पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ वेपमानमिव श्यामैः कम्पमानैः शरद्वनैः ॥ वेणुभिमरुतोद्भूतैः कूजन्तमिव कीचकैः ॥ ३० ॥ निश्श्वसन्तमिवामर्षाद्धोरैराशीविषोत्तमैः ॥ नीहारकृतगम्भीरैध्ययन्तमिव गहरैः ॥ ३१ ॥ मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ॥ जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ॥ ३२ ॥ कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः ॥ सालतालाश्वकर्णैश्च वंशैव बहुभिर्वृतम् ॥ ३३ ॥ लतावितानैर्विततैः पुष्पवद्भिरलंकृतम् || नानामृगगणा कीर्ण धातुनिष्यन्दभूषितम् ॥ ३४ ॥ बहुप्रस्रवणोपेतं शिलासंचयसंकटम् || महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ॥ ३५ ॥ लतापादपसंघात सिंहाध्युषितकन्दरम् || व्याघ्रसङ्घसमाकीर्ण स्वादुमूलफलद्रुमम् ॥ ३६ ॥ तमारुरोह हनुमान्पर्वतं पवनात्मजः ॥ रामदर्शनशीघेण महर्षेणाभिचोदितः ॥ ३७ || तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु || सघोषाः समशीर्यन्त शिलाञ्चूर्णीकृतास्ततः ॥ ३८ ॥ स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः || दक्षिणादुत्तरं पारं प्रार्थयँलवणाम्भसः ॥ ३९ ॥ अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ॥ ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ ४० ॥ स मारुत इवाकाशं मारुतस्यात्मसंभवः || प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ ४१ ॥ स तदा पीडितस्तेन कपिना पर्वतोत्तमः || ररास संह तैर्भूतैः प्रविशन्वसुधातलम् || कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥ ४२ ॥ तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ॥ निपेतुर्भूतले रुग्णाः शक्रायुघहता इव ॥ ४३ ॥ कैन्दरान्तरसंस्थानां पीडितानां महौजसाम् || सिंहानां निनदो भीमो नभो भिन्दन्स शुश्रुवे ॥४४॥ तेभ्यः पतन्तो निर्झरा इत्यर्थः । तेषां निर्घोषैः । प्राक्रुष्टमिव आक्रोशन्तमिव । पूर्ववत् क्तः ॥ २९ ॥ शरदि ये घना भवन्ति ते शरद्धना: । शरत्कालपु- पिणस्सप्तच्छदादयः तैः शु॒भ्रीभूतैः । कम्पमानमिव स्थितमित्यर्थः । शरद्वनैरितिपाठे बहुवार्षिकवृक्षैरित्यर्थः । शरवणैरिति वार्थः । तका- जरया | मेघावरोहनिभैः । पादैः प्रत्यन्तपर्वतैः । प्रक्रा गन्तुमुद्युक्तमिव । पूर्ववत् क्तः । जृम्भमाणमिव गात्रभङ्गं कुर्वाणमिव । अभ्रमालिभिः मेघमालावद्भिः ॥ ३२ ॥ बहुधाकीर्णै: हनुमत्पादस्पर्शेन शिथिलैरि- यर्थः ॥ ३३ ॥ धातुनिष्यन्दः धातुस्रावः ॥ ३४-३५ । लतापादपानां संघातो यस्मिन्निति रान्तोप्यस्ति । शरवणे जातस्य कृपाचार्यस्य शारद्वत व्यधिकरणबहुव्रीहिः ॥ ३६ || रामदर्शनशीघेण, इति नामदर्शनात् । कीचकैः कीचकाख्यैर्वेणुभिः । रामदर्शनत्वरावता || ३७ || चूर्णीकृतास्समशीर्यन्त | तदाहामर:-" वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनि- यथा चूर्णीकृता भवन्ति तथा समशीर्यन्तेत्यर्थः लोद्धताः ” इति ॥ ३० ॥ आशीविषोत्तमैः निश्श्वस- ॥ ३८ ॥ दक्षिणात् दक्षिणपारात् । प्रार्थयन्तु- न्तमिव सर्पश्रेष्ठनिश्श्वासैर्निश्वसन्तमिव | अमर्षात् मिति शेषः ॥ ३९–४० ॥ स हरिशार्दूल इति हनुमति क्रोधादित्यर्थः । नीहारकृतगम्भीरै: नीहारपूर्णैः संबन्ध: । पितृतुल्यवेगवत्त्वं सूचयति - मारुतस्येति गम्भीरैश्च । गह्वरैः गुहाभिः ध्याननिरुद्धेन्द्रियस्था- ॥ ४१ ॥ तैर्भूतैः तत्रत्यजन्तुभिः ॥ ४२ ॥ रुग्णाः नीयैः । ध्यायन्तमिव स्थितं । निरुद्धेन्द्रियद्वारा शीर्णा इति यावत् । शक्रायुधहताः वज्रहताः ॥ ४३ ॥ ध्यानारूढमिवस्थितमित्यर्थः ॥ ३१ ॥ मेघपादुनिभैः नभो भिन्दन् भिन्दन्निव । महत्तायां तात्पर्यं ॥ ४४ ॥ इत्याहुः ॥ २९ ॥ शरद्वनैः सप्तपर्णादिशारदवृक्षसंधैः ॥ ३० ॥ ति० धातुनिष्यन्दैः धातुनिर्गमैर्भूषितं ॥ ३४ ॥ शिलासंचयेन शिलासमूहेन संकटं नीरन्धं ॥ ३५ ॥ 1 [ पा० ] १ घ. मेघजालनिमैः २ झ . सालतालैश्चकर्णैश्च ३ झ. ट. गणैः कीर्ण. ४ क. घ. च. ज. -ट. संबाधं. ५ च.―ट. सिंहाधिष्ठित, ६ च. छ. झ ञ ट व्याघ्रादिभिस्समाकीर्णे. ७ ग. फलोदकं. ८ च. – ट. भीमोरग. ९ छ.–ट, विविधैर्भूतैः, ख, विहृतैः, १० क. घ. झ. ट. प्राविशद्वसुधातलं. ११ च -- भग्नाः १२ घ. च. झ ञ ट कन्दरोदर, 34