पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः ।। ६० ।। तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् || कालानिरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः || ६१ ॥ देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः ॥ भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ॥ ६२ || इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥ पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ लङ्काया निश्शेषभस्मीभावावलोकनेन सीतायाअपिदाहसंभावनयाऽऽत्मधिक्कारपूर्वकंसशोकंबहुधाचिन्तयताहनुमतासिद्ध- चारणभाषणश्रवणादिना तस्यादाहाभावनिर्धारणेन हर्षाधिगमः ॥ १॥ लङ्कां समस्तां संदीप्य लाङ्गूलानिं महाबलः || निर्वापयामास तदा समुद्रे हरिसत्तमः ॥ १ ॥ संदीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् || अवेक्ष्य हनुमाँल्लङ्कां चिन्तयामास वानरः ॥ २ ॥ तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत ॥ लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया ॥ ३ ॥ धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम् || निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ ४ ॥ क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि ॥ क्रुद्धः पुरुषया वाचा नरः साधूनधिक्षिपेत् ॥ ५ ॥ वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् ॥ नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते कचित् ॥६॥ यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ॥ यथोरगस्त्वचं जीर्णो स वै पुरुष उच्यते ॥ ७ ॥ धिगस्तु मां सुदुर्बुद्धिं निर्लजं पापकृत्तमम् || अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ॥ ८ ॥ यदि दैग्धा त्वियं लङ्का नूनमार्यापि जानकी || दुग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥ ९ ॥ यदर्थमयमारम्भस्तत्कार्यमवसादितम् ॥ मया हि दहता लङ्कां न सीता परिरक्षिता ॥ १० ॥ ईषत्कार्यमिदं कार्य कृतमासीन संशयः || तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ ११ ॥ विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते || लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ १२ ॥ लाङ्गूलानिं समुद्रे निर्वापयामासेत्यन्वयः ||१ - २ || पामिति । अस्मिन्सर्गे एकपञ्चाशकाः । ततो कुत्सा निन्दा ॥ ३ - ८ | जानक्यपि यदि दुग्धेत्य- महात्मेति श्लोकः स राक्षसानिति लोकोक्तार्थकतया | न्वयः ॥ ९–१० ॥ इदं कार्य अन्वेषणपूर्वकरावण- बहुकोशेष्वदर्शनाच्च प्रक्षिप्तः । बहुकोशेष्वेतत्सर्गसमा- निलयपरिज्ञानसीतादर्शनतन्निवेदनरूपं महत्कार्य । प्तिविपर्ययः उत्तरसर्गारम्भविपर्ययश्च दृश्यते ||६२ || ईषत्कार्य ईषदवशिष्टकार्य | असमग्रप्रायमेवकृतमा- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे सीत् । रामनिवेदनमात्रावशेषं कृतमासीदित्यर्थः । शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुःप- किंत्विदानीं क्रोधाभिभूतेन क्रोधान्धेन | मया तस्य चाशः सर्गः ॥ ५४ ॥ कार्यस्य । मूलक्षयः कृतः न संशयः | विफली कृतमि त्यर्थः ॥ ११ ॥ सीतानाशे तत्तथैव सएव तु कुत ॥ ५८ – ६१ ॥ परामित्यस्य विवरणं – अतुल्यरू- ति ति० उक्तकुत्सितकार्यमूलंकोपएवेतिनिश्चित्यतद्रहितान्स्तौति - धन्याइति । दुःखातिशयादेवमहात्मपदपौनरुत्त्यंनदोषाय ॥४॥ 10 क्रुद्धःपापनकुर्याद्यइतिपाठे क्रुद्धोयःकश्चित्पापंकुर्यान्न । नञिकाकुः | अपितुकुर्यादेव | अकरणमशक्यमेवेत्यर्थः । तदेवदर्शय- ति — क्रुद्धोहन्यादिति ॥ ५ ॥ शि० सीतामचिन्तयित्वा विस्मृत्य अन्यत्रानीत्वेत्यर्थः । अमिदं अनयेददाति अनिंददातिव- > [ पा० ] १ ङ. झ ञ ट. कामं, २ ङ. छ. –ञ. धन्याः खलुमहात्मानो. ३ च. झ ञ ट लङ्कात्वियंसर्वा