२०४ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ॥ ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥ २० ॥ ततः पश्याम्यहं देवीं सुरसां नागमातरम् || समुद्रमध्ये सा देवी वैचनं मामभाषत ॥ २१ ॥ मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम । अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ २२ ॥ एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ॥ विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयन् ॥ २३ ॥ रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् || लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ २४ ॥ तस्य सीता हता भार्या रावणेन दुरात्मना ॥ तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् || कर्तुमर्हसि रामस्य साहाय्यं विषये सती ॥ २५ ॥ ॥ अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् || आगमिष्यामि ते वक्रं सत्यं प्रतिशृणोमि ते ॥२६॥ एवमुक्ता मया सा तु सुरसा कामरूपिणी ॥ अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥ २७ ॥ एवमुक्तः सुरसया दशयोजनमायतः ॥ ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ॥ २८ ॥ मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ॥ तद्दृष्ट्वा व्यादितं चास्यं इस्वं ह्यकरवं वपुः ॥ २९ ॥ तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठमंत्रिकः || अभिपत्याशु तद्वत्रं निर्गतोऽहं ततः क्षणात् ॥ ३० ॥ अब्रवीत्सुरसा देवी खेन रूपेण मां पुनः ॥ अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ॥ ३१ ॥ समानय च वैदेहीं राघवेण महात्मना ॥ सुखी भव महाबाहो प्रीताऽसि तव वानर ॥ ३२ ॥ ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ॥ ततोन्तरिक्षं विपुलं ठुतोऽहं गरुडो यथा || ३३ ॥ छाया मे निगृहीता च न च पश्यामि किंचन ॥ ३४ ॥ सोहं विगतवेगस्तु दिशो दश विलोकयन् || न किंचित्तत्र पश्यामि येन मेऽपहृता गतिः ॥ ३५ ॥ ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम || ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ३६ ।। अधोभागे न मे दृष्टिः शोचंता पातिता मैंया ॥ ततोऽद्राक्षमहं भीमां राक्षसी सलिलेशयाम् ॥ ३७ ॥ ग्रहस्य च महानादमुक्तोऽहं भीमया तया ॥ अवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम् ॥ ३८ ॥ क्वासि गन्तां महाकाय क्षुधिताया ममेप्सितः ॥ भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ ३९॥ 66 दत्तवरः अस्मीति शेषः । वपुष्मता पुष्कलवपुषा । मानुषे- णविस्तारः । अत्रार्धशब्द: एकदेशवाची | किंचिदधि- णशरीरेणान्तर्हितः । शैलेन तु शरीरेण महोदधौ कविस्तारोभवमित्यर्थः । एवमेवार्थ: । प्रथमसर्गोक्त- सागरोपरि स्थित इति शेषः । सवै शतयोजन विस्तारस्तु विरुद्धः तद्रन्थः कल्पितश्चेत्युक्तं शैलोबभूवावस्थितस्तथा " इति प्रथमसर्गोक्तेः । ॥ २८ ॥ व्यादितं व्यात्तं ॥ २९ ॥ इस्वत्वं विशेष- प्रतिप्रयाणे च–“ पर्वतेन्द्रं सुनाभं च समुपस्पृश्य यति – अङ्गुष्ठमात्रक इति ॥ ३०-३१ ॥ समानय वीर्यवान् " इत्युक्तं । " हिरण्यनाभं शैलेन्द्रं काञ्चनं संयोजय ॥ ३२ ॥ साधु साध्वीति दीर्घश्छान्दसः पश्य मैथिलि " इति रामेण चोक्तं ।। १९–२४ ॥ ।। ३३-३६ ॥ सलिलेशयां सलिले स्थितां ॥ ३७ ॥ विषये सती स्वराज्ये वसन्ती ॥ २५-२७ ॥ अर्धगु- | अवस्थितं दृढभूतं । असंभ्रान्तं अव्य ||३८-३९॥ महोदधावन्तर्हितोऽभूत् ॥ १९ ॥ ती० ततोर्वगुण विस्तारः ततोदशयोजनात् अर्धस्यपञ्चयोजनस्यगुणः आवृत्तिः तद्विस्तारोदशयो• जनविस्तारः । प्रथमसर्गेदशयोजन विस्तारोत्तयानुगुण्येनैवं व्याख्यातं ॥ २८ ॥ शि० साध्वी तिदीर्घआर्षइतिभट्टाः | विस्मयार्थेकार • 66 [ पा० ] १ ङ. च. ज. - ट. शेषमध्वानं. २ ङ. झ ट . वचनंचेदमब्रवीत्. ३ ग. ङ. - ट. ततस्त्वां. ४ ङ. झ. ट. स्त्वंहिमेसुरैः ५ ग. घ. च. छ. ज. ज. विषण्णवदनो. ६ ख. सीतयाचापिभार्यया. ७ ग घ च छ ज ञ ततोद्विगुण ८ ङ.―ट. मत्प्रमाणाधिकंचैव. ९ ख. च. – ट. पुनः १० ङ. – ट. संमितः ११ घ. अथसाव्याहरच्छ्रेटा. १२. ङ. च ज. -ट मेविहता. १३ ङ. झ ञ ट शोचतः १४ च छ ज तदा.
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०८
दिखावट