पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ प्रपलायितरक्षस्त्रीबालवृद्धसमाकुला || जनकोलाहलाध्माता ऋन्दन्तीवाद्रिकन्दरे ॥ ३२ ॥ दग्धेयं नगरी सेर्वा साट्टप्राकारतोरणा || जानकी न च दग्धेति विसयोऽद्भुत एव नः ॥ ३३ ॥ इति शुश्राव हनुमान्वाचं ताममृतोपमाम् || बभूव चास्य मनसो हर्षस्तत्कालसंभवः ॥ ३४ ॥ स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ॥ ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः ॥ ३५ ॥ ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा || १९६ प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ।। ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ षट्पञ्चाशः सर्गः ॥ ५६ ॥ हनुमता शिशुपामूलमेय सीतांप्रत्यभिवादनसमाश्वासनसमापृच्छनपूर्वकं सागरोत्तरतीरगमनायारिष्टगिरिसमारोह णम् ॥ १ ॥ तथा स्वचरणनिपीडनात्तगिरिवरस्य रसातलप्रवेशनेनततस्समुत्पतनम् ॥ २ ॥ ततस्तु शिशुपासूले जानकीं पर्यवस्थिताम् || अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ १ ॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ॥ भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ॥ २ ॥ [ यदि त्वं मन्यसे तात वसैकाहमिहानघ || कचित्सुसंवृते देशे विश्रान्तः श्रो गमिष्यसि ॥ ३ ॥ मम चैवाल्पभाग्यायाः सांनिध्यात्तव वानर || शोकस्यास्याप्रमेयस्य मुहूर्त स्यादपि क्षयः ॥ ४ ॥ गते हि हरिशार्दूल पुनः संप्राप्तये त्वयि ॥ प्राणेष्वपि न विश्वासो मम वानरपुङ्गव ॥ ५ ॥ अदर्शनं च ते वीर भूयो मां दारयिष्यति || दुःखाद्दुःखतरं प्राप्तां दुर्मनश्शोककर्शिताम् ॥ ६ ॥ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः || सुमहत्सु सहायेषु हरृक्षेषु महाबलः ॥ ७॥ कथं नु खलु दुष्पारं संतरिष्यन्ति सागरम् | तानि हरृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ८ ॥ त्रयाणामेव भूतानां सागरस्यातिलङ्घने || शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ ९ ॥ तदत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदें || किं पश्यसि समाधानं त्वं हि कार्यविशारदः ] ॥ १० ॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने || पर्याप्तः परवीरन यशस्यस्ते बलोदयः ॥ ११ ॥ नादहत् स तामेव कथं दहतीत्यर्थः ॥ २५ – ३२ || | क्यैर्विदित्वा पुनः प्रत्यक्षं दृष्ट्वा ततः प्रतिप्रयाणा विस्मयोद्भुत एव न इति । अयं विस्मयः अद्भुत एव । मतिं चकार । प्रतियास्यामीति संकल्पितवानित्यर्थः अद्भुतमाश्चर्य | कल्याणं चेत्युणादिवृत्तिः । यद्वा ॥ ३६ || इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- बिस्मयः आश्चर्यै अद्भुतः अभूतपूर्वइत्यर्थः । अद्भुतः णभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अद्भुतरसः | तस्य स्थायीभावोविस्मयः । तथाच पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ अद्भुत एव अद्भुतरसतां प्राप्त एव । महानयं विस्मयः । न विस्मयमात्र इत्यर्थः ॥ ३३–३४॥ निमित्तैः दक्षिणाक्षिस्पन्दादिभि: । दृष्टार्थैः दृष्टफलसं- वादैः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः । प्रस्थितं प्रस्थानोयुक्तं ॥ २८१० ॥ वनभ- ङ्गाक्षवधादिना हनुमतश्शक्तिं विज्ञाय असौ रामाय निवेद्य स्वयमेव सकलराक्षससंहारपूर्वकं मम ऋषिवाक्यैः चारणवाक्यैः ॥ ३५ ॥ पूर्व चारणवा नेता मा भूदित्यभिप्रायेणाह- काममिति ॥ अस्य स० प्राप्तमनोरथार्थः प्राप्तसीतादर्शनरूपमनोरथफलः ॥ ३६ ॥ इतिपञ्चपञ्चाशः सर्गः ॥ ५५ ॥ [ पा० ] १. ग. ङ. झ ञ ट लङ्का २ घ. विस्मयोदात्तभाषिणां. ३ अयंश्लोकः ङ च छ. झ ञ ट . पाठेषुदृश्यते. .४ झ. लेहान्विता. ५ यदित्वंमन्यसेइत्यादयः त्वंहिकार्यविशारदइत्यन्ताः श्लोकाः छ. झ ञ ट पाठेषुदृश्यन्ते.