पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९७ शरैः सुसंकुलां कृत्वा लङ्कां परबलार्दनः ॥ मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १२ ॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ॥ भवत्याहवशूरस्य तथा त्वमुपपादय ॥ १३ ॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् || निशम्य हेनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ॥ १४ ॥ [ देवि हरृक्षसैन्यानामीश्वरः लवतांवरः ॥ सुग्रीवः सत्वसंपन्नस्तवार्थे कृतनिश्चयः ।। १५ ।। स वानरसहस्राणां कोटी भिरभिसंवृतः || क्षिप्रमेष्यति वैदेहि सुग्रीवः प्लवगाधिपः ॥ १६ ॥ तौ च वीरौ नरवरौ सहितौ रामलक्ष्मणौ ॥ आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ १७ ॥ सगणं राक्षसं हत्वा नचिराद्रघुनन्दनः ॥ त्वामादाय वरारोहे खां पुरीं प्रतियास्यति ॥ १८ ॥ समाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी || क्षिप्रं द्रक्ष्यसि रामेण निहतं रावणं रणे ॥ १९ ॥ निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे || त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी] ॥ २० ॥ क्षिप्रमेष्यति काकुत्स्थो हरृक्षवरैर्वृतः ॥ यस्ते युधि 'विजित्यारीञ्शोकं व्यपनयिष्यति ॥ २१ ॥ एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः || गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥ २२ ॥ [राँक्षसान्प्रवरान्हत्वा नाम विश्राव्य चात्मनः ॥ समावास्य च वैदेहीं दर्शयित्वा परं बलम् ॥ २३ ॥ नगरीमाकुलां कृत्वा वञ्चयित्वा च रावणम् || दर्शयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥ प्रतिगन्तुं मनचक्रे पुनर्मध्येन सागरम् ॥ २४ ॥] ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः || आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥ २५ ॥ तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः || सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः ॥ २६ ॥ बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ॥ उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ॥ २७ ॥ तोयौघनिस्खनैर्मन्द्रैः प्राधीतमिव पर्वतम् || प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ॥ २८ ॥ देवदारुभि॑िरंत्युच्चैरूर्ध्व चाहुमिव स्थितम् || प्रपातजलनिर्घोषैः प्रक्रुष्टमिव सर्वतः ॥ २९ ॥ कार्यस्य सर्वराक्षसवधपूर्वक प्रापणरूपकार्यस्य । | णात् ॥ २६ ॥ शुभैः तरुणैः । करैः अंशुभिः बलोदयः सत्त्वप्रकर्षः । सैन्योत्थापनं वा । ते यशस्य: हस्तैश्च | बोध्यमानमिव स्थितं । तत्र ज्ञापकमाह -- यशस्करः । नतु रामस्येति भावः ॥ ११ ॥ तर्हि उद्धृतैरिति । उद्धृतैः उगतैः । लोचनैरिव स्थितैः रामस्य किं यशस्रमियत्राह - शरैरिति । तत् धातुभिः उन्मिषन्तं पश्यन्तमिव स्थितं ॥ २७ ॥ स्वपराक्रमेण मन्नयनं । तस्य काकुत्स्थस्य । सदृशं । तोयौघनिःस्वनैः गिरिनदीघोषैः । मन्त्रैः गंभीरैः । एतदेव ममाभिलषितं । अन्यथा मे कथं वीरपत्नीत्व- प्राधीतमिव प्राध्येतुं प्रवृत्तमिव । आदिकर्मणि कर्तरि मिति भावः ॥ १२ ॥ तच्च त्वदायत्त मेवेत्याह- तद्य - क्तः । अधीयानमिवेत्यर्थः । प्रस्रवणस्वनैः पर्वतमूला- थेति || विक्रान्तं विक्रमणं ॥ १३-२४ ॥ अरिष्टं द्वहिः प्रवहन्ति जलानि प्रस्रवणानि तेषां स्वनैः । अरिष्टाख्यं ।। २५ ।। अथैनं गिरिं चतुर्दशधोत्प्रेक्षते- प्रगीतमिव गातुं प्रवृत्तमिव गायन्तमिवेत्यर्थः । आदि- तुङ्गेत्यादिना ॥ पद्मकाः पद्मवर्णवृक्षाः | परिधाना- कर्मणि कर्तरि क्तः ॥ २८ ॥ ऊर्ध्वबाहुमिवेति तपो- लेख्य स्थानीयतया विशेषणमिति बोध्यं । सपरिधा- विशेष उच्यते । प्रपातजलनिर्घोषैः प्रपाताः भृगवः । नमिव स्थितमितिशेषः । उत्तरार्धे सोत्तरीयत्वोत्प्रेक्ष- | " प्रपातस्त्वंतटो भृगुः इत्यमरः । तेषां जलानि ति० प्रपातजलनिर्घोषैः प्रपातेभ्यः भृगुदेशेभ्यः पतजलशब्दैः । प्राक्रुष्टमिव आरब्धाक्रोशमिव । सर्वत्रादिकर्मणिकर्तरिक्तः " [ पा० ] १ क. ग. तत्त्वमेवोपपादय. २ झ ञ ट हनुमान्वीरो ३ देविहरृक्षसैन्यानामित्यादयः शशाङ्केनेवरोहिणी- यन्ताः श्लोकाः झ. न. ट. पाठेषुदृश्यन्ते. ४ च.-ठ. प्रवरैर्युतः ५ ख ग घ. झ. ट. विनिर्जित्यशोकं. ६ राक्षसान्प्रवरा- नित्याद्यर्धपञ्चकं श. ञ. ट. पाठेषु दृश्यते. ७ ख ग घ. सुखैः ८ क. – घ. च. द. सर्वतः ९ क. ग. च. छ. झ. ञ॰ ट॰ विस्पष्ट॑नाना. १० ग. घ. च. झ. ञ, द. रुद्भूतैः. ११ घ. प्रघुष्टमिव