पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९५ यदि तद्विहतं कार्य मम प्रज्ञाविपर्ययात् || इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते ॥ १३ ॥ किम नौ निपताम्यद्य आहोखिद्रडबामुखे || शरीरमाहो सवानां दमि सागरवासिनाम् ॥ १४ ॥ कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ॥ तौ वा पुरुषशार्दूलो कार्यसर्वस्वघातिना ॥ १५ ॥ मया खलु तदेवेदं रोषदोषात्प्रदर्शितम् ॥ प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥ १६ ॥ .. .. धिगस्तु राजसंभावमनीशमनवस्थितम् || ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ॥ १७ ॥ विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ॥ तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥ १८ ॥ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ॥ धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ १९ ॥ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमैसंशयम् || भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः ॥ २० ॥ तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ॥ रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥ २१ ॥ इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे || पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥ २२ ॥ अथवा चारुसर्वाङ्गी रक्षिता खेन तेजसा ॥ न नशिष्यति कल्याणी नाग्निना प्रवर्तते ॥ २३ ॥ नहि धर्मात्मनस्तस्य भार्याममिततेजसः || स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः || २४ ॥ नूनं रामप्रभावेन वैदेह्याः सुकृतेन च ॥ यन्मां दहनकर्माऽयं नादहद्धव्यवाहनः ॥ २५ ॥ त्रयाणां भरतादिनां भ्रातृणां देवता च या ॥ रामस्य च मनःकान्ता सा कथं विनशिष्यति ||२६|| यद्वा दहनकर्माऽयं सर्वत्र प्रभुरव्ययः ॥ न मे दहति लाङ्गूलं कथमार्थी प्रधक्ष्यति ॥ २७ ॥ पुनंचाचिन्तयत्तत्र हनुमान्विस्मितस्तदा || हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ॥ २८ ॥ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि || अपि सा निर्दहेदनि न तामग्निः प्रधक्ष्यति ॥ २९ ॥ स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् || शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम् ॥ ३० ॥ अहो खलु कृतं कर्म दुष्करं हि हनूमता ॥ अग्निं विसृजताऽभीक्ष्णं भीमं राक्षसवेश्मनि ॥ ३१ ॥ इत्यत्राह — विनष्टेति ।। १२ । विहतं यदि सीताना- | मात्सर्ये रक्तवर्णे कुसुम्भके " इतियादवः । यद्वा शाद्विनष्टं यदि ।प्राणसंन्यासः प्राणत्यांग: रागात् रजोगुणात् । आग्रहादिति यावत् ।।१७ - २१ ॥ ॥ १३–१५ ।। कपित्वं कापेयं । अनवस्थितं चाप- निमित्तान्युपपेदिरे शुभशंसिनिमित्तानि प्रादुर्बभूवुरि- लात्मकमित्यर्थः ।। १६ ।। राजसंभाव रजोगुणनिब- त्यर्थः ॥ २२ ॥ एवं लोकदृष्टयाऽनर्थमाशय तत्त्व- न्धनचेष्टाविशेषं । अनीशं नियामकरहितं । स्वतन्त्र दृष्ट्या समाधत्ते – अथवेत्यादिना ॥ नामिस्म मिति यावत् । अनवस्थितं कुर्वत्स्वभावं | ईश्वरेणापि प्रवर्तते । अग्निरग्निं न दहतीत्यर्थः ॥ २३ – २४ ॥ रक्षणसमर्थेनापि । रागात् मात्सर्यात् । “रागोनुरागे दहनकर्मा भस्मीकरणस्वभावः । यत्प्रभावादयं मां स्तुमात्रेक्षिपतिवासतं ॥ ८ ॥ ति० बडबामुखेअन्ना वित्यन्वयः । दद्मि ददामि ॥ स० अग्नौ मन्निहितलङ्काभौ । बडबामुखे समु- द्वान्तर्गतेवाऽग्नौ । बडबामुखेऽग्नावित्यन्वयेनिरर्थकताऽऽहोखितः । यदिप्राचीनप्राणन्यासेन समुच्चयायतदित्युच्यतेतर्हिकिमि- त्यस्यंपूर्वार्धेविकल्पसूचकत्वेनाहोखिदित्यस्योत्तरार्धेऽन्वयस्यवक्तव्यतयाआहोइत्यस्यवैयर्थ्यस्यदुर्वारत्वापत्तेः ॥ १३ ॥ स० तदेव कपित्वं सीतयापूर्वोक्तं । अनवस्थितं अव्यवस्थितं ॥ १६ ॥ स० त्रयाणांभरतादीनां । भरतस्यराज्येऽधिकृतत्वात्प्रथमतउक्तिः । तज्ज्यैष्ठ्यपक्षे नानुपपत्तिः । देवता तद्वत्पूज्या ॥ २६ ॥ ती० देवीप्रभावात्सिन्धौम द्विश्रान्तिनिमित्तगिरिदर्शनहेतुनापिदेवीम- मिर्नदहतीत्याह–पुनश्चेति ॥ तत्र तस्मिन्समये | विस्मितोहनुमान् जलमध्ये सागरान्तर्देशे । हिरण्यनाभस्यगिरेः प्रदर्शनं पुनर चिन्तयत् । एतेन पर्वतादीनामपिसर्वेषांरामाज्ञावशवर्तित्वंसूचितं । तेन सीतायानाग्नेर्भीतिरितिसूचितं ॥ २८ ॥ स० सहनु मान् । धारकत्वाद्धर्मोभगवान रामः | तत्परिग्रहं भार्यो | चिन्तयन् देव्याविषयेचारणानां शुश्राव । वचइतिशेषः । धर्मपरिग्रहं रक्ष- कधर्मसंपत्तिवा ॥ ३० ॥ " [ पा० ] १ झ ञ. शरीरमिह. २ ग. च. छ. झ. ज. ट. मसंशयः. ३ ङ. झ ञ ट, असौविनिर्दहेत्. ग. अथसा. ४ झ ञ ट हनुमांस्तत्र.