पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । प्रीतिमत्सूपविष्टेषु वानरेषु महात्मसु ॥ तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ॥ जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् ॥ २ ॥ कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ॥ तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ ३ ॥ तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे || [ संमार्गिता कथं देवी किंच सा प्रत्यभाषत ॥ ] श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥ ४ ॥ यथार्थस्तत्र वक्तव्यो गतैरसाभिरात्मवान् || रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ॥ ५॥ स नियुक्तस्ततस्तेन संग्रहृष्टतनूरुहः ॥ ग्रॅणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ६ ॥ प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्तः ॥ उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ॥ ७ ॥ गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ॥ काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ ८ ॥ स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ॥ ९ ॥ उ॒पसंगम्य तं दिव्यं काञ्चनं नगसत्तमम् ॥ कृता मे मनसा बुद्धिर्भेत्तव्योयं मयेति च ॥ १० ॥ मँहतं च मया तस्य लाङ्गूलेन महागिरेः || शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा ॥ ११ ॥ व्यवसायं च तं बुद्धा स होवाच महागिरिः ॥ पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ॥ १२ ॥ पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥ मैनाक इति विख्यातं निवसन्तं महोदधौ ||१३|| पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ॥ छन्दतः पृथिवीं चेरुर्वाधमानाः समन्ततः ॥ १४ ॥ श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः || चिच्छेद भगवान्पक्षान्वज्रेणैषां सहस्रशः ।। १५ ।। अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना || मारुतेन तदा वत्स प्रक्षिप्तोमि महार्णवे ॥ १६ ॥ रामस्य च मया साह्ये वर्तितव्यमरिन्दम ॥ रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ॥ १७ ॥ एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ॥ कार्यमावेद्य तु गिरेरुतं च मनो मम ॥ १८ ॥ तेन चाहमनुज्ञातो मैनाकेन महात्मना ॥ स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता || शरीरेण महाशैलः शैलेन च महोदधौ ॥ १९ ॥ २०३ वृत्तान्तं ॥ २ ॥ कथं केन प्रकारेण । कथंवृत्तः | तत् पश्यामीति योजना ॥ ८ ॥ मेने इति लिट्युत्त- कीदृग्व्यापारः ॥ ३ ॥ तत्त्वकथनस्य प्रयोजनमाह - मपुरुषैकवचनं । परोक्षत्वाद्यभावेपि च्छान्दसं । तार्था इत्यादि ॥ ४ ॥ तत्र रामसन्निधौ | योऽर्थो अमनिषीत्यर्थः ॥ ९ ॥ गमनदशायामुरसा पातया- वक्तव्यः वक्तुमर्हः । यच्च रक्षितव्यं गोप्तव्यं तत् । मासेति सूचितं विवृणोति - भेत्तव्योयमित्यादिना आत्मवान् बुद्धिमान् । भवान्व्याकरोतु ॥ ५-६ ॥ ॥१०-१२|| पितृव्यं चेति | पितृव्यत्वे हेतुमाह - प्रत्यक्षमेवेति इदं न वक्तव्यमेवेति भावः । आलुतः सखाय मिति | पितृसखत्वात् पितृव्यत्वव्यपदेश इत्यर्थः आलुतोस्मि । पारं गन्तुमिति शेष: । समाहितः | || १३ || छन्दतः यथेच्छं ॥ १४ – १५ ॥ मोक्षण- एकाप्रः । इत्येतद्भवतां प्रत्यक्षमेवेति संबन्धः ॥ ७ ॥ प्रकारमाह – प्रक्षिप्तोस्मि महार्णव इति ॥१६॥ साह्ये विघ्नरूपमिव । वस्तुतो न तथेतिभावः । पश्यामी- साहाय्ये | साहाय्यकरणे हेतुमाह - रामो धर्मभृतां त्यादौ व्यत्ययेन लट् । शिखरं विघ्नरूपमिवाभवत् | श्रेष्ठ इति ||१७|| उद्यतं उद्युक्तं ॥ १८ ॥ अनुज्ञातः ति० सशैलोमानुषेणवपुष्मता प्रशस्तेनशरीरेण । महाशैलोन्तर्हितः । शैलेनशिलारूपेणचमहोदधावन्तर्हितइत्यन्वयः ॥ स० शैलः मैनाकः । मानुषेणशरीरेणान्तर्हितोभूत् । ततश्चमहाशैलः वपुष्मतामानुषदेहान्तर्धानाधिकरणेन । शैलेन पर्वतरूपदेहेन [पा० ] १ इदमर्धे क. - ट. पाठेषुदृश्यते. २ ङ. छ. ज. झ. ट. प्रतिसंहृष्टः. ३ ङ. च. ज. — ट. प्रीतियुक्तं. ४ इदमर्ध ङ. ―ट. पाठेषुदृश्यते ५ ख. ङ. च.. नमस्यशिरसा. ६ ङ. झ ट प्रहतस्य ७ ङ. -ट. मोचितस्तस्मात् ८ ङ. झ. ट. प्रक्षिप्तोवरुणालये. घ. प्रक्षिप्तोस्मिमहोदधौ ९क० ख. ग. ङ. - ट. मयातस्य १० ङ. झ. ट. रुद्धतंवै.