पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ मारुतस्यात्मजः श्रीमान्कपिव्योमचरो महान् ॥ [ अपारमपरिश्रान्तवाम्बुधिं समगाहत ॥ ] हनुमान्मेघजालानि विकर्षन्निव गच्छति ॥ ६ ॥ पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च || हरितारुणवर्णानि महाआणि चकाशिरे ॥ ७ ॥ प्रविशन्त्र अजालानि निष्पतंच पुनः पुनः ॥ प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ८ ॥ विविधाअघनापन्नगोचरो धवलाम्बरः ॥ दृश्यादृश्यतनुवरस्तदा चन्द्रायतेम्बरे ॥ ९॥ तार्क्ष्यायमाणो गगने वैभासे वायुनन्दनः || दारयन्मेघवृन्दानि निष्पतंत्र पुनः पुनः ॥ १० ॥ नदनादेन महता मेघवनमहास्वनः || प्रवरात्राक्षसान्हत्वा नाम विश्राव्य चात्मनः ॥ ११ ॥ आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ॥ अॅर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥ आजगाम महातेजाः पुनर्मध्येन सागरम् ॥ १२ ॥ पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ॥ ज्यामुक्त इव नाराचो महाँवेगोऽभ्युपागतः ॥ १३ ॥ सँ किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ॥ महेन्द्र मेघसंकाशं ननाद हरिपुङ्गवः ॥ १४ ॥ स पूरयामास कपिर्दिशो दश समन्ततः ॥ नदन्नादेन महता मेघस्वनमहास्वनः ॥ १५ ॥ स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः || ननाद हरिशार्दूलो लाङ्गूलं चाप्यकम्पयत् ॥ १६ ॥ तस्य नानद्यमानस्य सुपर्णचरिते पथि || फलतीवास्य घोषेण गगनं सार्कमण्डलम् ॥ १७॥ ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ॥ पूर्व संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ॥ १८ ॥ महतो वायुनुन्नस्य तोयदस्येव गर्जितम् || शुश्रुवुस्ते तदा घोष रुवेगं हनुमतः ॥ १९ ॥ ते दीर्नैमनसः सर्वे शुश्रुवुः काननौकसः ॥ वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ॥ २० ॥ निशम्य नदतो नादं वानरास्ते समन्ततः ॥ बभूवुरुत्सुका: सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥ २१ ॥ जाम्बवान्सहरिश्रेष्ठः ग्रीतिसंहृष्टमानसः || उपामत्र्य हरीन्सर्वानिदं वचनमब्रवीत् ॥ २२ ॥ सर्वथा कृतकार्योसौ हनूमान्नात्र संशयः ॥ नास्याकृतकार्यस्य नाद एवंविधो भवेत् ॥ २३ ॥ तस्य बाहूरुवेगं च निनादं च महात्मनः ॥ निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ॥ २४ ॥ प्रसमान इवेत्यादिना ॥ ५-६ ॥ व्यक्ताव्यक्तवा- | उभयत्र " उपमानादाचारे " " कर्तुः क्यङ् सलो- चित्वेन अरुणशब्दयोः कथंचिद पौनरुक्त्यमुन्नेयं । पञ्च ” इति क्यङ् ॥ ९–१२ ॥ सुनाभं मैनाकं यद्वा “ अरुणःकृष्णलोहितः " इत्यमरशेषः । महा- ॥ १३ ॥ किंचिदनुसंप्राप्तः मैनाकात्परं कंचित्प्रदेशं भ्राणिचकाशिरे हनुमत्संपर्कादित्यर्थः । अन्यथा प्राप्तः ॥ १४-१५ ॥ लालस: साभिलाषः । तं वाजपेयशरद्वर्णनवदभ्रवर्णनस्यासंगतत्वापातः | हनु- देशं सुहृदावाससमीपप्रदेशं ॥ १६ ॥ नानद्यमानस्य मतस्तेजस्वीत्यनेन मेघानांनानावर्णत्वापत्तिः सूर्येन्दु- पुनःपुनर्भृशं नदत इत्यर्थ: । फलतीव दलतीव संपर्कवत् ॥ ७-८ ॥ विविधेष्वभ्रघनेषु मेघसंघा ॥१७-१८॥ वातनुन्नस्य वातसंघट्टितस्य । घोषं तेषु । आपन्नगोचरः प्राप्तविषय: । लब्धमार्ग इति ऊरुवेगमिति ऊरुवेगजन्यं घोषमित्यर्थः ॥ १९ ॥ यावत् | धवलाम्बरः शुक्लवासा : । दृश्यादृश्यतनुः ते दीनमनस इति । अनिष्टश्रवणशङ्कयेति भावः मेघान्तःप्रवेशनिष्क्रमणाभ्यामितिभावः । चन्द्रायते ॥ २० – २३ || निशम्य ज्ञावेत्यर्थः । यद्वा दृष्ट्वा चन्द्रवाचरति । तार्क्ष्य इवाचरन् तार्क्ष्यायमाणः । चेत्यध्याहार्य | अन्यथा बाहूरुवेगपदानन्वयात् ॥ २४॥ [ पा० ] १ इदमर्धे झट, पाठयोर्दृश्यते. २ ग. च. निष्कामंच. ३ झ. ट. स्तथा ४ झ ञ ट . सबभौ ५ झ. ट, अर्द- यित्वामहावीरान्. छ. ज. दर्शयित्वा. ६ च. – ट. वेगोऽभ्युपागमत् ७ च. – ट. सकिंचिदारात्संप्राप्तः ख. ग. शीघ्रंतदनुसंप्राप्तः ८ ग. घ. हनुमान्मेध. ९ झ ट . ननादसुमहानादं. १० च . - ट. सुपर्णाचरिते. ११ ख. ग. च. – ट. कूले. १२ च. छ. झ. ज. ट. निस्स्वनं. १३ ख मूरुवेग द्धनूमतः १४ क. - घ. दीनवदनाः• १५ ङ. च. छ. झ. ज. समुत्पेतुर्यतस्ततः क, ख. घ. समुत्तुस्समन्ततः P