पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५७ ] श्री मद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९९ स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ॥ विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥ ४५ ॥ अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ॥ निपीडित शिरोग्रीवा व्यंवेष्टन्त महाहयः ॥ ४६ ॥ किन्नरोरगगन्धर्वयक्षविद्याधरास्तैदा || पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥ ४७ ॥ स च भूमिधरः श्रीमान्बलिना तेन पीडितः ॥ सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ॥ ४८ ॥ दशयोजन विस्तारस्त्रिंशद्योजनमुच्छ्रितः ॥ धरण्यां समतां यातः स बभूव धराधरः ॥ ४९ ॥ सलिलवयिषुर्भीमं सलीलं लवणार्णवम् || कल्लोलास्फालवेलान्तमुत्पपात नभो हैरिः ।। ५० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥ सप्तपञ्चाशः सर्गः ॥ ५७ ॥ लङ्कातटा पुनरुत्प्लवनेन मध्ये मार्ग मैनाकसंस्पर्श न पूर्वकमागच्छताहनुमता महेन्द्राचलावलोकनेन बन्धुकुलहर्षणायोधैर्गर्जनं ॥ १ ॥ जांबवता तच्छ्रवणेत सरभससमुत्थितवानरगणान्प्रति हर्षोद्घोषणहेतुना हनुमतः कृतकार्यत्वोक्तिः ॥ २ ॥ ततोम- हेन्द्रशिखरमवतीर्णेनहनुमता जांबवदादिवृद्धाभिवादनपूर्वकं सर्वान्प्रति संग्रहेण सीतादर्शन निवेदनं ॥ ३ ॥ अङ्गदेन हनु मत्प्रशंसनपूर्वकं विस्तरेण सीता दर्शनवृत्तान्तशुश्रूषया सर्वैः सह महेन्द्रा चलविशालशिलतलेसमुपवेशनम् ॥ ४ ॥ [ आत्य च महावेगः पक्षवानिव पर्वतः ॥ ] सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ॥ तिष्यश्रवण कादम्बम अशैवालशाद्वलम् ॥ १ ॥ पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ॥ ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ॥ २ ॥ चातसंघातजाँतोमं चन्द्रांशुशिशिराम्बुमत् ॥ भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥ ३ ॥ हनुमान्मारुतगतिर्महानौरिव सागरम् || अपारमपरिश्रान्तः पुष्टुवे गगनार्णवम् ॥ ४॥ ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् || हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥ ५॥ श्रेष्ठः स्रस्तानि व्याविद्धानि च वसनानि यासां ताः स्रस्त - | कुट: | कादम्ब : कलहंस : " कादम्ब : कलहंसस्स्यात् " व्याविद्धवसनाः ॥ ४५ ॥ निपीडितशिरोश्रीवाः इत्यमरः । अभ्रंशैवालशाद्वलं मेघस्य शैवालत्वेन शिथिलपतितशिलात लैरिति शेषः ॥ ४६ – ४७ ॥ पर्यन्तस्थशाद्वलत्वेन च रूपणं ॥ १ ॥ लोहिताङ्गः सवृक्षशिखरोदग्रः सवृक्षैः शिखरै: उदमः अङ्गारकः स एव महाग्रह : महाग्राहः यस्य तं । ॥ ४८–४९ ॥ कल्लोलास्फालवेलान्तं तरङ्गैरास्फा- ऐरावतस्याभ्रमातङ्गत्वेनाभ्रगामित्वात्तत्र संभवः । ल्यमानतीरोपान्तं ॥ ५० ॥ इति श्रीगोविन्दराजवि- विलोलितं अवगाढं ॥ २ ॥ वातसङ्घातजातोर्म एव रचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने चन्द्रांशवः तैः शीतलजलवत् भुजङ्गादीनांकमलोत्प सुन्दरकाण्डव्याख्याने षट्पञ्चाशः सर्गः ५६ ॥ लत्वेनरूपणं तत्तद्वर्णभेदेन ॥ ३ ॥ अत्र गगनस्यार्ण- वत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च रूपणा- उत्पपात नभो हरिरित्युक्तं तल्लङ्घनं रूपकेण चतु- त्सावयवरूपकं । तस्य नौरिवेत्युपमया तिलतण्डुल- भिर्वर्णयति – सचन्द्रेत्यादिना ॥ कारण्डव: जलकु- | वत्संसृष्टिः ॥ ४ ॥ अथ तदेवोत्प्रेक्षया वर्णयति- ति० व्यवेष्टन्त कुण्डलीकृतशरीराअजायन्त | व्यचेष्टन्तेतिपाठे पीडयाअलुठन्नित्यर्थः ॥ ४६ ॥ ति० कल्लोलैरास्फाल्यते स्पृश्यते तादृशोवेलान्तःतीरप्रान्तोयस्यतं सागरंलिलङ्घयिषुः नभउत्पपातेतिसंबन्धः ॥ ५० ॥ इतिषट्पञ्चाशः सर्गः ॥ ५६ ॥ " स० गगनार्णवमिति नपुंसकत्वमार्षं । नपुंसकोवार्णवशब्दः । “ अस्मदीयंगुणार्णवं " इत्यनुव्याख्यानसुधायांपूर्वमा चारक्किब- न्ततामाश्रित्यानन्तरंपचायचिअर्णव मि तित्रि लिङ्गः साधुरित्युक्तेः । गगनार्णवः प्रसिद्धार्णवइव | नपुनःसएवेतिआचार क्विबन्ततादिक मुपपन्नं ॥ ४ ॥ [ पा० ] १ घ. व्यावेष्टन्तमहोरगा: च. छ. ज. ज. व्यचेष्टन्तमहोरगाः. २ ख. ग. च.ट. स्तथा. ३ छ. ज. न. गिरेः. ४ इदम छ. ट. पाठेषुदृश्यते ५ झ. ट. विलासितं न विलोडितं. ६ घ. च. – ट. जालोर्मिं.