पद्मव्यतिरिक्तानि सरसिजानि ॥ १४ ॥ सीतापहरणं अर्थः प्रयोजनं यस्य तेन । सुरक्षितत्वे हेतुरयं । विचरद्भिश्चेत्यत्र चकारो भिन्नक्रमः । राक्षसैश्च सुरक्षितां ॥ १५ ॥ प्रहसंकाशैः नवग्रहतुल्यैः ॥ १६ ॥ पाण्डुराभिः सुधालिप्तभूमिकत्वात्सिताभिः । प्रतोलीभिः वीथीभिः। अट्टालकाः अट्टा: । पताकाध्वजमालिनीं लतादिरेखाविचित्रित- पटविशिष्टाः पताकाः । मत्स्यमकराद्याकारा ध्वजाः ।

व्रीह्यादित्वादिनिः ॥ १७ ॥ लतापङ्क्तयः लताकाररेखाः ॥ १८-२० ॥ वप्रेत्यादावपि ददर्श हनुमान्कपिरित्यनुवर्तते । वप्रं प्राकारमूर्तिकः । प्राकारः सालः । विपुलाम्बु परिघारूपं नवाम्बरं यस्यास्सा । शतघ्नी यन्त्रविशेषः । वतंसः अवतंसः । भागुरिमतेनाल्लोपः । वस्तुतो विश्वकर्मणा निर्मितां विचार्यमाणे केनापि मनसा निर्मितामिव स्थितामित्युप्रेक्षा ॥ २१ ॥ उत्तरं द्वारमासाद्य । चिन्तयामास मनसा निरूपयामास । वैदेहीदर्शनोपायमिति शेषः ॥ २२ ॥ डीयमानां गच्छन्तीं । डीङ् विहायसागतौ इत्यस्मा-


षण्डानि । सनगंवृक्षसहितंयदग्रंतस्मिन्स्थितांलङ्कांचददर्श ॥ ८ ॥ ती० अट्टालकशताकीर्णां प्राकारवेदिकोपरियुद्धार्थंपरिकल्पितमञ्चविशेषशतसंकुलां । ददर्शहनुमाँल्लङ्कामितिपुनर्दर्शनाभिधानंविशेषान्तरविवक्षयोपमानान्तरविवक्षयावा ॥ स० पताकासौभाग्यं तस्याध्वजः सूचकसचेलयष्टिविशेषः । तेनमालतेशोभतेसातथा ॥ अभिधानंतूक्तं । ति० गिरिमूर्धस्थत्वादेवाकाशेप्लवमानामिव । लङ्कांद्रष्टुर्हंनूमतइवतद्वर्णनप्रसक्तस्यकवेरप्याश्चर्यमग्नतयाददर्शेतिपुनरुक्तिर्नदोषाय । विस्मयेनपुनःपुनर्ददर्शेतिवातात्पर्यं ॥ १७-२० ॥ रामानु० वप्रं चयः । प्राकाराधारवेदिकेतियावत् । 'स्याच्चयोवप्रमस्त्रियां' इत्यमरः । अट्टालकाःवर्तस:कर्णाभरणंयस्यास्सातां । ति० विपुलांबु:समुद्रोवनानिचांबरंवासोयस्यास्तां। स० विश्वकर्मणानिर्मितामपिमनसेवकृतां मनोमयसदृशीं ॥२१॥ ति० कैलासोनिलयःस्थानंयस्यअलकाद्वारस्यतत्प्रख्यंउत्तरद्वारं । उच्छ्रितैर्भवनोत्तमैःअंबरमालिखन्तमिव । आकाशंध्रियमाणमिवआकाशधारणं कुंर्वदिव ॥ स० कैलासरूपोयोनिलयःरुद्रभवनंतत्प्रख्यंतत्सदृशं । यद्वाकैलासनिलयोभवस्तत्प्रख्यं हरस्यापिकेवलंशुभ्ररूपत्वात् । एतादृशंद्वारमासाद्येतिपूर्वेणान्वयः । आलिखन्तं आलिखत् । 'तदशिष्यं' इतिलिङ्गस्यातन्त्रत्वोक्तेः । रामानु० आलिखन्तमिति लिङ्गव्यत्ययः ॥ डीयमानामिवउद्गच्छन्तीमिव । डीयमानत्वादिविशेषणविशिष्टा या तस्यालङ्कायाःमहतींगुप्तिंसागरंचरावणंघोरं

  1. छ. ज. संततैर्विविधैः.
  2. ज. विहायसिचरद्रिश्च.
  3. क.---ट. गिरिसंकाशैः.
  4. च. ज. समाकीर्णा.
  5. ङ. झ. ञ. ट. ध्वजशोभितां. घ. ध्वजशालिनीं.
  6. ज. ट. विराजितैः.
  7. ङ. झ. ज. ट. देवोदेवपुरीमिव.
  8. क. ग. च. रम्यां.
  9. ग. सददर्शकपिःश्रीमान्. क. ख. घ.---ट. ददर्शसकपिःश्रीमान्.
  10. ङ. ञ. ट. पुरीमाकाशगामिव.
  11. घ.---ट. हनुमान्कपिः.
  12. घ. विपुलांबुधरांबरां. ङ. झ. ज. ट. विपुलांबुवनांबरां.
  13. ग. मनसैवतदालङ्कां.
  14. क. ख. ङ. च. छ. झ. ज. ट. कैलासनिलयप्रख्यमालिखन्तमिवा.
  15. ङ. झ. ट. ध्रियमाणमिवाकाशं. ख. पिबन्तीमिवचाकाशं.