पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०१ ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ॥ प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥ २५ ॥ ते प्रीताः पादपाग्रेषु गृह्य शांखाः सुविष्ठिताः ॥ वोसांसीव प्रशाखाश्च समाविध्यन्त वानराः ॥ २६ ॥ गिरिगहरसलीनो यथा गर्जति मारुतः ॥ एवं जगर्ज बलवान्हनूमान्मारुतात्मजः ॥ २७ ॥ तमभ्रघन संकाशमापतन्तं महाकपिम् || दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥ २८ ॥ ततस्तु वेगँवांस्तस्य गिरगिरिनिभः कपिः ॥ निपपात महेन्द्रस्य शिखरे पादपाकुले ॥ २९ ॥ हर्षेणापूर्यमाणोसौ रम्ये पर्वतनिर्झरे || छिन्नपक्ष इवाकाशात्पपात धरणीधरः ॥ ३० ॥ ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः || हनुमन्तं महात्मानं परिवार्योपतस्थिरे ॥ ३१ ॥ परिवार्य च ते सर्वे परां प्रीतिमुपागताः ॥ प्रहृष्टवदना: सर्वे तमँरोगमुपागतम् ॥ ३२ ॥ उपायनानि चादाय मूलानि च फलानि च ॥ प्रेत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम् ॥ ३३ ॥ [विनेदुर्मुदिताः केचित्केचित्किलिकिलास्तथा ॥ हृष्टाः पादपशाखाच आनिन्युर्वानरर्षभाः] ॥३४॥ हनुमांस्तु गुरुन्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा || कुमारमङ्गदं चैव सोवन्दत महाकपिः ॥ ३५ ॥ स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ॥ दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ॥ ३६॥ निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ॥ रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा || हनुमानंत्रवीद्धृष्टस्तदा तान्वानरर्षभान् || ३७ || अशोकवनिकासंस्था दृष्टा सा जनकात्मजा || रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ३८॥ एकवेणीघरा बाला रामदर्शनलालसा || उपवास परिश्रान्ता जटिला मलिना कृशा ॥ ३९ ॥ ततो दृष्टेति वचनं महार्थममृतोपमम् || निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ॥ ४० ॥ समुत्पेतुरित्युक्तं विवृणोति — ते नगाग्रादिति ॥ | निपपात निर्भरमाक्रान्तवान् ॥ २९ ॥ पपातेति नगाग्रात् वृक्षाप्रात् समपद्यन्त संघीभूताः ॥ २५ ॥ अच्छिन्नपक्षस्य पातासंभवाच्छिन्नपक्षइत्युक्तं ॥ ३० प्रीता इति हेतुगर्भ विशेषणं । यथा मनुष्याः दूरस्थ - स्वकीयानयनाय वासांसि धून्वन्ति तथा वानराश्चा- न्योन्याह्वानाय पुष्पितशाखा: गृहीत्वा प्रशाखा: प्राप्रशाखाः । समाविध्यन्त पर्यभ्रामयन् ॥ २६ - २७ ॥ अभ्रघनसंकाशं अभ्रसमूहतुल्यं ॥ २८ ॥ | स्वामित्वादिति भावः ॥ ३५ – ३९ ।। भवन् अभवम् । - ३१ ॥ प्रहृष्टवद्नाः प्रसन्नमुखाः । आसन्निति शेषः । अरोगं कुशलिनमित्यर्थः ॥ ३२ ॥ उपायनानि उपहारान् ॥ ३३–३४ ॥ कुमारमङ्गदं चेति । ति० अभ्रं मेघः । तदुपरियोमेघस्तत्संकाशं । अत्युन्नतमेघसमूहसदृशमित्यर्थमन्ये । स्वजीवनदातृत्वेन स्वपूज्यत्वात्प्राञ्जलयः ॥ २८ ॥ ति० ततोगिरेः अरिष्टाख्याद्भिः | लुतःकपिः तस्य महेन्द्रस्य गिरेः शिखरेनिपपात । अनेनाविश्रममागमनध्वनितं ॥ २९ ॥ ति० पर्वतनिर्झरे निर्झरप्रवर्तके शिख रे इत्यर्थमेके । श्रमनिवृत्तये जल एवपतितइत्यन्ये ॥ स० छिन्नपक्ष: धरणीधरः पर्वतइवपपात । अनेन मान्द्याभावः सूच्यते । छिदितिभावेसंपदादिक्विबन्तः । छित् छिदा न ययोस्तौछिन्नौ । नशब्दोनिषे- धार्थकः । तस्यछिच्छब्दानन्तरत्वं जनइत्यादिवद्वोध्यं । ततश्च अच्छिन्नौपक्षौयस्यसः । एवं चेत् हर्षापूर्यमाणता विवक्षितस्थ ललाभोविजयेनागमनं चेतिबह्वर्थलाभोभवतीतिबोध्यं ॥ ३० ॥ स० परां पूर्वप्रीतितोप्युत्कृष्टां। संतोषातिशयेनसर्वइतिद्विरुक्तिः । सर्वे रुद्रे । उ॒प्तोपमेयं । तेदूताः त्रिपुरंहत्वाआयातेरुद्रेइतिवा । " सर्वोह्येषरुद्रः ” इतिश्रुतेः । " सर्वः शर्वः कालजरः शिवः " इतिनाम निधानात् ॥ ३२ ॥ ति० शाखानयनं हनूमतआसनार्थ ॥ ३४ ॥ स० ताभ्यां जांबवदङ्गदाभ्यां । यद्यपिजांबवत्प्रमु खान्गुरून्वृद्धानित्युत्या तैरितिसुभाष । तथापि कार्यनिविष्टताद्वयोरेवातिशयेनेति ताभ्यामित्युपपद्यते । देवीदृष्टेति पौर्वापर्येदेवी- [ पा० ] १ ङ. च. झ ञ ट शाखामवस्थिताः क ख घ. शाखास्सुपुष्पिता: २ घ. ङ. झ ञ ट वासांसिचप्रका- शानि. क. वासांसिचमहार्हाणिदुधुवुर्वानरर्षभाः च. छ. ज. वासांसिचमहाप्रीत्या. ३ ङ. झ. ट. वेगवान्वीरो. ४ ङ. झ. ट. तमागतमुपागमन्. ५ ख प्रत्यर्पयन्हरिश्रेष्ठं. ६ अयंश्लोकः ङ. झ. ट. पाठेषुदृश्यते. ७ ग. घ. च. ―ट. देवीति. ८ क. संग्रहेण. ९ ङ. झ. ट. नब्रवीत्पृष्टः घ नब्रवीद्धृष्टस्समेतान्वानरर्षभान्. १० ख. दीना. ११ क. ग. मारुतेर्वाक्यं. वा. रा. १७४