पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ॥ चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ॥४१ ॥ केचिदुच्छ्रितलाला: ग्रहृष्टाः कपिकुञ्जराः ॥ अॅश्चितायतदीर्घाणि लाङ्गूलानि प्रविष्यधुः ॥ ४२ ॥ अपरे च हनूमन्तं वानरा वारणोपमम् || आहुत्य गिरिशृङ्गेभ्य: संस्पृशन्ति स्म हर्षिताः ॥ ४३ ॥ उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् || सर्वेषां हरिवीराणां मध्ये वँचनमुत्तमम् ॥ ४४ ॥ सत्त्वे वीर्ये न ते कश्चित्समो वानर विद्यते || यदवप्रुत्य विस्तीर्ण सागरं पुनरागतः ॥ ४५ ॥ [ जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम || त्वत्प्रसादात्समेष्यामस्सिद्धार्था राघवेण ह] ॥ ४६॥ अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ॥ दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥ दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ॥ ४७ ॥ ततोङ्गदं हनूमन्तं जाम्बवन्तं च वानराः || परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ॥ ४८ ॥ [ उपविष्टा गिरेस्तस्य शिलासु विपुलासु च ॥] श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥ ४९ ॥ दर्शनं चापि लङ्कायाः सीताया रावणस्य च ॥ तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ॥ ५० ॥ तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः ॥ उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ ५१ ॥ हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना ॥ मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाऽभवत् ॥ ५२ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७॥ अष्टपञ्चाशः सर्गः ॥ ५८ ॥ महेन्द्रगिरौ सर्ववानरमध्ये जांबवत्पृष्ठेन हनुमता वानरान्प्रति लङ्कागमनकाले मैनाकावलोकनादिस्वपुनरागमनान्तस- कलवृत्तान्त निवेदनम् ॥ १ ॥ ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ॥ हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ १ ॥ अनित्यत्वाद्डभावः ॥ ४० || क्ष्वेलन्ति सिंहनादं | शेषणं । यशस्विनेत्यङ्गदविशेषणं । भृत्यकीर्त्या. कुर्वन्ति । नदन्ति अव्यक्तशब्दं कुर्वन्ति । गर्जन्ति | स्वामिनः कीर्तिः । अन्यथा पौनरुक्त्यात् । यद्वा वृषभनादं कुर्वन्ति । किलिकिलां स्वजात्युचितकिलि- बुद्धिमत्त्वजन्या कीर्तिः । शौर्यजन्यं यशः ॥ ५२॥ किलाशब्दं ॥ ४१ | अश्चितायतदीर्घाणि अत्र इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे दीर्घपदसन्निधानादायतपदं स्थूलपरं । प्रविव्यधुः लाङ्गूलान्युद्धृत्य भूमावताडयन्नित्यर्थः ॥ ४२ ॥ | शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तप संस्पृशन्ति आलिङ्गन्तीत्यर्थः ॥ ४३ – ४४ ॥ अव- |ञ्चाशःसर्गः ॥ ५७ ॥ प्लुत्यविस्तीर्णमित्यङ्गदेतरव्यावृत्तिः । पुनरागत इत्य- ङ्गदव्यावृत्तिः ॥ ४५ – ५१ || कीर्तिमति हनुमद्वि- कार्यवृत्तान्तं कार्यविषयवृत्तान्तं सीतादर्शनविषय- विलोकितान वेतिशङ्कास्यात् सा माहिभूदिति दृष्टेपिपूर्वमुक्तिरितिज्ञेयं ॥ ३६ ॥ ति० आयताश्चितदीर्घाणि आयामोविस्तारः । स्थौ- ल्यमित्यन्ये ॥ ४२ ॥ इतिसप्तपञ्चाशः सर्गः ॥ ५७ ॥ [ पा० ] १ ङ. प्लवन्त्यन्ये २ च. ञ. महाखनाः ३ च. छ. ज. वानराः ४ ङ. - ट. आयताञ्चित ५ ङ. झ. ट. श्रीमन्तंवानरोत्तमं च. छ. ज. वानराःप्रशशंसिरे. ६ क. ग. - ट. वाचमनुत्तमां. ७ अयंश्लोकः ङ.ट. पाठेषुदृश्यते. ८ इदमधे ङ. ट. पाठेषुहश्यते ९ ख . हनुमद्वचनोन्मुखाः.